मायादर्शनम्

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.


न विद्यते या सा माया विद्याऽविद्या पराऽपरा ।
तमः प्रधानं प्रकृतिर्बहुधा सैव भासते ॥ १॥

प्रागुत्पत्तेर्यथाऽभावो मृदेव ब्रह्मणः पृथक् ।
न विद्यते ब्रह्म हि या सा मायाऽमेयवैभवा ॥ २॥

अनात्मा न सदात्मा सदिति विद्योतते यया ।
सा विद्येयं यथा रज्जुसर्पतत्त्वावधारणम् ॥ ३॥

आत्मा न सदनात्मा सदिति विद्योतते यया ।
सैवाविद्या यथा रज्जुसर्पयोरयथार्थदृक् ॥ ४॥

इन्द्रियाणि मनोबुद्धी पञ्चप्राणादयो यया ।
विसृज्यन्ते सैव परा सूक्ष्मांगानि चिदात्मनः ॥ ५॥

अंगान्येतान्यवष्टभ्य सुखी दुःखीव मुह्यति ।
चिदात्मा मायया स्वस्य तत्त्वतोऽस्ति न किञ्चन ॥ ६॥

इन्द्रियाणां हि विषयः प्रपञ्चोऽयं विसृज्यते ।
यया सैवाऽपराऽध्यात्मस्थूलसङ्कल्पनामयी ॥ ७॥

शुक्तिकायां यथाऽज्ञानं रजतस्य यदात्मनि ।
कल्पितस्य निदानं तत्तम इत्यवगम्यते ॥ ८॥

धीयतेऽस्मिन् प्रकर्षेण बीजे वृक्ष इवाखिलम् ।
अतः प्राधान्यतो वाऽस्य प्रधानमिति कथ्यते ॥ ९॥

करोतीति प्रकर्षेण प्रकृत्यैव गुणान् पृथक् ।
निगद्यतेऽसौ प्रकृतिरिति ह त्रिगुणात्मिका ॥ १०॥

N/A

References : N/A
Last Updated : February 21, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP