अपवाददर्शनम्

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.


चैतन्यादागतं स्थूलसूक्ष्मात्मकमिदं जगत् ।
अस्ति चेत्सद्घनं सर्वं नास्ति चेदस्ति चिद्घनम् ॥ १॥

अन्यन्न कारणात्कार्यमसदेतदतोऽखिलम् ।
असतः कथमुत्पत्तिरनुत्पन्नस्य को लयः ॥ २॥

यस्योत्पत्तिर्लयो नास्ति तत्परं ब्रह्म नेतरत् ।
उत्पत्तिश्च लयोऽस्तीति भ्रमत्यात्मनि मायया ॥ ३॥

कारणाव्यतिरिक्तत्वात् कार्यस्य कथमस्तिता ।
भवत्यतः कारणस्य कथमस्ति च नास्तिता ॥ ४॥

कार्यत्वादसतोऽस्यास्ति कारणं न ह्यतो जगत् ।
ब्रह्मैव तर्हि सदसदिति मुह्यति मन्दधीः ॥ ५॥

एकस्यैवास्ति सत्ता चेदन्यस्यासौ क्व विद्यते ।
सत्यस्यात्माश्रयो यद्यप्यसति स्यादसंभवः ॥ ६॥

विभज्यावयवं सर्वमेकैकं तत्र दृश्यते ।
चिन्मात्रमखिलं नान्यदिति मायाविदूरगम् ॥ ७॥

चिदेव नान्यदाभाति चितः परमतो न हि ।
यच्च नाभाति तदसद्यदसत्तन्न भाति च ॥ ८॥

आनन्द एवास्ति भाति नान्यः कश्चिदतोऽखिलम् ।
आनन्दघनमन्यन्न विनाऽऽनन्देन विद्यते ॥ ९॥

सर्वं हि सच्चिदानन्दं नेह नानाऽस्ति किञ्चन ।
यः पश्यतीह नानेव मृत्योर्मृत्युं स गच्छति ॥ १०॥

N/A

References : N/A
Last Updated : February 21, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP