नन्दिकेश्वरविरचितम् अभिनयदर्पणम् - १४
अभिनयदर्पण, आचार्य नंदिकेश्वर द्वारा रचित एक संस्कृत आहे. जो भारतीय शास्त्रीय नृत्य, विशेषकरून भरतनाट्यमच्या हस्तमुद्रा, हाव-भाव आणि शारीरिक गतींचे विस्तृत विवरण प्रस्तुत करत आहे. हा ग्रंथ नृत्य आणि त्यातील भाव यांच्या अध्ययनासाठी एक महत्वपूर्ण स्रोत आहे.
प्रत्यालीढं खस्तिकं च मोटितं समसूचिका । पार्श्वसूचीति च दश मण्डलानीरितानीह ॥२६१॥
स्थानकमण्डलं कटिं स्पृष्ट्वाऽर्धचन्द्राख्यपाणिभ्यां समपादतः । समरेखतया तिष्ठेत् तत् स्यात् स्थानकमण्डलम् ॥२६२॥
आयतमण्डलं वितस्त्यन्तरितौ पादौ कृत्वा तु चतुरस्रकौ । तिर्यक् कुञ्चितजानुभ्यां स्थितिरायतमण्डलम् ॥२६३॥
आलीढमण्डलं दक्षिणाङ्घ्रेश्च पुरतः वितस्तित्रितयान्तरम् । विन्यसेद् वामपादं च शिखरं वामपाणिना ॥२६४॥
कटकामुखहस्तश्च दक्षिणेन धृतो यदि । आलीढमण्डलमिति विख्यातं भरतादिभिः ॥२६५॥
प्रत्यालीढमण्डलं आलीढस्य विपर्यासात् प्रत्यालीढाख्यमण्डलम् । प्रेङ्खणमण्डलं प्रसृत्यैकपदं पार्श्वे पार्ष्णिदेशस्य पादतः ॥२६६॥
स्थित्वाऽन्ते कूर्महस्तेन स्थितिः प्रङ्खणमण्डलम् । प्रेरितमण्डलं सन्ताड्यैकं पदं पार्श्वे वितस्तित्रितयान्तरम् ॥२६७॥
तिर्यक् कुञ्चितजानुभ्यां स्थित्वाऽथ शिखरं करम् । विधाय वक्ष्यस्यन्येन प्रसृता च पताकिका ॥२६८॥
प्रदर्शयेदिदं तज्ज्ञाः प्रेरितं मण्डलं जगुः । स्वस्तिकमण्डलं दक्षिणोत्तरतः कुर्यात् पादे पादं करे करम् ॥२६९॥
व्यात्यासेन तदा प्रोक्तं स्वस्तिकं नाम मण्डलम् । मोटितमण्डलं प्रपदाभ्यां भुवि स्थित्वा जानुयुग्मेन संस्पृशेत् ॥२७०॥
क्रमाद् भूतलमेकैकं त्रिपताककरद्वयम् । कृत्वा तन्मोटितं नाम मण्डलं कथितं बुधैः ॥२७१॥
समसूचीमण्डलं पादाग्राभ्यां च जानुभ्यां भूतलं संस्पृशेद्यदि । मण्डलं समसूचीति कथितं पूर्वसूरिभिः ॥२७२॥
पार्श्वसूचीमण्डलम् स्थित्वा पादाग्रयुग्मेण जानुनैकेन पार्श्वतः । संस्पृशेद् भूतलं पार्श्व सूचीमण्डलमीरितम् ॥२७३॥
स्थानकभेदाः पादविन्यासभेदेन स्थानकं षड्विधं भवेत् । समपादं चैकपादं नागबन्धस्ततः परम् ॥२७४॥
ऐन्द्रं च गारुडं चैव ब्रह्मस्थानमिति क्रमात् । समपादस्थानं स्थितिः समाभ्यां पादाभ्यां समपादमिति स्मृतम् ॥२७५॥
विनियोगः पुष्पाञ्जलौ देवरूपे समपादं नियुज्यते । एकपादस्थानं जान्वाश्रित्य पदैकेन स्थितिः स्यादेकपादकम् ॥२७६॥
विनियोगः एकपादं त्विदं स्थानं निश्चले तपसि स्थितम् । नागबन्धस्थानं पादं पादेन संवेष्ट्य तथा पाणिं च पाणिना ॥२७७॥
स्थितिः स्यान्नागबन्धाख्या नागबन्धे प्रयुज्यते । ऐन्द्रकस्थानं पादमेकं समाकुञ्च्य स्थित्वाऽन्यपदजानुनी ॥२७८॥
उत्तानिते करं न्यस्य स्थितिरैन्द्रमितीरितम् । विनियोगः वासवे राजभावे च स्थानमैन्द्रं नियुज्यते ॥२७९॥
गरुडस्थानकं आलीढमण्डले पश्चादथ जानुतलं भुवि । संस्थाप्य पाणियुग्मेन वहन विरलमण्डलम् (?) ॥२८०॥
N/A
References : N/A
Last Updated : October 09, 2025

TOP