भानदर्शनम्

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.


अन्तर्बहिर्वदासीनं सदा भ्रमरचञ्चलम् ।
भानं द्विधैव सामान्यं विशेष इति भिद्यते ॥ १॥

स्थूलं सूक्ष्मं कारणं च तुर्यं चेति चतुर्विधम् ।
भानाश्रयं हि तन्नाम भानस्याप्युपचर्यते ॥ २॥

दृश्यतामिह कायोऽहं घटोऽयमिति दृश्यते ।
स्थूलमाश्रित्य यद्भानं स्थूलं तदिति मन्यते ॥ ३॥

अत्र कायो घट इति भानं यत्तद्विशिष्यते ।
तथाऽहमयमिति यत् सामान्यमिति च स्मृतम् ॥ ४॥

इन्द्रियाणि मनोबुद्धी विषयाः पञ्चवायवः ।
भास्यन्ते येन तत्सूक्ष्ममस्य सूक्ष्माश्रयत्वतः ॥ ५॥

अज्ञोऽहमिति यद्भानं तत्कारणमुदाहृतम् ।
अत्राहमिति सामान्यं विशेषोऽज्ञ इति स्फुरत् ॥ ६॥

अहं ब्रह्मेति यद्भानं तत्तुर्यमिति शंस्यते ।
सामान्यमहमित्यंशो ब्रह्मेत्यत्र विशिष्यते ॥ ७॥

यत्र भानं तत्र भास्यं भानं यत्र न तत्र न ।
भास्यमित्यन्वयेनापि व्यतिरेकेण बोध्यते ॥ ८॥

यथा दृग्दृशमात्मानं स्वयमात्मा न पश्यति ।
अतो न भास्यते ह्यात्मा यं पश्यति स भास्यते ॥ ९॥

यद्भास्यते तदध्यस्तमनध्यस्तं न भास्यते ।
यदध्यस्तं तदसदप्यनध्यस्तं सदेव तत् ॥ १०॥

N/A

References : N/A
Last Updated : February 21, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP