संस्कृत सूची|शास्त्रः|अभिनयदर्पणम्| ९ अभिनयदर्पणम् १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ नन्दिकेश्वरविरचितम् अभिनयदर्पणम् - ९ अभिनयदर्पण, आचार्य नंदिकेश्वर द्वारा रचित एक संस्कृत आहे. जो भारतीय शास्त्रीय नृत्य, विशेषकरून भरतनाट्यमच्या हस्तमुद्रा, हाव-भाव आणि शारीरिक गतींचे विस्तृत विवरण प्रस्तुत करत आहे. हा ग्रंथ नृत्य आणि त्यातील भाव यांच्या अध्ययनासाठी एक महत्वपूर्ण स्रोत आहे. Tags : abhinaydarpandancenandikeshwarअभिनयदर्पणनंदिकेश्वरनृत्यa नन्दिकेश्वरविरचितम् अभिनयदर्पणम् - ९ Translation - भाषांतर अर्चने पञ्चसङ्ख्यायां सन्दंशाख्यो नियुज्यते । मुकुलहस्तः अङ्गुलोपञ्चकं चैव मेलयित्वा प्रदर्शने ॥१६१॥ मुकुलाभिधहस्तोऽयं कीर्त्यते भरतागमे । कुमुदे भोजने पञ्चबाणे मुद्रादिधारणे ॥१६२॥ नाभौ च कदलीपुष्पे युज्यते मुकुलः करः । ताम्रचूडहस्तः मुकुले ताम्रचूडः स्यात्तर्जनी वक्रिता यदि ॥१६३॥ विनियोगः कुक्कुटादौ वके काके उष्ट्रे वत्से च लेखने । युज्यते ताम्रचूडाख्यः करो भरतवेदिभिः ॥१६४॥ त्रिशूलहस्तः निकुञ्चनयुताङ्गुष्ठकनिष्ठस्तु त्रिशूलकः । विनियोगः विल्वपत्रे त्रित्वयुक्ते त्रिशूलकर ईरितः ॥१६५॥ व्याघ्रहस्तः कनिष्ठाङ्गुष्ठनमने मृगशीर्षकरे तथा । व्याघ्रहस्तः स विज्ञेयो भरतागमकोविदैः ॥१६६॥ विनियोगः व्याघ्रे भेके मर्कटे च शुक्तौ संयुज्यते करः । अर्धसूचीहस्तः कपित्थे तर्जनी ऊर्ध्वसारणे त्वर्धसूचिकः ॥१६७॥ विनियोगः अङ्कुरे पक्षिशावादौ बृहत्कीटे नियुज्यते । कटकहस्तः सन्दंशेऽप्युर्ध्वभागे तु मध्यमानामिकान्वया ॥१६८॥ कटको हस्त उच्यते । विनियोगः एतस्य विनियोगस्तु ॥॥ ॥॥ दर्शने ॥१६९॥ आह्वानभावचलने ॥॥ ॥॥ । पल्लिहस्तः मयूरे तर्जनीपृष्ठो मध्यमेन युतो यदि ॥१७०॥ पल्लिहस्तः स विज्ञेयः पल्लाथै विनियुज्यते । अभिनयवशादेषां संयुतत्वं प्रकीर्तितम् ॥१७१॥ मार्गप्रदर्शनं तेषां क्रमाल्लक्ष्यानुसारतः । संयुतहस्ताः अञ्जलिश्च कपोतश्च कर्कटः स्वस्तिकस्तथा ॥१७२॥ डोलाहस्तः पुष्पपुट उत्सङ्गः शिवलिङ्गकः । कटकावर्धनश्चैव कर्तरीस्वस्तिकस्तथा ॥१७३॥ शकटं शङ्खचक्रे च सम्पुटः पाशकीलकौ । मत्स्यः कूर्मों वराहश्च गरुडो नागबन्धकः ॥१७४॥ खट्वा भेरुण्ड इत्येते सङ्ख्याता संयुताः कराः । त्रयोविंशतिरित्युक्ताः पूर्वगैर्भरतादिभिः ॥१७५॥ अञ्जलिहस्तः पताकातलयोर्योगादञ्जलिः कर ईरितः । विनियोगः देवतागुरुविप्राणां नमस्कारेष्वनुक्रमात् ॥१७६॥ कार्यः शिरोमुखोरस्थो विनियोगेऽञ्जलिबुधैः । कपोतहस्तः कपोतोऽसौ करो यत्र श्लिष्टाऽऽमूलाग्रपार्श्वकः ॥१७७॥ विनियोगः प्रणामे गुरुसम्भाषे विनयाङ्गीकृतेष्वयम् । कर्कटहस्तः अन्योन्यस्यान्तरे यत्राङ्गुल्यो निःसृत्य हस्तयोः ॥१७८॥ अन्तर्बहिर्वा वर्तन्ते कर्कटः सोऽभिधीयते । विनियोगः समूहागमने तुन्ददर्शने शङ्खपूरणे ॥१७९॥ अङ्गानां मोटने शाखोन्नमने च नियुज्यते । स्वस्तिकहस्तः पताकयोः सन्नियुक्तः करयोर्मणिबन्धयोः ॥१८०॥ N/A References : N/A Last Updated : October 09, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP