नन्दिकेश्वरविरचितम् अभिनयदर्पणम् - ७
अभिनयदर्पण, आचार्य नंदिकेश्वर द्वारा रचित एक संस्कृत आहे. जो भारतीय शास्त्रीय नृत्य, विशेषकरून भरतनाट्यमच्या हस्तमुद्रा, हाव-भाव आणि शारीरिक गतींचे विस्तृत विवरण प्रस्तुत करत आहे. हा ग्रंथ नृत्य आणि त्यातील भाव यांच्या अध्ययनासाठी एक महत्वपूर्ण स्रोत आहे.
घण्टानिनादे शिखरो युज्यते भरतादिभिः । कपित्थहस्तः अङ्गुष्ठमूर्ध्निशिखरे वक्रिता यदि तर्जनी ॥१२१॥
कपित्थाख्यः करः सोऽयं कीर्तितो नृत्तकोविदैः । विनियोगः लक्ष्म्यां चैव सरखत्यां नटानां तालधारणे ॥१२२॥
गोदोहनेऽप्यञ्जने च लीलाकुसुमधारणे । चेलाञ्चलादिग्रहणे पटस्यैवावगुण्ठने ॥१२३॥
धूपदीपार्चने चापि कपित्थः सम्प्रयुज्यते । कटकामुखहस्तः कपित्थे तर्जनी चोर्ध्वमुछ्रिताङ्गुष्ठमध्यमा ॥१२४॥
कटकामुखहस्तोऽयं कीर्तितो भरतागमैः । विनियोगः कुसुमावचये मुक्तास्रग्दाम्नां धारणे तथा ॥१२५॥
शरमध्याकर्षणे च नागल्लीप्रदानके । कस्तूरिकादिवस्तूनां पेषणे गन्धवासने ॥१२६॥
वचने दृष्टिभावेऽपि कटकामुख इष्यते । सूचीहस्तः ऊर्ध्वप्रसारिता यत्र कटकामुखतर्जनी ॥१२७॥
सूचीहस्तः स विज्ञेयो भरतागमकोविदैः । विनियोगः एकार्थेऽपि परब्रह्मभावनायां शतेऽपि च ॥१२८॥
रवौ नगर्यां लोकार्थे तथेति वचनेऽपि च । अच्छब्देऽपि तच्छब्द् विजनार्थेऽपि तर्जने ॥१२९॥
कार्श्ये शलाके वपुषि आश्चर्ये वेणिभावने । छत्रे समर्थे पाणौ च रोमाल्यां भेरीवादने ॥१३०॥
कुलालचक्रभ्रमणे रथाङ्गमण्डले तथा । विवेचने दिनान्ते च सूचीहस्तः प्रकीर्तितः ॥१३१॥
चन्द्रकलाहस्तः सूच्यामङ्गुष्ठमोक्षे तु करश्चन्द्रकला भवेत् । विनियोगः चन्द्रे मुखे च प्रादेशे तन्मात्राकारवस्तुनि ॥१३२॥
शिवस्य मुकुटे गङ्गानद्यां च लगुडेऽपि च । एषां चन्द्रकला चैव विनियोज्या विधीयते ॥१३३॥
पद्मकोशहस्तः अङ्ल्यो विरला किञ्चित् कुञ्चितास्तलनिम्नगाः । पद्मकोशाभिधो हस्तस्तन्निरूपणमुच्यते ॥१३४॥
विनियोगः फले बिल्वकपित्थादौ स्त्रीणां च कुचकुम्भयोः । आवर्ते कन्दुके स्थाल्यां भोजने पुष्पकोरके ॥१३५॥
सहकारफले पुष्पवर्षे मञ्जरिकादिषु । जपाकुसुमभावे च घण्टारूपे विधानके ॥१३६॥
वल्मीके कमलेऽप्यण्डे पद्मकोशो विधीयते । सर्पशीर्षहस्तः पताका नमिताग्रा चेत् सर्पशीर्षकरो भवेत् ॥१३७॥
विनियोगः चन्दने भुजगे मन्द्रे प्रोक्षणे पोषणादिषु । देवस्योदकदानेषु आस्फाले गजकुम्भयोः ॥१३८॥
भुजस्थाने मल्लानां तु युज्यते सर्पशीर्षकः । मृगशीर्षहस्तः अस्मिन् कनिष्ठिकाङ्गुष्ठे प्रसृते मृगशीर्षकः ॥१३९॥
विनियोगः स्त्रीणामर्थे कपोले च चक्रमर्यादयोरपि । भीत्यां विवादे नेपथ्ये आह्वाने च त्रिपुण्ड्रके ॥१४०॥
N/A
References : N/A
Last Updated : October 09, 2025

TOP