संस्कृत सूची|संस्कृत स्तोत्र साहित्य|स्तोत्रः|नारायणगुरुविरचितानि स्तोत्राणि| बाहुलेयाष्टकं नारायणगुरुविरचितानि स्तोत्राणि स्तोत्रक्रियाः विनायकाष्टकम् श्रीवासुदेवाष्टकम् विष्ण्वष्टकं भद्रकाल्यष्टकम् षाण्मातुरस्तवम् गुहाष्टकम् बाहुलेयाष्टकं चिदंबराष्टकम् जातिनिर्णयम् धर्मः आश्रमम् मुनिचर्यापञ्चकम् अध्यारोपदर्शनम् अपवाददर्शनम् असत्यदर्शनम् मायादर्शनम् भानदर्शनम् कर्मदर्शनम् ज्ञानदर्शनम् भक्तिदर्शनम् योगदर्शनम् निर्वाणदर्शनम् ब्रह्मविद्या पञ्चकम् निर्वृतिपञ्चकम् श्लोकत्रयी होममन्त्रम् वेदान्तसूत्रम् समाधि श्लोकौ बाहुलेयाष्टकं देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते. Tags : godgoddessnarayan gurustotraदेवतादेवीनारायण गुरुसंस्कृतस्तोत्र बाहुलेयाष्टकं Translation - भाषांतर ॐ ॐ ॐ होमधूमप्रकटतटजटाकोटिभोगिप्रपूरंआं आं आं आदितेयप्रणतपदयुगांभोरुहश्रीविलासम् ।ऊं ऊं ऊं उग्रनेत्रत्रयलसितवपुर्ज्योतिरानन्दरूपंश्रीं श्रीं श्रीं शीघ्रचित्तभ्रमहरमनिशं भावये बाहुलेयम् ॥ १॥ह्रीं ह्रीं ह्रीं हृष्टषट्कन्धरमघमरणारण्यसंवर्त्तवह्निंऐं ऐं ऐं ऐङ्गुदीसत्फलमृदुमिलितप्राशियोगीन्द्रवन्द्यम् ।क्लीं क्लीं क्लीं क्लिष्टकायक्लमदवदहनक्लेशनिर्मूलनाशंसौं सौं सौं सौरकान्तिभ्रमहरमनिशं भावये बाहुलेयम् ॥ २॥शं शं शं शब्दरूपं शशिधरममलं शङ्करं सांबमूर्तिंशिं शिं शिं शिष्टवन्द्यं शिखरिनिलयनं शिक्षितानेकलोकम् ।शुं शुं शुं शुभ्रहासं शुभकरमतिसन्देहसन्दोहनाशंशौं शौं शौं शौक्लिताङ्गं सितभसितगणैर्भावये बाहुलेयम् ॥ ३॥रं रं रं रम्यदेहं रजतगिरिगृहं रक्तपद्माङ्घ्रियुग्मंरिं रिं रिं रिक्तशोकप्रकृतिपरमजंघालमानीलनेत्रम् ।रुं रुं रुं रूक्षकायप्रतिभटहननं रक्तकौशेयवस्त्रंरौं रौं रौं रौं रौरवादिद्रुतहरकुहरं भावये बाहुलेयम् ॥ ४॥हं हं हं हंसयोगिप्रवरसुखकरं हस्तलक्ष्मीसमेतंहिं हिं हिं हीनमानं हितसुखवरदं हिंसयापेतकीलम् ।हुं हुं हुं हुंकृतिध्वंसितरजनिचरक्रौर्यकौटिल्यमूर्तिंहैं हैं हैं हैमकुंभायतकरसहजं भावये बाहुलेयम् ॥ ५॥णं णं णं नन्दिकेशप्रवरभुजगनिर्विघ्नकर्मप्रपञ्चंणिं णिं णिं नीलकण्ठप्रियसुतमजितं निर्मलाङ्गं निरीहम् ।णुं णुं णुं णुत्तनाभोत्तरनिभृतनिरालंबकैवल्यमूर्तिंणौं णौं णौं नामरूपात्मकजगदखिलं भावये बाहुलेयम् ॥ ६॥भं भं भं भागधेयं भगवदनुचरप्राञ्जलिस्तोत्रपूरंभिं भिं भिं भीमनादान्तकमदनहरं भीषितारातिवर्गम् ।भुं भुं भुं भूतिभूषार्च्चितममितसमस्तार्थशास्त्रान्तरङ्गंभौं भौं भौं भौममुख्यं ग्रहगणनपटुं भावये बाहुलेयम् ॥ ७॥वं वं वं वाहिनीशं वलरिपुनिलयस्तोत्रसम्पत्समूहंविं विं विं वीरबाहुप्रभृतिसहचरं विघ्नराजानुजातम् ।वुं वुं वुं भूतनाथं भुवननिलयनं भूरिकल्याणशीलंवौं वौं वौं भावितारिप्रतिभयमनिशं भावये बाहुलेयम् ॥ ८॥ N/A References : N/A Last Updated : February 21, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP