अध्यारोपदर्शनम्

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.


आसीदग्रेऽसदेवेदं भुवनं स्वप्नवत्पुनः ।
ससर्ज सर्वं सङ्कल्पमात्रेण परमेश्वरः ॥ १॥

वासनामयमेवादावासीदिदमथ प्रभुः ।
असृजन्मायया स्वस्य मायावीवाखिलं जगत् ॥ २॥

प्रागुत्पत्तेरिदं स्वस्मिन् विलीनमथ वै स्वतः ।
बीजादङ्कुरवत्स्वस्य शक्तिरेवासृजत्स्वयम् ॥ ३॥

शक्तिस्तु द्विविधा ज्ञेया तैजसी तामसीति च ।
सहवासोऽनयोर्नास्ति तेजस्तिमिरयोरिव ॥ ४॥

मनोमात्रमिदं चित्रमिवाग्रे सर्वमीदृशम् ।
प्रापयामास वैचित्र्यं भगवांश्चित्रकारवत् ॥ ५॥

आसीत् प्रकृतिरेवेदं यथाऽदौ योगवैभवः ।
व्यतनोदथ योगीव सिद्धिजालं जगत्पतिः ॥ ६॥

यदाऽऽत्मविद्यासङ्कोचस्तदाऽविद्या भयङ्करम् ।
नामरूपात्मनाऽत्यर्थं विभातीह पिशाचवत् ॥ ७॥

भयङ्करमिदं शून्यं वेतालनगरं यथा ।
तथैव विश्वमखिलं व्यकरोदद्भुतं विभुः ॥ ८॥

अर्काद्यथाक्रमं विश्वं तथा नैवेदमात्मनः ।
सुप्तेरिव प्रादुरासीद्युगपत्स्वस्य वीक्षया ॥ ९॥

धानादिव वटो यस्मात् प्रादुरासीदिदं जगत् ।
स ब्रह्मा स शिवो विष्णुः स परः सर्व एव सः ॥ १०॥

N/A

References : N/A
Last Updated : February 21, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP