नन्दिकेश्वरविरचितम् अभिनयदर्पणम् - ५

अभिनयदर्पण, आचार्य नंदिकेश्वर द्वारा रचित एक संस्कृत आहे. जो भारतीय शास्त्रीय नृत्य, विशेषकरून भरतनाट्यमच्या हस्तमुद्रा, हाव-भाव आणि शारीरिक गतींचे विस्तृत विवरण प्रस्तुत करत आहे.  हा ग्रंथ नृत्य आणि त्यातील भाव यांच्या अध्ययनासाठी एक महत्वपूर्ण स्रोत आहे.

विनियोगः  स्नेहारम्भे तथा यत्ने सम्यगर्थे च विस्तृते । सरसत्वानुमोदे च सा ग्रीवा सुन्दरी मता ॥८१॥
तिरश्चीना ग्रीवा  पार्श्वयोरुर्ध्वभागे तु चलिता सर्पयानवत् । सा ग्रीवा तु तिरश्चीनेत्युच्यते नाट्यकोविदैः ॥८२॥
विनियोगः  स्वड्गश्रमे सर्पगत्यां तिरश्चीना प्रयुज्यते । परिवर्तिता ग्रीवा  सव्यापसव्यचलिता ग्रीवा यत्रर्धचन्द्रवत् ॥८३॥
सा हि नाट्यकलाभिज्ञैर्विज्ञेया परिवर्तिता । विनियोगः  शृङ्गारनटने कान्तकपोलद्वयचुम्बने ॥८४॥
नाट्यतन्त्रविचारज्ञैः प्रयोज्या परिवर्तिता । प्रकम्पिता ग्रीवा  पुरः पश्चात् प्रचलनात् कपोतीकण्ठकम्पवत् ॥८५॥
प्रकम्पितेति सा ग्रीवा नाट्यशास्त्रे प्रशस्यते । विनियोगः  युष्मदस्मदिति प्रोक्ते देशीनाट्ये विशेषतः ॥८६॥
दोलायां मणिते चैव प्रयोक्तव्या प्रकम्पिता । हस्तभेदाः  अथेदानीन्तु हस्तानां लक्षणं प्रोच्यते मया ॥८७॥
असंयुताः संयुताश्च हस्तद्वेधा निरूपिता । तत्रासंयुतहस्तानामादौ लक्षणमुच्यते । ८८॥
असंयुतहस्ताः  पताकस्त्रिपताकोऽर्धपताकः कर्तरीमुखः । मयूराख्योऽर्धचन्द्रश्च अरालः शुकतुण्डकः ॥८९॥
मुष्टिश्च शिखराख्यश्च कपित्थः कटकामुखः । सूची चन्द्रकला पद्मकोशः सर्पशिरस्तथा ॥९०॥
मृगशीर्षः सिंहमुखः काङ्गुलश्चालपद्मकः । चतुरो भ्रमरश्चैव हंसास्यो हंसपक्षकः ॥९१॥
शन्दंशो मुकुलश्चेव ताम्रचूडस्त्रिशूलकः । इत्यसंयुतहस्तानामष्टाविंशतिरीरिता ॥९२॥
पताकहस्तः  अङ्गुल्यः कुञ्चिताङ्गुष्टः संश्लिष्टाः प्रसृता यदि । स पताककरः प्रोक्तो नृत्यकर्मविशारदैः ॥९३॥
विनियोगः  नाट्यारम्भे वारिवाहे वने वस्तुनिषेधने । कुचस्थले निशायां च नद्यामरमण्डले ॥९४॥
तुरङ्गे खण्डने वायौ शयने गमनोद्यमे । प्रतापे च प्रसादे च चन्द्रिकायां घनातपे ॥९५॥
कवाटपाटने सप्तविभक्तपर्थे तरङ्गके । वीथिप्रवेशभावेऽपि समत्वे चाङ्गरागके ॥९६॥
आत्मार्थे शपथे चापि तूष्णीम्भावनिदर्शने । तालपत्रे च खेटे च द्रव्यादिस्पर्शने तथा ॥९७॥
आशीर्वादक्रियायां च नृपश्रेष्ठस्य भावने । तत्र तत्रेति वचने सिन्धौ च सुकृतिक्रमे ॥९८॥
सम्बोधने पुरोगेऽपि खड्गरूपस्य धारणे । मासे संवत्सरे वर्षदिने सम्मार्जने तथा ॥९९॥
एवमर्थेषु युज्यन्ते पताकहस्तभावनाः । त्रिपताकहस्तः  स एव त्रिपताकः स्याद्वक्रितानामिकाङ्गुलिः ॥१००॥

N/A

References : N/A
Last Updated : October 09, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP