नन्दिकेश्वरविरचितम् अभिनयदर्पणम् - १०

अभिनयदर्पण, आचार्य नंदिकेश्वर द्वारा रचित एक संस्कृत आहे. जो भारतीय शास्त्रीय नृत्य, विशेषकरून भरतनाट्यमच्या हस्तमुद्रा, हाव-भाव आणि शारीरिक गतींचे विस्तृत विवरण प्रस्तुत करत आहे.  हा ग्रंथ नृत्य आणि त्यातील भाव यांच्या अध्ययनासाठी एक महत्वपूर्ण स्रोत आहे.

संयोगेन स्वस्तिकाख्यो मकरे विनियुज्यते । डोलाहस्तः  पताक ऊरूदेशस्थे डोलाहस्तोऽयमिष्यते ॥१८१॥
विनियोगः  नाट्यारम्भे प्रयोक्तव्य इति नाट्यविदो विदुः । पुष्पपुटहस्तः  संश्लिष्टकरयोः सर्पशीर्षः पुष्पपुटः करः ॥१८२॥
विनियोगः  नीराजनाविधौ वारिफलादिग्रहणेऽपि च । सध्याय्मयैदाने च मन्त्रपुष्पे च युज्यते ॥१८३॥
उत्सङ्गहस्तः  आन्योन्यबाहुदेशस्थौ मृगशीर्षकरौ यदि । उत्सङ्गहस्तः स ज्ञेयो भरतागमवेदिभिः ॥१८४॥
विनियोगः  आलिङ्गने च लज्जायामङ्गदादिप्रदर्शने । बालानां शिक्षणे चायमुत्सङ्गो युज्यते करः ॥१८५॥
शिवलिङ्गहस्तः  वामेऽर्धचन्द्रो विन्यस्तः शिखरः शिवलिङ्गकः । विनियोगः  विनियोगस्तु तस्यैव शिवलिङ्गस्य दर्शने ॥१८६॥
कटकावर्धनहस्तः  कटकामुखयोः पाण्योः स्वस्तिको मणिबन्धयोः । कटकावर्धनाख्यः स्यादिति नाट्यविदो विदुः ॥१८७॥
विनियोगः  पट्टाभिषेके पूजायां विवाहादिषु युज्यते । कर्तरीस्वस्तिकहस्तः  कर्तरीस्वस्तिकाकारा कर्तरीस्वस्तिको भवेत् ॥१८८॥
विनियोगः  शाखासु चाद्रिशिखरे वृक्षेषु च नियुज्यते । शकटहस्तः  भ्रमरे मध्यमाङ्गुष्ठप्रसाराच्छकटो भवेत् ॥१८९॥
विनियोगः  राक्षसाभिनये प्रायः शकटो विनियुज्यते । शङ्खहस्तः  शिखरान्तर्गताङ्गुष्ठ इतराङ्गुष्ठसङ्गतः ॥१९०॥
तर्जन्या युत अश्लिष्टः शङ्खहस्तः प्रकीर्तितः । विनियोगः  शङ्खादिषु प्रयोज्योऽयमित्याहुर्भरतादयः ॥१९१॥
चक्रहस्तः  यत्रार्धचन्द्रौ तिर्यञ्चावन्योन्यतलसंस्पृशौ । चक्रहस्तः स विज्ञेयश्चक्रार्थे विनियुय्यते ॥१९२॥
सम्पुटहस्तः  कुञ्चिताङ्गुलयश्चके प्रोक्तः सम्पुटहस्तकः । विनियोगः  वस्त्वाच्छादे सम्पुटे च सम्पुटः कर ईरितः ॥१९३॥
पाशहस्तः  सूच्यां निकुञ्चिते श्लिष्टे तर्जन्यौ पाश ईरितः । विनियोगः  अन्योन्यकलहे पाशे शृङ्खलायां नियुज्यते ॥१९४॥
कीलकहस्तः  कनिष्ठे कुञ्चिते श्लिष्टे मृगशीर्षस्तु कीलकः । विनियोगः  स्नेहे नर्मानुलापे च कीलको विनियुज्यते ॥१९५॥
मत्स्यहस्तः  करपृष्टोपरि न्यस्तो यत्र हस्तस्त्वधोमुखः । किञ्चित्प्रसारिताङ्गुष्ठकनिष्ठो मत्स्यनामकः ॥१९६॥
विनियोगः  एतस्य विनियोगस्तु सम्मतो मत्स्यदर्शने । कूर्महस्तः  कुञ्चिताग्राङ्गुलिश्चक्रे त्यक्ताङ्गुष्ठकनिष्ठकः ॥१९७॥
कूर्महस्तः स विज्ञेयः कूर्मार्थे विनियुज्यते । वराहहस्तः  मृगशीर्षे त्वन्यतरे स्वोपर्येकः स्थिते यदि ॥१९८॥
कनिष्ठाङ्गुष्ठयोर्योगाद्वराहकर ईरितः । विनियोगः  एतस्य वियोगः स्याद्वराहार्थप्रदर्शने ॥१९९॥
गरुडहस्तः  तिर्यक्तलस्थितावर्धचन्द्रावङ्गुष्ठयोगतः । गरुडहस्त अस्त् इत्याहुर्गरुडार्थे नियुज्यते ॥२००॥

N/A

References : N/A
Last Updated : October 09, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP