नन्दिकेश्वरविरचितम् अभिनयदर्पणम् - २

अभिनयदर्पण, आचार्य नंदिकेश्वर द्वारा रचित एक संस्कृत आहे. जो भारतीय शास्त्रीय नृत्य, विशेषकरून भरतनाट्यमच्या हस्तमुद्रा, हाव-भाव आणि शारीरिक गतींचे विस्तृत विवरण प्रस्तुत करत आहे.  हा ग्रंथ नृत्य आणि त्यातील भाव यांच्या अध्ययनासाठी एक महत्वपूर्ण स्रोत आहे.

तदग्रे नटनं कुर्यात् तत् स्थलं रङ्ग उच्यते । रङ्गमध्ये स्थिते पात्रे तत्समीपे नटोत्तमः ॥२१॥
दक्षिणे तालधारी च पार्श्वद्वन्द्वे मृदङ्गकौ । तयोर्मध्ये गीतकारी श्रुतिकारस्तदन्तिके ॥२२॥
एवं तिष्ठेत् क्रमेणैव नाट्यादौ रङ्गमण्डली । पात्रलक्षणं  तन्वी रूपवती श्यामा पीनोन्नतपयोधरा ॥२३॥
प्रगल्भा सरसा कान्ता कुशला ग्रहमोक्षयोः । विशाललोचना गीतवाद्यतालानुवर्तिनी ॥२४॥
परार्ध्यभूषासम्पन्ना प्रसन्नमुखपङ्कजा । एवंविधगुणोपेता नर्तकी समुदीरिता ॥२५॥
वर्जनीयपात्राणि  पुष्पाक्षी केशहीना च स्थूलोष्ठी लम्बितस्तनी । अतिस्थूलाप्यतिकृशा अत्युच्चाप्यतिवामना ॥२६॥
कुब्जा च स्वरहीना च दशैता नाट्यवर्जिताः । पात्रस्य प्राणाः  जवः स्थिरत्वं रेखा च भ्रमरी दृष्टिरश्रमः ॥२७॥
मेधा श्रद्धा वचो गीतं पात्रप्राणा दश स्मृताः । एवंविधेन पात्रेण नृत्यं कार्यं विधानतः ॥२८॥
किङ्किणीलक्षणं सुस्वराश्च सुरूपाश्च सूक्ष्मा नक्षत्रदेवताः । किङ्किण्यः कांस्यरचिता एकैकाङ्गुलिकान्तरम् ॥२९॥
बध्नीयान्नीलसूत्रेण ग्रन्थिभिश्च दृढं पुनः । शतद्वयं शतं वापि पादयोर्नाट्यकारिणी ॥३०॥
प्रार्थनादिकं  विघ्नेशं मुरजाधिपं च गगनं स्तुत्वा महीं प्रार्थयेत् तत्तद्वाद्यकदम्बकस्य विधिना पूजाविधामानयेत् । आलप्यातिमनोहरान् बहुविधीन् सम्पाद्य भूयस्तथा गुर्वाज्ञामवलम्ब्य पात्रमुचितं शृङ्गारमेवारभेत् ॥३१॥
रङ्गाधिदेवतास्तुतिः  भरतकुलभाग्यकलिके भावरसानन्दपरिणताकारे । जगदेकमोहनकले जय जय रङ्गाधिदेवते देवि ॥३२॥
पुष्पाञ्जलिः विघ्नानां नाशनं कर्तुं भूतानां रक्षणाय च । देवानां तुष्टये चापि प्रेक्षकाणां विभूतये ॥३३॥
श्रेयसे नायकस्यात्र पात्रसंरक्षणाय च । आचार्यशिक्षासिद्धार्थ पुष्पाञ्जलिमथारभेत् ॥३४॥
नाट्यक्रमः एवं कृत्वा पूर्वरङ्गं नृत्यं कार्यं ततः परम् । नृत्यं गीताभिनयनं भावतालयुतं भवेत् ॥३५॥
आस्येनालम्बयेद् गीतं हस्तेनार्थं प्रदर्शयेत् । चक्षुर्भ्यां दर्शयेद् भावं पादाभ्यां तालमाचरेत् ॥३६॥
यतो हस्तस्ततो दृष्टिर्यतो दृष्टिस्ततो मनः । यतो मनस्ततो भावो यतो भावस्ततो रसः ॥३७॥
अभिनयः तत्र त्वभिनयस्यैव प्राधान्यमिति कथ्यते । आङ्गिको वाचिकस्तद्वदाहार्यः सात्विकोऽपरः ॥३८॥
चतुर्धाभिनयस् – आङ्गिकाभिनयः तत्र आङ्गिकोऽङ्गैर्निदर्शितः । वाचिकाभिनयः वाचा विरचितः काव्यनाटकादि तु वाचिकः ॥३९॥
आहार्याभिनयः आहार्यो हारकेयूरवेषादिभिरलङ्कृतः । सात्त्विकाभिनयः सात्त्विकः सात्त्विकैर्भावैर्भावज्ञेन विभावितः ॥४०॥

N/A

References : N/A
Last Updated : October 09, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP