संस्कृत सूची|शास्त्रः|अभिनयदर्पणम्| ८ अभिनयदर्पणम् १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ नन्दिकेश्वरविरचितम् अभिनयदर्पणम् - ८ N/Aअभिनयदर्पण, आचार्य नंदिकेश्वर द्वारा रचित एक संस्कृत आहे. जो भारतीय शास्त्रीय नृत्य, विशेषकरून भरतनाट्यमच्या हस्तमुद्रा, हाव-भाव आणि शारीरिक गतींचे विस्तृत विवरण प्रस्तुत करत आहे. हा ग्रंथ नृत्य आणि त्यातील भाव यांच्या अध्ययनासाठी एक महत्वपूर्ण स्रोत आहे. Tags : abhinaydarpandancenandikeshwarअभिनयदर्पणनंदिकेश्वरनृत्यa नन्दिकेश्वरविरचितम् अभिनयदर्पणम् - ८ Translation - भाषांतर मृगमुखे रङ्गमल्ल्यां पादसंवाहने तथा । सर्वस्वे मिलने काममन्दिरे छत्रधारणे ॥१४१॥ सञ्चारे च प्रियाह्वाने युज्यते मृगशीर्षकः । सिंहमुखहस्तः मध्यमानामिकाग्राभ्यामङ्गुष्ठो मिश्रितो यदि ॥१४२॥ शेषौ प्रसारितौ यत्र स सिंहास्यकरो भवेत् । विनियोगः होमे शशे गजे दर्भचलने पद्मदामनि ॥१४३॥ सिंहानने वैद्यपाके शोधने सम्प्रयुज्यते । काङ्गुलहस्तः पद्मकोशेऽनामिका चेन्नम्रा काङ्गुलहस्तकः ॥१४४॥ धुतशिरः लकुचस्य फले बालकिङ्किण्यां घण्टिकार्थके । चकोरे क्रमुके बालकुचे कह्लारके तथा ॥१४५॥ चातके नालिकेरे च काङ्गुलो युज्यते करः । अलपद्महस्तः कनिष्ठाद्या वक्रिताश्च विरलाश्चालपद्मकः ॥१४६॥ विनियोगः विकचाब्जे कपित्थादिफले चावर्तके कुचे । विरहे मुकुरे पूर्णचन्द्रे सौन्दर्यभावने ॥१४७॥ धम्मिल्ले चन्द्रशालायां ग्रामे चोद्धृतकोपयोः । तटाके शकटे चक्रवाके कलकलारवे ॥१४८॥ श्लाघने सोऽलपद्मश्च कोर्तितो भरतागमे । चतुरहस्तः तर्जन्याद्यास्तत्र श्लिष्टाः कनिष्ठा प्रसृता यदि ॥१४९॥ अङ्गुप्ठोऽनामिकामूले तिर्यक् चेच्चतुरः करः । विनियोगः कस्तूर्यां किञ्चिदर्थे च स्वर्णे ताम्रे च लोहके ॥१५०॥ आर्दै खेदे रसास्वादे लोचने वर्णभेदने । प्रमाणे सरसे मन्दगमने शकलीकृते ॥१५१॥ आनने घृततैलादौ युज्यते चतुरः करः । भ्रमरहस्तः मध्यमाङ्गुष्ठसंयोगे तर्जनी वक्रिताकृतिः ॥१५२॥ शेषाः प्रसारिताश्चासौ भ्रमराभिधहस्तकः । विनियोगः भ्रमरे च शुके पक्षे सारसे कोकिलादिषु ॥१५३॥ भ्रमराख्यश्च हस्तोऽयं कीर्तितो भरतागमे । हंसास्यहस्तः भध्यमाद्यास्त्रयोङ्गुल्यः प्रसृता विरला यदि ॥१५४॥ तर्जन्यङ्गुष्ठसंश्लेषात् करो हंसात्यको भवेत् । विनियोगः माङ्गल्ये सूत्रबन्धे च उपदेशविनिश्चये ॥१५५॥ रोमाञ्चे मौक्तिकादौ च दीपवर्तिप्रसारणे । निकषे मल्लिकादौ च चित्रे तल्ले खने तथा ॥१५६॥ दंशे च जलबन्धे च हंसास्यो युज्यते करः । हंसपक्षहस्तः सर्पशीर्षकरे सम्यक् कनिष्ठा प्रसृता यदि ॥१५७॥ हंसपक्षः करः सोऽय तन्निरूपणमुच्यते । विनियोगः षट्सङ्ख्यायां सेतुबन्धे नखरेखाङ्कणे तथा ॥१५८॥ पिधाने हंसपक्षोऽयं कथितो भरतागमे । सन्दंशस्तः पुनः पुनः पद्मकोशः संश्लिष्टो विरलो यदि ॥१५९॥ सन्दंशाभिधहस्तोऽयं कीर्तितो नृत्यकोविदैः । विनियोगः उदरे वलिदाने च व्रणे कीटे महाभये ॥१६०॥ N/A References : N/A Last Updated : October 09, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP