संस्कृत सूची|संस्कृत स्तोत्र साहित्य|शिक्षा|व्यास शिक्षा|

हस्तस्वरविन्यासप्रकरणम्

शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.


कनिष्ठानामिकामध्या तर्जनीषूत्तमे करे

नीचस्वारधृतोदात्तानङ्गुष्ठाग्रेण निर्दिशेत्

आद्यन्तमध्यामध्यासु तद्रेखासु च तान् क्रमात्

पृथक् तदङ्गुलिस्थानं भक्तेर्यस्स्वर उच्यते

स्वारमुच्चमिवोर्ध्वञ्च ह्यनामिकान्तरान्त्ययोः

स्वारकम्पे स्वरावेतावनामिकोत्तमाद्ययोः

निर्दिशेदुच्चकम्पे च तर्जनीमध्यमाद्ययोः

विरामे व्यञ्जनस्यैव पृथक्स्थानं न विद्यते

एवं हस्तस्वरन्यासे कथितश्च विनिर्णयः

सुहस्तस्वरविन्यासान्निर्मलाध्ययनं भवेत्

तत्पूतो ब्राह्मणो यस्तु ब्रह्मणा सह मोदते

इति हस्तस्वरविन्यासप्रकरणम्

N/A

References : N/A
Last Updated : August 17, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP