संस्कृत सूची|संस्कृत स्तोत्र साहित्य|स्तोत्रः|नारायणगुरुविरचितानि स्तोत्राणि| ब्रह्मविद्या पञ्चकम् नारायणगुरुविरचितानि स्तोत्राणि स्तोत्रक्रियाः विनायकाष्टकम् श्रीवासुदेवाष्टकम् विष्ण्वष्टकं भद्रकाल्यष्टकम् षाण्मातुरस्तवम् गुहाष्टकम् बाहुलेयाष्टकं चिदंबराष्टकम् जातिनिर्णयम् धर्मः आश्रमम् मुनिचर्यापञ्चकम् अध्यारोपदर्शनम् अपवाददर्शनम् असत्यदर्शनम् मायादर्शनम् भानदर्शनम् कर्मदर्शनम् ज्ञानदर्शनम् भक्तिदर्शनम् योगदर्शनम् निर्वाणदर्शनम् ब्रह्मविद्या पञ्चकम् निर्वृतिपञ्चकम् श्लोकत्रयी होममन्त्रम् वेदान्तसूत्रम् समाधि श्लोकौ ब्रह्मविद्या पञ्चकम् देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते. Tags : godgoddessnarayan gurustotraदेवतादेवीनारायण गुरुसंस्कृतस्तोत्र ब्रह्मविद्या पञ्चकम् Translation - भाषांतर नित्यानित्यविवेकतो हि नितरां निर्वेदमापद्य सद्-विद्वानत्र शमादिषट्कलसितः स्यान्मुक्तिकामो भुवि ।पश्चाद्ब्रह्मविदुत्तमं प्रणतिसेवाद्यैः प्रसन्नं गुरुंपृच्छेत् कोऽहमिदं कुतो जगदिति स्वामिन्! वद त्वं प्रभो! ॥ १॥त्वं हि ब्रह्म न चेन्द्रियाणि न मनो बुद्धिर्न चित्तं वपुःप्राणाहङ्कृतयोऽन्यदप्यसदविद्याकल्पितं स्वात्मनि ।सर्वं दृश्यतया जडं जगदिदं त्वत्तः परं नान्यतोजातं न स्वत एव भाति मृगतृष्णाभं दरीदृश्यताम् ॥ २॥व्यप्तं येन चराचरं घटशरावादीव मृत्सत्तयायस्यान्तःस्फुरितं यदात्मकमिदं जातं यतो वर्तते ।यस्मिन् यत् प्रलयेऽपि सद्घनमजं सर्वं यदन्वेति तत्सत्यं विध्यमृताय निर्मलधियो यस्मै नमस्कुर्वते ॥ ३॥सृष्ट्वेदं प्रकृतेरनुप्रविशती येयं यया धार्यतेप्राणीति प्रविविक्तभुग्बहिरहं प्राज्ञस्सुषुप्तौ यतः ।यस्यामात्मकला स्फुरत्यहमिति प्रत्यन्तरङ्गं जनै-र्यस्यै स्वस्ति समर्थ्यते प्रतिपदा पूर्णा शृणु त्वं हि सा ॥ ४॥प्रज्ञानं त्वहमस्मि तत्त्वमसि तद् ब्रह्मायमात्मेति सं-गायन् विप्रचर प्रशान्तमनसा त्वं ब्रह्मबोधोदयात् ।प्रारब्धं क्वनु सञ्चितं तव किमागामि क्व कर्माप्यसत्त्वय्यध्यस्तमतोऽखिलं त्वमसि सच्चिन्मात्रमेकं विभुः ॥ ५॥ N/A References : N/A Last Updated : February 21, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP