संस्कृत सूची|संस्कृत स्तोत्र साहित्य|स्तोत्रः|नारायणगुरुविरचितानि स्तोत्राणि| गुहाष्टकम् नारायणगुरुविरचितानि स्तोत्राणि स्तोत्रक्रियाः विनायकाष्टकम् श्रीवासुदेवाष्टकम् विष्ण्वष्टकं भद्रकाल्यष्टकम् षाण्मातुरस्तवम् गुहाष्टकम् बाहुलेयाष्टकं चिदंबराष्टकम् जातिनिर्णयम् धर्मः आश्रमम् मुनिचर्यापञ्चकम् अध्यारोपदर्शनम् अपवाददर्शनम् असत्यदर्शनम् मायादर्शनम् भानदर्शनम् कर्मदर्शनम् ज्ञानदर्शनम् भक्तिदर्शनम् योगदर्शनम् निर्वाणदर्शनम् ब्रह्मविद्या पञ्चकम् निर्वृतिपञ्चकम् श्लोकत्रयी होममन्त्रम् वेदान्तसूत्रम् समाधि श्लोकौ गुहाष्टकम् देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते. Tags : godgoddessnarayan gurustotraदेवतादेवीनारायण गुरुसंस्कृतस्तोत्र गुहाष्टकम् Translation - भाषांतर शान्तं शंभुतनूजं सत्यमनाधारं जगदाधारंज्ञातृज्ञाननिरन्तरलोकगुणातीतं गुरुणातीतम् ।वल्लीवत्सलभृङ्गारण्यकतारुण्यं वरकारुण्यंसेनासारमुदारं प्रणमत देवेशं गुहमावेशम् ॥ १॥विष्णुब्रह्मसमर्च्यं भक्तजनादित्यं वरुणातिथ्यंभावाभावजगत्त्रयरूपमथारूपं जितसारूपम् ।नानाभुवनसमाधेयं विनुताधेयं वरराधेयंकेयुराङ्गनिषङ्गं प्रणमत देवेशं गुहमावेशम् ॥ २॥स्कन्दं कुङ्कुमवर्णं स्पन्दमुदानन्दं परमानन्दंज्योतिःस्तोमनिरन्तररम्यमहस्साम्यं मनसायाम्यम् ।मायाशृङ्खलबन्धविहीनमनादीनं परमादीनंशोकापेतमुदात्तं प्रणमत देवेशं गुहमावेशम् ॥ ३॥व्यालव्यावृतभूषं भस्मसमालेपं भुवनालेपंज्योतिश्चक्रसमर्पितकायमनाकायव्ययमाकायम् ।भक्तत्राणनशक्त्या युक्तमनुद्युक्तं प्रणयासक्तंसुब्रह्मण्यमरण्यं प्रणमत देवेशं गुहमावेशम् ॥ ४॥श्रीमत्सुन्दरकायं शिष्टजनासेव्यं सुजटासेव्यंसेवातुष्टसमर्पितसूत्रमहासत्रं निजषड्वक्त्रम् ।प्रत्यर्त्थ्यानतपादसरोरुहमावाहं भवभीदाहंनानायोनिमयोनिं प्रणमत देवेशं गुहमावेशम् ॥ ५॥मान्यं मुनिभिरमान्यं मञ्जुजटासर्पं जितकन्दर्पंआकल्पामृततरलतरङ्गमनासङ्गं सकलासङ्गम् ।भासा ह्यधरितभास्वन्तं भविकस्वान्तं जितभीस्वान्तंकामं कामनिकामं प्रणमत देवेशं गुहमावेशम् ॥ ६॥शिष्टं शिवजनतुष्टं बुधहृदयाकृष्टं हृतपापिष्ठंनादान्तद्युतिमेकमनेकमनासङ्गं सकलासङ्गम् ।दानविनिर्जितनिर्जरदारुमहाभीरुं तिमिराभीरुंकालाकालमकालं प्रणमत देवेशं गुहमावेशम् ॥ ७॥नित्यं नियमिहृदिस्थं सत्यमनागारं भुवनागारंबन्धूकारुणललितशरीरमुरोहारं महिमाहारंकौमारीकरपीडितपादपयोजातं दिवि भूजातंकण्ठेकालमकालं प्रणमत देवेशं गुहमावेशम् ॥ ८॥ N/A References : N/A Last Updated : February 21, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP