संस्कृत सूची|शास्त्रः|अभिनयदर्पणम्| ३ अभिनयदर्पणम् १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ नन्दिकेश्वरविरचितम् अभिनयदर्पणम् - ३ अभिनयदर्पण, आचार्य नंदिकेश्वर द्वारा रचित एक संस्कृत आहे. जो भारतीय शास्त्रीय नृत्य, विशेषकरून भरतनाट्यमच्या हस्तमुद्रा, हाव-भाव आणि शारीरिक गतींचे विस्तृत विवरण प्रस्तुत करत आहे. हा ग्रंथ नृत्य आणि त्यातील भाव यांच्या अध्ययनासाठी एक महत्वपूर्ण स्रोत आहे. Tags : abhinaydarpandancenandikeshwarअभिनयदर्पणनंदिकेश्वरनृत्यa नन्दिकेश्वरविरचितम् अभिनयदर्पणम् - ३ Translation - भाषांतर स्तम्भः स्वेदाम्बु रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विकाः स्मृताः ॥४१॥ आङ्गिकाभिनयसाधनानि तत्राङ्गिकोऽङ्गप्रत्यङ्गोपाङ्गैस्त्रेधा प्रकाशतः । अङ्गानि अङ्गान्यस्त्र शिरो हस्तौ वक्षः पार्श्वौ कटीतटौ ॥४२॥ पादाविति षडुक्तानि ग्रीवामप्यपरे जगुः ॥ प्रत्यङ्गानि प्रत्यङ्गान्यथ च स्कन्धौ बाहू पृष्ठं तथोदरम् ॥४३॥ ऊरू जङ्घे षडित्याहुरपरे मणिबन्धकौ । जानुनी कूर्परावेतत् त्रयमप्यधिकं जगुः ॥४४॥ उपाङ्गानि ग्रीवा स्यादप्युपाङ्गन्तु स्कन्ध एवं जगुर्बुधाः । दृष्टिभ्रूपुटताराश्च कपोलौ नासिका हनू ॥४५॥ अधरो दशना जिह्वा चुबुकं वदनं तथा । उपाङ्गानि द्वादशैव शिरस्यङ्गान्तरेषु च ॥४६॥ पार्ष्णिगुल्फौ तथाङ्गुल्यः करयोः पादयोस्तले । एतानि पूर्वशास्त्रानुसारेणोक्तानि वै मया ॥४७॥ नृत्यमात्रोपयोगीनि कथ्यन्ते लक्षणैः क्रमात् । अङ्गानां चलनादेव प्रत्यङ्गोपाङ्गयोरपि ॥४८॥ चलनं प्रभवेत्तस्मात् सर्वेषां नात्र लक्षणम् । शिरोमेदाः सममुद्वाहितमधोमुखमालोलितं धुतम् ॥४९॥ कम्पितं च परावृत्तमुत्क्षिप्तं परिवाहितम् । नवधा कथितं शीर्षं नाट्यशास्त्रविशारदैः ॥५०॥ समशिरः निश्चलं सममाख्यातं यन्नत्युन्नतिवर्जितम् । विनियोगः नृत्यारम्भे जपादौ च गर्वे प्रणयकोपयोः ॥५१॥ स्तम्भने निष्क्रियत्वे च समशीर्षमुदाहृतम् । उद्वाहितशिरः उद्वाहितशिरो ज्ञेयमूर्ध्वभागोन्नताननम् ॥५२॥ विनियोगः ध्वजे चन्द्रे च गगने पर्वते व्योमगामिषु । तुङ्गवस्तुनि संयोज्यमुद्वाहितशिरो बुधैः ॥५३॥ अधोमुखशिरः अधस्तान्नमितं वक्त्रमधोमुखमितीरितम् । विनियोगः लज्जाखेदप्रणामेषु दुश्चिन्तामूर्छयोस्तथा ॥५४॥ अधःस्थितार्थनिर्देशे युज्यतेऽम्बुनि मज्जने । आलोलितशिरः मण्डलाकारमुद्भ्रान्तमालोलितं शिरो भवेत् ॥५५॥ विनियोगः निद्रोद्वेगग्रहावेशमदमूर्छासु तन्मतम् । भ्रमणे विकटोद्दामहास्ये चालोलितं शिरः ॥५६॥ धुतशिरः वामदक्षिणभागेषु चलितं तद्धुतं शिरः । विनियोगः नास्तीति वचने भूयः पार्श्वदेशावलोकने ॥५७॥ जनाश्वासे विस्मये च विषादेऽनीप्सिते तथा । शीतार्ते ज्वरिते भीते सद्यःपीतासवे तथा ॥५८॥ युद्धे यत्ने निषेधादावमर्षे खाङ्गवीक्षणे । पार्श्वाह्वाने च तस्योक्तः प्रयोगो भरतादिभिः ॥५९॥ कम्पितशिरः ऊर्ध्वाधोभागचलितं तच्छिरः कम्पितं भवेत् । विनियोगः रोषे तिष्ठेति वचने प्रश्ने सङ्ख्योपहूतयोः ॥६०॥ N/A References : N/A Last Updated : October 09, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP