संस्कृत सूची|संस्कृत स्तोत्र साहित्य|स्तोत्रः|नारायणगुरुविरचितानि स्तोत्राणि| विष्ण्वष्टकं नारायणगुरुविरचितानि स्तोत्राणि स्तोत्रक्रियाः विनायकाष्टकम् श्रीवासुदेवाष्टकम् विष्ण्वष्टकं भद्रकाल्यष्टकम् षाण्मातुरस्तवम् गुहाष्टकम् बाहुलेयाष्टकं चिदंबराष्टकम् जातिनिर्णयम् धर्मः आश्रमम् मुनिचर्यापञ्चकम् अध्यारोपदर्शनम् अपवाददर्शनम् असत्यदर्शनम् मायादर्शनम् भानदर्शनम् कर्मदर्शनम् ज्ञानदर्शनम् भक्तिदर्शनम् योगदर्शनम् निर्वाणदर्शनम् ब्रह्मविद्या पञ्चकम् निर्वृतिपञ्चकम् श्लोकत्रयी होममन्त्रम् वेदान्तसूत्रम् समाधि श्लोकौ विष्ण्वष्टकं देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते. Tags : godgoddessnarayan gurustotraदेवतादेवीनारायण गुरुसंस्कृतस्तोत्र विष्ण्वष्टकं Translation - भाषांतर विष्णुं विशालारुणपद्मनेत्रंविभान्तमीशांबुजयोनिपूजितम् ।सनातनं सन्मतिशोधितं परंपुमांसमाद्यं सततं प्रपद्ये ॥ १॥कल्याणदं कामफलप्रदायकंकारुण्यरूपं कलिकल्मषघ्नम् ।कलानिधिं कामतनूजमाद्यंनमामि लक्ष्मीशमहं महान्तम् ॥ २॥पीतांबरं भृङ्गनिभं पितामह-प्रमुख्यवन्द्यं जगदादिदेवम् ।किरीटकेयूरमुखैः प्रशोभितंश्रीकेशवं सन्ततमानतोऽस्मि ॥ ३॥भुजङ्गतल्पं भुवनैकनाथंपुनः पुनः स्वीकृतकायमाद्यम् ।पुरन्दराद्यैरपि वन्दितं सदामुकुन्दमत्यन्तमनोहरं भजे ॥ ४॥क्षीरांबुराशेरभितः स्फुरन्तंशयानमाद्यन्तविहीनमव्ययम् ।सत्सेवितं सारसनाभमुच्चैःविघोषितं केशिनिषूदनं भजे ॥ ५॥भक्तार्त्तिहन्तारमहर्न्निशन्तंमुनीन्द्रपुष्पाञ्जलिपादपङ्कजम् ।भवघ्नमाधारमहाश्रयं परंपरापरं पङ्कजलोचनं भजे ॥ ६॥नारायणं दानवकाननानलंनतप्रियं नामविहीनमव्ययम् ।हर्त्तुं भुवो भारमनन्तविग्रहंस्वस्वीकृतक्ष्मावरमीडितोऽस्मि ॥ ७॥नमोऽस्तु ते नाथ! वरप्रदायिन्नमोऽस्तु ते केशव! किङ्करोऽस्मि ।नमोऽस्तु ते नारदपूजिताङ्घ्रेनमो नमस्त्वच्चरणं प्रपद्ये ॥ ८॥फलश्रुतिःविष्ण्वष्टकमिदं पुण्यं यः पठेद्भक्तितो नरः ।सर्वपापविनिर्मुक्तो, विष्णुलोकं स गच्छति ॥ N/A References : N/A Last Updated : February 21, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP