संस्कृत सूची|संस्कृत स्तोत्र साहित्य|स्तोत्रः|नारायणगुरुविरचितानि स्तोत्राणि| भद्रकाल्यष्टकम् नारायणगुरुविरचितानि स्तोत्राणि स्तोत्रक्रियाः विनायकाष्टकम् श्रीवासुदेवाष्टकम् विष्ण्वष्टकं भद्रकाल्यष्टकम् षाण्मातुरस्तवम् गुहाष्टकम् बाहुलेयाष्टकं चिदंबराष्टकम् जातिनिर्णयम् धर्मः आश्रमम् मुनिचर्यापञ्चकम् अध्यारोपदर्शनम् अपवाददर्शनम् असत्यदर्शनम् मायादर्शनम् भानदर्शनम् कर्मदर्शनम् ज्ञानदर्शनम् भक्तिदर्शनम् योगदर्शनम् निर्वाणदर्शनम् ब्रह्मविद्या पञ्चकम् निर्वृतिपञ्चकम् श्लोकत्रयी होममन्त्रम् वेदान्तसूत्रम् समाधि श्लोकौ भद्रकाल्यष्टकम् देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते. Tags : godgoddessnarayan gurustotraदेवतादेवीनारायण गुरुसंस्कृतस्तोत्र भद्रकाल्यष्टकम् Translation - भाषांतर श्रीमच्छङ्करपाणिपल्लवकिरल्लोलंबमालोल्लस-न्मालालोलकलापकालकबरीभारावलीभासुरीम् ।कारुण्यामृतवारिराशिलहरीपीयूषवर्षावलींबालांबां ललितालकामनुदिनं श्रीभद्रकालीं भजे ॥ १॥हेलादारितदारिकासुरशिरःश्रीवीरपाणोन्मद-श्रेणीशोणितशोणिमाधरपुटीं वीटीरसास्वादिनीम् ।पाटीरादिसुगन्धिचूचुकतटीं शाटीकुटीरस्तनींघोटीवृन्दसमानधाटियुयुधीं श्रीभद्रकालीं भजे ॥ २॥बालार्कायुतकोटिभासुरकिरीटामुक्तमुग्धालक-श्रेणीनिन्दितवासिकामरुसरोजाकाञ्चलोरुश्रियम् ।वीणावादनकौशलाशयशयश्र्यानन्दसन्दायिनी-मम्बामम्बुजलोचनामनुदिनं श्रीभद्रकालीं भजे ॥ ३॥मातङ्गश्रुतिभूषिणीं मधुधरीवाणीसुधामोषिणींभ्रूविक्षेपकटाक्षवीक्षणविसर्गक्षेमसंहारिणीम् ।मातङ्गीं महिषासुरप्रमथिनीं माधुर्यधुर्याकर-श्रीकारोत्तरपाणिपङ्कजपुटीं श्रीभद्रकालीं भजे ॥ ४॥मातङ्गाननबाहुलेयजननीं मातङ्गसंगामिनींचेतोहारितनुच्छवीं शफरिकाचक्षुष्मतीमम्बिकाम् ।जृंभत्प्रौढिनिशुंभशुंभमथिनीमंभोजभूपूजितांसम्पत्सन्ततिदायिनीं हृदि सदा श्रीभद्रकालीं भजे ॥ ५॥आनन्दैकतरङ्गिणीममलहृन्नालीकहंसीमणींपीनोत्तुङ्गघनस्तनां घनलसत्पाटीरपङ्कोज्ज्वलाम् ।क्षौमावीतनितंबबिंबरशनास्यूतक्वणत् किङ्किणींएणांङ्कांबुजभासुरास्यनयनां श्रीभद्रकालीं भजे ॥ ६॥कालांभोदकलायकोमलतनुच्छायाशितीभूतिमत्-संख्यानान्तरितस्तनान्तरलसन्मालाकिलन्मौक्तिकाम् ।नाभीकूपसरोजनालविलसच्छातोदरीशापदींदूरीकुर्वयि देवि, घोरदुरितं श्रीभद्रकालीं भजे ॥ ७॥आत्मीयस्तनकुंभकुङ्कुमरजःपङ्कारुणालंकृत-श्रीकण्ठौरसभूरिभूतिममरीकोटीरहीरायिताम् ।वीणापाणिसनन्दनन्दितपदामेणीविशालेक्षणांवेणीह्रीणितकालमेघपटलीं श्रीभद्रकालीं भजे ॥ ८॥फलश्रुतिःदेवीपादपयोजपूजनमिति श्रीभद्रकाल्यष्टकंरोगौघाघघनानिलायितमिदं प्रातः प्रगेयं पठन् ।श्रेयः श्रीशिवकीर्तिसम्पदमलं सम्प्राप्य सम्पन्मयींश्रीदेवीमनपायिनीं गतिमयन् सोऽयं सुखी वर्तते ॥ N/A References : N/A Last Updated : February 21, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP