संस्कृत सूची|संस्कृत स्तोत्र साहित्य|शिक्षा|व्यास शिक्षा| संज्ञाप्रकरणम् व्यास शिक्षा संज्ञाप्रकरणम् प्रग्रहप्रकरणम् परिभाषाप्रकरणम् दीर्घप्रकरणम् आगमप्रकरणम् लोपप्रकरणम् वैकृतप्रकरणम् षत्वप्रकरणम् णत्वप्रकरणम् रेफप्रकरणम् विसर्जनीयसन्धिप्रकरणम् यत्वप्रकरणम् अच्सन्धिप्रकरणम् अनैक्यप्रकरणम् ऐक्यप्रकरणम् स्वरधर्मस्वरूपप्रकरणम् स्वरसन्धिप्रकरणम् हस्तस्वरविन्यासप्रकरणम् द्वित्वप्रकरणम् पूर्वागमप्रकरणम् द्वित्वनिषेधप्रकरणम् अङ्गसंहिताप्रकरणम् स्वरभक्तिप्रकरणम् स्थानकरणप्रयत्नप्रकरणम् प्लुतप्रकरणम् ओष्ठ्यप्रकरणम् कालनिर्णयप्रकरणम् उच्चारणफलप्रकरणम् संज्ञाप्रकरणम् शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे. Tags : sanskritshikshaशिक्षासंस्कृत संज्ञाप्रकरणम् Translation - भाषांतर श्रीवासुदेवं वरदं प्रणम्य श्रीमद्गणेशं वचसाञ्च देवीम् शिक्षां प्रवक्ष्ये श्रुतिकारणाङ्गं सुबोधकं लक्षणशीर्षभूषाम् अथ स्वरादिसंज्ञाश्च तत्प्रयोजनमेव हि तत्फलञ्च प्रवक्ष्यामि विदुषां प्रमुदे यथा अवर्णेवर्णकोवर्णा ऋवर्णो ऌत्वमेत्वमैत् ओदौद्रङ्गौ क्रमादोम्योत्स्वरास्स्युर्व्यञ्जनान्यथ कादिमान्तास्स्मृतास्स्पर्शा अन्तस्था यादिवोत्तराः जिह्वामूलादिहान्ताश्च षडूष्माण उदीरिताः स्पर्शानां पञ्च पञ्च स्युर्वर्गा वर्गोत्तरस्य च तत्प्रथमादिसंज्ञास्स्युः पञ्चमस्योत्तमः क्रमात् अघोषास्स्युर्विसर्गोष्मद्वितीयप्रथमा न हः गजडाद्या दबाद्याश्च घोषवन्तः परे हलः सविशेषस्तु यस्तस्य ज्ञेयं वर्णान्तरं बुधैः तुल्यरूपं सवर्णं स्याल्लोपस्स्यादप्रदर्शनम् ऋवर्णस्य ऌकारस्य पृक्तसंज्ञा प्रकीर्तिता अवसानेऽन्त्यवर्णाश्च नादा इति बुधैस्स्मृताः आख्यानेकस्य वर्णोर्ध्वः स्वरस्य कारतोत्तरः भवेदकारकारोद्धर्वो हलामत्तु र एफगः अदन्तं ग्रहणं वा स्यात्सन्देहे सन्निधिं त्वपि निर्देशाः कारमुख्याश्चान्वादेशावपि चेत्यधः त्वथैवेति निवृत्तिस्थो ह्यधिकारोऽवधारकः अनमाना निषेधे स्युर्वेति वैभाषिको भवेत् सम्मिश्रस्स्याद्यदेकत्वं सम्बन्धः श्रवणे द्वयोः अनेकव्यञ्जनश्लिष्टस्संयोगश्च प्रकीर्तितः वर्णाभावो विरामश्चावसानं सार्धमात्रिकः नानापदवदिङ्ग्यञ्चासङ्ख्याने चाद्यवग्रहः वेदभागः कमेणैव स चार्षः कथ्यते बुधैः उच्छ्वासेऽनवसाना स्यात्संहिता चान्तगं पदम् पदवर्णस्वराङ्गानां द्विर्द्विर्युक्ते च संहिता द्विधादिसंहिता ह्यत्र पञ्चैवं संहितास्स्मृताः पदवत्संहिता यत्र न कार्यं सांहितं यदि विज्ञेया प्रकृतिस्तस्या ज्ञानादेव फलं लभेत् संहितावत्क्रमो ज्ञेयो द्वितीयं पदवद् द्वयोः इतिगन्त्वादि चेदुक्त्वा द्वितीयं चोत्तरं तथा आदन्तन्तु यदुच्चान्तमोपसर्गपरं यदि परेण त्रिक्रमस्स्याद्धिषु पदं नः परन्त्वधः सकृदादि द्वितीयं द्विः पठेच्चादिपदं सकृत् सन्धितः क्रमवच्चेति प्रोच्यते सा जटा बुधैः त्रिक्रमस्य जटा ज्ञेया ह्युक्त्वा पूर्वं क्रमं तथा पुनरन्तं मध्यमादि पुनराद्यन्तरं परम् अनुलोमस्स्वपाठस्स्याद्विलोमस्सन्धिनिर्मितः पदं पदं पठेत्ताभ्यां त्रिवारञ्चोर्ध्वतः पुनः प्रोपावापर्यधिव्युत्सुन्यन्वपाप्यत्यभि प्रति परानिस्सं नव दशाप्युपसर्गाः स्युरत्र हि इति संज्ञाप्रकरणम् N/A References : N/A Last Updated : August 17, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP