नन्दिकेश्वरविरचितम् अभिनयदर्पणम् - १५

अभिनयदर्पण, आचार्य नंदिकेश्वर द्वारा रचित एक संस्कृत आहे. जो भारतीय शास्त्रीय नृत्य, विशेषकरून भरतनाट्यमच्या हस्तमुद्रा, हाव-भाव आणि शारीरिक गतींचे विस्तृत विवरण प्रस्तुत करत आहे.  हा ग्रंथ नृत्य आणि त्यातील भाव यांच्या अध्ययनासाठी एक महत्वपूर्ण स्रोत आहे.

स्थितिस्तु गरुडस्थानं गरुडे विनियुज्यते । ब्रह्मस्थानं  जानुपरि पदं न्यस्य पदस्योपरि जानु च ॥२८१॥
स्थितं यदि भवेद् ब्राह्मं जपादिषु नियुज्यते । उत्प्लवनभेदाः  अथोत्प्लवनभेदानां लक्षणं परिकथ्यते ॥२८२॥
अलगं कर्तरी वाऽश्वोऽत्प्लवनं मोटितं तथा । कृपालगमिति ख्यातं पञ्चधोत्प्लवनं बुधैः ॥२८३॥
अलगोत्प्लवनं  उत्प्लुत्य पार्श्वयुगलं कटिदेशे तु विन्यसेत् । बध्वा कराभ्यां शिखरौ अलगोत्प्लवनं भवेत् ॥२८४॥
उत्प्लवनकर्तरी  उत्प्लुत्य प्रपदैः सव्यपादस्यैकस्य पृष्ठतः । कर्तरी विन्यसेदेषा स्यादुत्प्लुवनकर्तरी ॥२८५॥
अधोमुखं च शिखरं कटौ हस्तं न्यसेदिह । अश्वोत्प्लवनं  पुरः पादं समुत्प्लुत्य पश्चात्पादं नियोजयेत् ॥२८६॥
करौ तु त्रिपताख्यौ कृत्वाऽश्वोत्प्लवनं भवेत् । मोटितोत्प्लवनं  पर्यायपार्श्वोत्प्लवनं कर्तरीव तु मोटिता ॥२८७॥
त्रिपताके च करयोः कृत्वा शश्वत्प्रकाशनात् । कृपालगोत्प्लवनं  पार्ष्णिमेकैकपादस्य कटौ पर्यायतो न्यसेत् ॥२८८॥
अर्धचन्द्रकलामध्ये न्यस्तमन्यत् कृपालगम् । भ्रमरीलक्षणं  भ्रमर्या लक्षणान्यत्र वक्ष्ये लक्षणभेदतः ॥२८९॥
उत्प्लुतभ्रमरी चक्रभ्रमरी गरुडाभिधा । तथैकपादभ्रमरी कुञ्चितभ्रमरी तथा ॥२९०॥
आकाशभ्रमरी चैव तथाङ्गभ्रमरीति च । भ्रमर्यः सप्त विज्ञेया नाट्यशास्त्रविशारदैः ॥२९१॥
उत्प्लुभ्र्मरी  स्थित्वा समाभ्यां पादाभ्यामुत्प्लुत्य भ्रामयेद्यदि । सर्वाङ्गमन्तराले स्यादुत्प्लुतभ्रमरी त्वसौ ॥२९२॥
चक्रन्नमरी  भुवि पादौ मुहुः कर्षंस्त्रिपताकौ करौ वहन् । चक्रवद् भ्रमते यत्र सा चक्रभ्रमरी भवेत् ॥२९३॥
गरुडभ्रमरी  तिर्यक् प्रसार्यैकपादं पश्चाज्जानु भुवि क्षिपेत् । सम्यक् प्रसार्य बाहू द्वौ भ्रामयेद् गरुडो भवेत् ॥२९४॥
एकपादभ्रमरी  भ्रामयेदेकमेकेन पादं पादेन सत्वरम् । सा त्वेकपादभ्रमरी भवेदिति विनिश्चिता ॥२९५॥
कुञ्चितभ्रमरी  निकुञ्च्य जानुभ्रमणं कुञ्चितभ्रमरी भवेत् । आकाशभ्रमरी  उत्प्लुत्य पादौ विरलौ कृत्वा पादौ प्रसार्य च ॥२९६॥
भ्रामयेत् सकलं गात्रमाकाशभ्रमरी भवेत् । अङ्गभ्रमरी  वितस्त्यन्तरितौ पादौ कृत्वाङ्गभ्रमणं तथा ॥२९७॥
तिठेद् यदि भवेदङ्गभ्रमरी भरतोदिता । चारिमेदाः  अथात्र चारिभेदानां लक्षणं कथ्यते मया ॥२९८॥
आदौ तु चलनं प्रोक्तं पश्चाच्चङ्क्रमणं तथा । सरणं वेगिनी चैव कुट्टनं च ततः परम् ॥२९९॥
लुठितं लोलितं चैव ततो विषमसञ्चरः । चारिभेदा अमी अष्टौ प्रोक्ता भरतवेदिभिः ॥३००॥

N/A

References : N/A
Last Updated : October 09, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP