संस्कृत सूची|शास्त्रः|अभिनयदर्पणम्| १ अभिनयदर्पणम् १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ नन्दिकेश्वरविरचितम् अभिनयदर्पणम् - १ अभिनयदर्पण, आचार्य नंदिकेश्वर द्वारा रचित एक संस्कृत आहे. जो भारतीय शास्त्रीय नृत्य, विशेषकरून भरतनाट्यमच्या हस्तमुद्रा, हाव-भाव आणि शारीरिक गतींचे विस्तृत विवरण प्रस्तुत करत आहे. हा ग्रंथ नृत्य आणि त्यातील भाव यांच्या अध्ययनासाठी एक महत्वपूर्ण स्रोत आहे. Tags : abhinaydarpandancenandikeshwarअभिनयदर्पणनंदिकेश्वरनृत्यa नन्दिकेश्वरविरचितम् अभिनयदर्पणम् - १ Translation - भाषांतर नमस्किया आङ्गिकं भुवनं यस्य वाचिकं सर्ववाङ्मयम् । आहार्य चन्द्रतारादि तं नुमः सात्त्विकं शिवम् ॥१॥ नाट्योत्पत्तिः नाट्यवेदं ददौ पूर्वं भरताय चतुर्मुखः । ततश्च भरतः सार्धं गन्धर्वाप्सरसां गणैः ॥२॥ नाय नृत्तं तथा नृत्यमर् शम्भोः प्रयुक्तवान् । प्रयोगमुद्धतं स्मृत्वा स्वप्रयुक्तं ततो हरः ॥३॥ तण्डुना स्वगणाग्रण्या भरताय न्यदीदिशत् । लास्यमस्याग्रतः प्रीत्या पार्वत्या समदीदिशत् ॥४॥ बुद्ध्वाऽथ तण्डवं ताण्डोर्मर्त्येभ्यो मुनयोऽवदन् । पार्वती त्वनुशास्ति स्म लास्य बाणात्मजामुषाम् ॥५॥ तया द्वारवतीगोप्यस्ताभिः सौराष्ट्रयोषितः । ताभिस्तु तत्तद्देशीयास्तदशिष्यन्त योषितः ॥६॥ एवं परम्पराप्राप्तमेत्तल्लोके प्रतिष्ठितम् । नाट्यप्रशंसा ऋग्यजुः सामवेदेभ्यो वेदाच्चाथर्वणः क्रमात् ॥७॥ पाठ्यं चाभिनयं गीतं रसान् सङ्गृह्य पद्मजः । व्यरीरचच्छास्त्रमिदं धर्मकामार्थमोक्षदम् ॥८॥ कीर्तिप्रागल्भ्यसौभाग्यवैदध्य्नां प्रवर्धनम् । औदार्यस्थेर्यधैर्याणां विलासस्य च कारणम् ॥९॥ दुःखार्तिशोकनिर्वेदखेदविच्छेदकारणम् । अपि ब्रह्मपरानन्दादिदमभ्यधिकं मतम् ॥१०॥ जहार नारदादीनां चित्तानि कथमन्यथा । नटनभेदाः एतच्चतुर्विधोपेतं नटनं त्रिविधं स्मृतम् ॥११॥ नाट्यं नृत्तं नृत्यमिति मुनिभिर्भरतादिभिः । नटनप्रयोगकालः द्रष्टव्ये नाट्यनृत्ये च पर्वकाले विशेषतः ॥१२॥ नृत्तं तत्र नरेन्द्रानामभिषेके महोत्सवे । यात्रायां देवयात्रायां विवाहे प्रियसङ्गमे ॥१३॥ नगराणामगाराणां प्रवेशे पुत्रजन्मनि । शुभार्थिभिः प्रयोक्तव्यं माङ्गल्यं सर्वकर्मभिः ॥१४॥ नाट्यं नाट्यं तन्नाटकं चैव पूज्यं पूर्वकथायुतम् । नृत्तं भावाभिनयहीनं तु नृत्तमित्यभिधीयते ॥१५॥ नृत्यं रसभावव्यञ्जनादियुक्तं नृत्यमितीर्यते । एतन्नृत्यं महाराजसभायां कल्पयेत् सदा ॥१६॥ सभापतिलक्षणं श्रीमान् धीमान् विवेकी वितरणनिपुणो गानविद्याप्रवीणः सर्वज्ञः कीर्तिशाली सरसगुणयुतो हावभावेष्वभिज्ञः । मात्सर्यद्वेषहीनः प्रकृतिहितसदाचारशीलो दयालु- र्धीरो दान्तः कलावानभिनयचतुरोऽसौ सभानायकः स्यात् ॥१७॥ मन्त्रिलक्षणं मेधासुस्थिरभाषणगुणपराः श्रीमद्यशोलम्पटा भावज्ञा गुणदोषभेदनिपुणाः शृङ्गारलीलायुताः । मध्यस्था नयकोविदाः सहृदयाः सत्पण्डिता भान्ति ते भाषाभेदविचक्षणाः सुकवयो अस्य प्रभोर्मन्त्रिणः ॥१८॥ सभालक्षणं सभाकल्पतरुर्भाति वेदशाखोपजीवितः । शास्त्रपुष्पसमाकीर्णो विद्वद्भ्रमरशोभितः ॥१९॥ सभारचना एवंविधः सभानाथः प्राङ्मुखो निविशेन मुदा । वर्तेरन् पार्श्वयोस्तस्य कविमन्त्रिसुहृज्जनाः ॥२०॥ N/A References : N/A Last Updated : October 09, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP