चिदंबराष्टकम्

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.


ब्रह्ममुखामरवन्दितलिङ्गं जन्मजरामरणान्तकलिङ्गम् ।
कर्मनिवारणकौशललिङ्गं तन्मृदु पातु चिदंबरलिङ्गम् ॥ १॥

कल्पकमूलप्रतिष्ठितलिङ्गं दर्पकनाशयुधिष्ठिरलिङ्गम् ।
कुप्रकृतिप्रकरान्तकलिङ्गं तन्मृदु पातु चिदंबरलिङ्गम् ॥ २॥

स्कन्दगणेश्वरकल्पितलिङ्गं किन्नरचारणगायकलिङ्गम् ।
पन्नगभूषणपावनलिङ्गं तन्मृदु पातु चिदंबरलिङ्गम् ॥ ३॥

सांबसदाशिवशङ्करलिङ्गं काम्यवरप्रदकोमललिङ्गम् ।
साम्यविहीनसुमानसलिङ्गं तन्मृदु पातु चिदंबरलिङ्गम् ॥ ४॥

कलिमलकाननपावकलिङ्गं सलिलतरंगविभूषणलिङ्गम् ।
पलितपतंगप्रदीपकलिङ्गं तन्मृदु पातु चिदंबरलिङ्गम् ॥ ५॥

अष्टतनुप्रतिभासुरलिङ्गं विष्टपनाथविकस्वरलिङ्गम् ।
शिष्टजनावनशीलितलिङ्गं तन्मृदु पातु चिदंबरलिङ्गम् ॥ ६॥

अन्तकमर्दनबन्धुरलिङ्गं कृन्तितकामकलेवरलिङ्गम् ।
जन्तुहृदिस्थितजीवकलिङ्गं तन्मृदु पातु चिदंबरलिङ्गम् ॥ ७॥

पुष्टधियस्सु चिदंबरलिङ्गं दृष्टमिदं मनसानुपठन्ति ।
अष्टकमेतदवाङ्मनसीयं अष्टतनुं प्रति यान्ति नरास्ते ॥ ८॥

N/A

References : N/A
Last Updated : February 21, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP