असत्यदर्शनम्

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.


मनोमयमिदं सर्वं न मनः क्वापि विद्यते ।
अतो व्योम्नीव नीलादि दृश्यते जगदात्मनि ॥ १॥

मनसोऽनन्यया सर्वं कल्प्यतेऽविद्यया जगत् ।
विद्ययाऽसौ लयं याति तदालेख्यमिवाखिलम् ॥ २॥

विजृंभते यत्तमसो भीरोरिह पिशाचवत् ।
तदिदं जाग्रति स्वप्नलोकवद् दृश्यते बुधैः ॥ ३॥

सङ्कल्पकल्पितं दृश्यं सङ्कल्पो यत्र विद्यते ।
दृश्यं तत्र च नान्यत्र कुत्रचिद्रज्जुसर्पवत् ॥ ४॥

सङ्कल्पमनसो कश्चिन्न हि भेदोऽस्ति यन्मनः ।
तदविद्यातमः प्रख्यमिन्द्रजालमिवाद्भुतम् ॥ ५॥

मरीचिकावत् प्राज्ञस्य जगदात्मनि भासते ।
बालस्य सत्यमिति च प्रतिबिंबमिव भ्रमात् ॥ ६॥

आत्मा न क्षीरवद्याति रूपान्तरमतोऽखिलम् ।
विवर्तमिन्द्रजालेन विद्यते निर्मितं यथा ॥ ७॥

मायैव जगतामादिकारणं निर्मितं तया ।
सर्वं हि मायिनो नान्यदसत्यं सिद्धिजालवत् ॥ ८॥

विभाति विश्वं वृद्धस्य वियद्वनमिवात्मनि ।
असत्यं पुत्रिकारूपं बालस्येव विपर्ययः ॥ ९॥

एकं सत्यं न द्वितीयं ह्यसत्यं भाति सत्यवत् ।
शिलैव शिवलिंगं न द्वितीयं शिल्पिना कृतम् ॥ १०॥

N/A

References : N/A
Last Updated : February 21, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP