संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे वस्त्रापथक्षेत्र माहात्म्यम्| अध्याय १८ प्रभासखण्डे वस्त्रापथक्षेत्र माहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ विषयानुक्रमणिका वस्त्रापथक्षेत्र माहात्म्यम् - अध्याय १८ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १८ Translation - भाषांतर ॥राजोवाच॥वस्त्रापथे महाक्षेत्रे सम्प्राप्तो वामनो यदा ॥तदाप्रभृति किं चक्रे तन्मे विस्तरतो वद ॥१॥ ॥सारस्वत उवाच॥वामनो वसतिं चक्रे भवस्याग्रे नृपोत्तम ॥स्वर्णरेखाजले स्नात्वा भवं सम्पूज्य भावतः ॥२॥एकांते निर्मले स्थाने कण्टकास्थिविवर्जिते ॥कृष्णाजिनपरिच्छन्न उपविष्टो वरा सने ॥३॥कृत्वा पद्मासनं धीरो निश्चलोऽभूद्द्विजोत्तमः ॥विधाय कन्धराबंधमृजुनासावलोककः ॥४॥गृहक्षेत्रकलत्राणां चिंतां मुक्त्वा धनस्य च ॥मायां च वैष्णवीं त्यक्त्वा कृतमौनो जितेन्द्रियः ॥५॥निराहारो जितक्रोधो मुक्तसंसारबंधनः ॥भुजौ पद्मासने कृत्वा किञ्चिन्मीलितलो चनः ॥मनोतिचंचलं ज्ञात्वा स्थिरं चक्रे हृदि द्विजः ॥६॥क्रमेणाभ्यासयोगेन भिन्नांश्चक्रे स चैकतः ॥प्राणापानव्यानोदानसमानाख्यांश्च मारुतान् ॥६४॥एवं तं हृदये कृत्वा गृहीत्वा सर्वसन्धिषु ॥आनीय ब्रह्मणः स्थाने दृढं ब्रह्मण्ययोजयत् ॥८॥गृहीत्वा पवनं बाह्यं यदा पूर यते तनुम् ॥तदा स पूरको ज्ञेयो रेचकं तु वदाम्यहम् ॥९॥यदा चाभ्यन्तरो वायुर्बाह्ये याति क्रमान्नृप ॥तदा स रेचको ज्ञेयः स्तम्भनात्कुम्भको भवेत् ॥१०॥पञ्चविंशतितत्त्वानि यदा जानंति योगिनः ॥मुच्यन्ते पातकैः सर्वैः सप्तजन्मकृतैरपि ॥११॥ ॥राजोवाच ॥कानि तत्त्वानि को देही किं ज्ञेयं योगिनां वद ॥उत्पन्नज्ञानसद्भावो योगयुक्तः कथं भवेत् ॥१२॥ ॥ईश्वर उवाच॥प्रकृतिश्च ततो बुद्धिरहंकारस्ततोऽभवत् ॥तन्मात्रपंचकं तस्मादेषा प्रकृतिरष्टधा ॥१३॥बुद्धीन्द्रियाणि पञ्चैव पञ्च कर्मेंद्रियाणि च ॥एकादशं मनो विद्धि महा भूतानि पंच च ॥१४॥गणः षोडशकः सांख्ये विस्तरेण प्रकीर्तितः ॥चतुर्विंशतितत्त्वानि पुरुषः पंचविंशकः ॥१५॥देहीति प्रोच्यते देहे स चात्मानं च पश्यति ॥विंदन्ति परमात्मानं षष्ठं तं विंशतेः परम् ॥१६॥आसनादिप्रकारा ये ते ज्ञेयाः प्रथमं सदा ॥यदा दीपशिखाप्रायं ज्योतिः पश्यंति ते हृदि ॥१७॥उत्पन्नज्ञानसद्भावा भण्यास्ते योगिनो बुधैः ॥पूर्वं जरां जरयति रोगा नश्यति दूरतः ॥१८॥सर्वपापचये क्षीणे पश्चान्मृत्युं स विंदति ॥मृतो लोके नरो नास्ति योगी जानाति चेत्स्वयम् ॥१९॥तदा द्वाराणि संरुद्ध्य दश प्राणान्स मुञ्चति ॥पुण्य पापक्षयं कृत्वा प्राणा गच्छंति योगिनाम् ॥अणिमादिगुणैश्वर्यं प्राप्नुवंति शिवालये ॥२०॥अनेन ध्यानयोगेन भवं पश्यति मानवः ॥मनसा चिंतितं सर्वं सम्प्राप्तं भवदर्शनात् ॥२१॥एवमास्ते यदा विप्रो वामनो भवसन्निधौ ॥गगनादवतीर्णं तं तदा पश्यति नारदम् ॥२२॥ ॥वामन उवाच॥महर्षे कुशलं तेऽद्य कस्मादागम्यते त्वया ॥प्रणमामि महर्षे त्वां ब्रह्मैव त्वं जगत्त्रये ॥२३॥ ॥नारद उवाच॥स्वर्ग लोकादहं प्राप्तः कुशलं किं ब्रवीमि ते ॥२४॥यातायातैर्दिनेशस्य पूर्य्यते ब्रह्मणो दिनम् ॥दिनांते जायते रात्री रात्रौ नश्यंति देवताः ॥२५॥का कथा मृत्युलोकस्य ये म्रियंते दिनेदिने ॥नभो धूमाकुलं जातं देवा बलिगृहे गताः ॥२६॥सप्तर्षयो गतास्तत्र ब्रह्मणा ब्रह्मचारिणः ॥हाहाहूहूस्तुंबरुश्च गतौ नारदपर्वतौ ॥२७॥अप्सरोगणगन्धर्वाः संप्राप्ता बलिमंदिरे ॥उत्पातशांतिको यज्ञः क्रियते बलिना स्वयम् ॥२८॥तत्रैव गन्तुमिच्छामि द्रष्टुं यज्ञं बलेर्गृहे ॥सहस्रमेकं यज्ञानामेकोनं विदधे बलिः ॥२९॥दैत्यानां भुवनं सर्वं संपूर्णेऽस्मिन्भविष्यति ॥असावतिशयः कोऽपि प्रारब्धो यज्ञकर्मणि ॥द्विजातिभ्यो मया देयं येन यद्याच्यते स्वयम् ॥३०॥वारितेनापि मे देयं सत्यमस्तु वचो मम ॥आत्मानमपि दारांश्च राज्यं पुत्रान्प्रियान्मम ॥३१॥प्रार्थितश्चेन्न दास्यामि व्यर्थो भवतु मेऽध्वरः ॥अनेन वचसा जाता महती मे शिरो व्यथा ॥प्रतिज्ञाय कथं यज्ञः संपूर्णोऽयं भविष्यति ॥३२॥भंगोपायं न पश्यामि भ्रमामि भुवनत्रये ॥विध्वंसकारिणं ज्ञात्वा भवंतं पर्युपस्थितः ॥३३॥यथा न पूर्यते यज्ञस्तथेदानीं विधीयताम् ॥३४॥ ॥वामन उवाच॥महर्षे शृणु मे वाक्यं का शक्तिर्मम विद्यते ॥कोऽहं कस्मात्करिष्यामि यज्ञे देवाः समागताः ॥३५॥ऋषयो ब्राह्मणाः सर्वे कथं व्यर्थो भविष्यति ॥अपरं शृणु मे वाक्यं ब्रह्मर्षे ब्रह्मणस्पते ॥३६॥न कलत्रं न ते पुत्राः कस्मात्प्रकृतिरीदृशी ॥युद्धं विना न ते सौख्यं न सौख्यं कलहं विना ॥३७॥यादृशस्ता दृशो वाऽपि वाग्वादोऽपि सदा प्रियः ॥स्नानं संध्या जपो होमस्तर्पणं पितृदेवयोः ॥३६॥नारदः कुरुते चान्यदन्यत्कुर्वंति ब्राह्मणाः ॥ममापि कौतुकं जातं महर्षे वद सत्वरम् ॥३९॥ ॥नारद उवाच॥पाद्मकल्पे व्यतिक्रांते रात्र्यंते शृणु वामन॥ब्रह्माण्डं वारिणा व्याप्तमन्यत्किं चिन्न विद्यते ॥४०॥अप्सु शेते देवदेवः स च नारायणः स्मृतः ॥स ब्रह्मा स शिवो नास्ति भेदस्तेषां परस्परम् ॥४१॥यदा भवंति ते भिन्ना स्तदा देवत्रयं च ते ॥कर्त्तुं वाराहकल्पं तु भिन्ना जातास्त्रयस्तदा ॥४२॥ब्रह्मविष्णुहरा देवा रजःसत्त्वतमोमयाः ॥सृष्टिं ब्रह्मा करोत्येवं तां च पालयते हरिः ॥४३॥हरः संहरते सर्वं त्रैलोक्यं सचराचरम् ॥एवं प्रवर्त्य देवेश उपविष्टा वरासने ॥कैलासशिखरे रम्ये मंत्रयंति परस्परम् ॥४४॥त्रयाणां को वरो देवः को ज्येष्ठः को गुणाधिकः॥चतुर्थो नास्ति यो वेत्ति सहसा ते त्रयः स्थिताः॥४५॥तेभ्यः समुत्थितं ज्योतिरेकीभूतं तदंबरे॥कालमानेन युक्तं तद्भ्राम्ते रविमंडलम् ॥४६॥अहं ज्येष्ठो ह्यहं ज्येष्ठो वादोऽभूद्धरब्रह्मणोः ॥द्वयोर्विवदतोः क्रोधात्संजातोऽहं मुखात्प्रभो ॥४७॥कथं देव न जानासि यदुक्तं ब्रह्मणा तदा ॥दशावतारास्ते रंतुं मत्स्यकूर्मादयः पुरा ॥४८॥रुद्रेण वारिता गत्वा कलहो वो न युज्यते ॥तथैव कृतवान्विष्णुरवतारान्दशैव तान् ॥४९॥कल्पादौ ब्रह्मणो वक्त्रात्संजातोऽहं द्विजोत्तम ॥कलहाजन्म मे यस्मात्तस्मान्मे कलहः प्रियः ॥५०॥कल्पादौ सृजता पूर्वं चिन्वितं ब्रह्मणा स्वयम् ॥वेदान्तिना कथं सृष्टिः कर्त्तव्याऽहो हरे मया ॥५१॥नष्टान्वेदान्न जानामि क्व वेदास्ते गता इति ॥पृथ्वीमपि न जानामि किं स्थाने किमधो गता ॥५२॥गंतुं न विद्यते शक्तिर्जलमध्ये ममाधुना ॥अवतारैस्त्वया कार्यं दशभिः सृष्टिरक्षण म् ॥९३॥जले जलेचरो मत्स्यो महानद्यां भविष्यसि ॥आदाय वेदान्वेगेन मम त्वं दातुमर्हसि ॥५४॥तथा च कृतवान्देवो मत्स्यरूपं जले महत् ॥वेदान्समानयामास ददौ च ब्रह्मणे पुरा ॥कूर्मरूपं पुनः कृत्वा मंदरं धारयिष्यसि ॥५५॥इत्युक्तो ब्रह्मणा विष्णुर्लक्ष्मीस्त्वां वरयिष्यति ॥पुरा चित्रं चरित्रं ते मथने दृष्टवानहम् ॥५६॥यदा रसातलं प्राप्ता पृथिवी नैव दृश्यते ॥ब्रह्मांडार्थे स्थानकृते तत्र सा नैव दृश्यते ॥५७॥वाराहं क्रियतां रूपं ब्रह्मणा प्रेरितः स्वयम् ॥महावराहरूपं स कृत्वा भूमेरधो गतः ॥५८॥उद्धृत्य च तदा विष्णुर्दंष्ट्राग्रेण वसुंधराम् ॥स निनाय यथास्थानं मुस्तां व धरणीतलात् ॥५९॥अवतारं तृतीयं वै हरस्यापि मनोहरम् ॥येन सा पृथिवी पृथ्वी पर्वतैः सहिता धृता ॥२६०॥चतुर्थं नरसिंहं वै कथयामि सुदारुणम्॥आदित्या अदितेः पुत्रा दितेः पुत्रौ महावलौ ॥६१॥हिरण्यकशिपुर्दैत्यो हिरण्याक्षो महाबलः ॥स्वर्गे देवाः स्थिताः सर्वे पाताले दैत्यदानवाः ॥६२॥हिरण्यकशिपुश्चक्रे दैत्यो राज्यं रसातले ॥मनुपुत्रा धरापृष्ठे स्थापिता देवदानवैः ॥६३॥व्यवस्थां तामतिक्रम्य हिरण्यकशिपुर्द्विज ॥राज्यं चक्रे धरापृष्ठे सुरेन्द्रं स विजित्य च ॥६४॥सप्तद्वीपवतीं पृथ्वीं गृहीत्वा साऽमरावतीम्॥ग्रहीतुकामो बुभुजे पुत्रपौत्रैः कृतादरः ॥६५॥प्रह्लादप्रमुखान्पुत्रान्स पीडयति मंदधीः ॥पुत्रेषु पाठ्यमानेषु प्रह्लादोऽपि पपाठ तत् ॥६६॥येन वै पठ्यमानेन जायते तस्य वेदना ॥भुवनद्वयराज्येन दैत्यो देवान्न मन्यते ॥६७॥तपसा तोषितो ब्रह्मा ददौ तस्मै वरं प्रभुः ॥अमरत्वं स देवेभ्यो मनुष्येभ्यः सुरोत्तम ॥६८॥कस्मादपि न मे भूयान्मरणं यदि चेद्भवेत् ॥किंचित्सिंहो नरः किंचिद्यो भवेद्धरणीधरः ॥६९॥तस्मात्कररुहैभिन्नो मरिष्ये न धरातले ॥एवं भविष्यतीत्युक्त्वा गतो ब्रह्मा च विस्मयम् ॥७०॥कालेन गच्छता तस्य संजातो विग्रहो महान्॥देवाः किं मे करिष्यंति विष्णुना किं प्रयोजनम् ॥७१॥यष्टव्योऽहं सदा यज्ञै रुद्रः किं मे करिष्यति ॥एवं हि वर्त्तमानस्य प्रह्लादः स्तौति तं हरिम् ॥७२॥येनास्य जायते मृत्युस्तमेव स्मरते हरिम् ॥यदासौ वार्यमाणोऽपि विरौति च हरिं हरिम् ॥७३॥चतुर्भुजं शंखगदासिधारिणं पीतांबरं कौस्तुभ लाञ्छितं सदा ॥स्मरामि विष्णुं जगदेकनायकं ददाति मुक्तिं स्मृतमात्र एव यः ॥७४॥अनेन वचसा क्षुब्धो दैत्यो देत्यान्दि देश ह ॥मारयध्वं तु तं दुष्टं गज सर्पजलाग्नितः ॥७५॥ ॥प्रह्लाद उवाच॥गजेपि विष्णुर्भुजगेऽपि विष्णुर्जलेऽपि विष्णुर्ज्वलनेऽपि विष्णुः ॥त्वयि स्थितो दैत्य मयि स्थितश्च विष्णुं विना दैत्यगणाऽपि नास्ति ॥७६॥यदा स मार्यमाणोऽपि मृत्युं प्राप्नोति न क्वचित् ॥हिरण्यकशिपोर्वक्षो दह्यते क्रोधवह्निना ॥तदा शिक्षयितुं पुत्रं मुखाग्रे संनिवेश्य च ॥७७॥वचोभिः कठिनैः पुत्रं स्वयं हन्तुं समुद्यतः ॥।धिक्त्वा नारायणं स्तौषि ममारिं स्तौषि चेत्पुनः॥७८॥पुष्पलावं लविष्यामि शिरस्तेऽहं वरासिना ॥अहं विष्णुरहं ब्रह्मा रुद्र इन्द्रो वरं वद ॥७९॥आत्मीयं पितरं मुक्त्वा कमन्यं स्तौषि बालक ॥८०॥यदा न पठते बालः स्तौति नो पितरं स्वकम् ॥दण्डेनाहत्य गुरुणा प्रह्लादः प्रेरितः पुनः॥वदैकं वचनं शिष्य देहि मे गुरुदक्षिणाम् ॥८१॥यथा मे तुष्यते स्वामी ददाति विपुलं धनम् ॥८२॥ ॥प्रह्लाद उवाच॥प्रहरस्व प्रथमं मां करिष्ये वचनं गुरो ॥स्तौमि विष्णुमहं येन त्रैलोक्यं सचराचरम् ॥८३॥कृतं संवर्द्धितं शांतं स मे विष्णुः प्रसीदतु ॥ब्रह्मा विष्णुर्हरो विष्णु रिन्द्रो वायुर्यमोऽनलः ॥८४॥प्रकृत्यादीनि तत्त्वानि पुरुषं पंचविंशकम् ॥पितृदेहे गुरोर्देहे मम देहेऽपि संस्थितः ॥८५॥एवं जानन्कथं स्तौमि म्रियमाणं नराधमम् ॥८६॥ ॥गुरुरुवाच॥नरेषु कोऽधमः शिष्य जन्मादिमरणेऽधम ॥कथं न पितरं स्तौषि म्रियमाणो हरिं हरिम् ॥। ॥८७॥ ॥प्रह्लाद उवाच॥भोजने शयने याने ज्वरे निष्ठीवने रणे ॥हरिरित्यक्षरं नास्ति मरणेऽसौ नराधमः ॥८- ॥भये राजकुले युद्धे व्याधौ स्त्रीसंगमे वने ॥अशक्तौ वाऽथ संन्यासे मरणे भूमिसंस्थिताः ॥स्मरंति मातरं मूर्खाः पितरं च नराधमाः ॥८९॥माता नास्ति पिता नास्ति नास्ति मे स्वजनो जनः ॥हरिं विना न कोऽप्यस्ति यद्युक्तं तद्विधीयताम् ॥९०॥इत्यादिवचनैः क्रुद्धो हन्तुं दैत्यः समुत्थितः॥तदा माता समागत्य पुत्रस्य पुरतः स्थिता ॥९१॥भ्रातरः स्वजनो भगिनी भाषते मा हरिं वद ॥अहं माता स्वसा चेयं भ्रातरः स्वजनो जनः ॥यथा संमिलितैर्वत्स स्थीयते वहुवासरम् ॥९२॥ ॥प्रह्लाद उवाच॥माता मे का स्वसा मे का भ्रातरः के पिता च कः ॥स्वजनं शृणु मे मातः सहितैः स्थीयते सदा ॥९३॥यस्याः पीतं मया मूत्रं पुरीषमुदरे बहु ॥सा माता नरकोऽस्माकमग्रे वक्तुं न शक्यते ॥९४॥निर्मितो न द्वितीयस्तु निर्मितो विश्वकर्मणा ॥त्वादृशस्तु पुमान्कश्चिद्यस्य नो हदये हरिः ॥९५॥दशमासं ध्रुवं मन्ये मूत्रं पास्यति तर्पितः ॥भ्रातरो भ्रातरः सत्यं गर्भेऽपि स्युः कथं यदि ॥९६॥युध्यतस्तान्कथं माता वराकी वारयिष्यति ॥स्वजनो दृश्यते वृद्धः परेषु पण्डितायते ॥९७॥कुटुंबं भण्यते कस्माद्यश्च नायाति याति च ॥बंधनं च कुटुम्बस्य जायते नरकाय नः ॥९८॥माता मे विद्यते चान्या पितान्यो भ्रातरश्च ये॥स्वसा स्वजनसम्वन्धं ज्ञात्वा मुक्तिमवाप्नुयात् ॥९९॥माता प्रकृतिरस्माकं स्वसा बुद्धिर्निगद्यते ॥अहंकारस्ततो जातो योऽहमित्यनुमीयते ॥१००॥तन्मात्राः सोदराः पञ्च ये गच्छन्ति सहैव मे ॥एषा प्रकृतिरस्माकं विकारः स्वजनो मम ॥१०१॥एतेषां वाहको यस्तु पुरुषः पञ्च विंशकः ॥स मे पिता शरीरेऽस्मिन्परमात्मा हरिः स्थितः ॥१०२॥यद्यसौ चित्यन्ते चित्ते दृश्यते हृदये हरिः ॥अणिमादिगुणैश्वर्यं पदं तस्यैव जायते ॥१०३॥भवता सम्मतं राज्यं तन्मे नित्यं तृणैः समम् ॥यत्र नो पूज्यते विष्णुर्ब्रह्मा रुद्रोऽनिलोऽनलः ॥१०४॥प्रत्यक्षो दृश्यते यस्तु निरालम्बो भ्रमत्यसौ ॥स एव भगवान्विष्णुर्य एते गगने स्थिताः ॥१०५॥ध्रुवे बद्धा ग्रहाः सर्वे य एतेऽप्युडवः स्थिताः ॥ते सर्वे विष्णुवचसा न पतंति धरातले ॥१०६॥काले विनाशः सर्वेषां तेनैव विहितः स्वयम् ॥इति संचिंत्य मे नास्ति भवद्भ्यो मरणाद्भयम् ॥१०७॥इति तद्वचनस्यांते पदा हत्वा पिताऽब्रवीत् ॥कुत्राऽसौ हन्मि तत्पूर्वं पश्चात्त्वां हरिभाषिणम् ॥१०८॥ ॥प्रह्लाद उवाच॥पृथिव्यादीनि भूतानि तान्येव भगवान्हरिः ॥स्थले जले किं बहुना सर्वं विष्णुमयं जगत् ॥१०९॥तृणे काष्ठे गृहे क्षेत्रे द्रव्ये देहे स्थितो हरिः ॥ज्ञायते ज्ञानयोगेन दृश्यते किं नु चक्षुषा ॥११०॥ब्रह्मालये याति रसातले वा धरातलेऽसौ भ्रमति क्षणेन ॥आघ्राति गन्धं विदधाति सर्वं शृणोति जानाति स चात्र विष्णुः ॥१११॥इत्युक्तः सहजां मायां त्यक्त्वा सिंहासनोत्थितः ॥दृढं परिकरं बद्ध्वा खङ्गं चाकृष्य चोज्ज्वलम् ॥११२॥हत्वा तं फलकाग्रेण बभाषे दुस्सहं वचः ॥इदानीं स्मर रे विष्णुं नो चेज्जवलितकु ण्डलम् ॥पतिष्यति शिरो भूमौ फलं पक्वं यथा नगात् ॥११३॥नो चेद्दर्शय तं विष्णुमस्मात्स्तंभाद्विनिर्गतम् ॥प्रह्लादस्तु भयं त्यक्त्वा चक्रे पद्मासनं भुवि ॥११४॥विधाय कंधरां नेतुमुच्चैः श्वासं निरुध्य च ॥हृदि ध्यात्वा हरिं देवं मरणायोन्मुखः स्थितः ॥११५॥प्रभो मया तदा दृष्टमाश्चर्यं गगनाद्भुवि ॥पुष्पमाला स्थिता कण्ठे प्रह्लादस्य स्वयं गता ॥११६॥गगनं व्याप्यमानं च किंकिमेवं कृतं जनैः ॥झटिति त्रुट्यति स्तम्भाच्छब्देन क्षुभितो जनः ॥११७॥धरणी याति पातालं द्यौर्वा भूमिं समेष्यति ॥पतिष्यति शिरो भूमौ खड्गघाताहतं नु किम् ॥११८॥तावत्स्तंभाद्विनिष्क्रान्तः सिंहनादो भयंकरः ॥भूमौ निपतिताः सर्वे दैत्याः शब्देन मूर्च्छिताः ॥११९॥हिरण्यकशिपोर्हस्तात्खड्गचर्म पपात च ॥न स जानाति किं किमेतदिति पुनःपुनः ॥१२०॥उत्थितो वीक्षते यावत्तावत्पश्यति तं हरिम् ॥अधो नरं स्थितं सिंहमुपरिष्टाद्विभी षणम् ॥१२१॥दंष्ट्रा करालवदनं लेलिहानमिवांबरम् ॥जाज्वल्यमानवपुषं पुच्छाच्छोटितमस्तकम् ॥१२२॥महाकण्ठकृतारावं सशब्द मिव तोयदम् ॥समुच्छ्वसितकेशांतं दुर्निरीक्ष्यं सुरासुरैः ॥१२३॥नरसिंहमथो दृष्ट्वा निपपात पुनः क्षितौ ॥विगृह्य केशपाशे तं भ्रामयामास चांबरम् ॥१२४॥भ्रामयित्वा शतगुणं पृथिव्यां समपोथयत् ॥न ममार स दैत्येन्द्रो ब्रह्मणो वरकारणात् ॥१२५॥गगनस्थैस्तदा देवै रुच्चैः संस्मारितो हरिः ॥दैत्यं जानुनि चानीय वक्षो हृष्टो निरीक्ष्य च ॥१२६॥जयजयेति यक्षानां सुराणां सोऽवधारयत् ॥शब्दं कर्णे भुजौ सज्जौ कृत्वा तौ पद्मलांछितौ ॥१२७॥बिभेद वक्षो दैत्यस्य वज्रघातकिणांकितम्॥नखैः कुन्दसुमप्रख्यैरस्थिसंघातकर्शितम् ॥१२८॥भिन्ने वक्षसि दैत्येन्द्रो ममारच पपात च ॥तदा सहर्षमभवत्त्रैलोक्यं सचराचरम् ॥१२९॥ममापि तृप्तिः सञ्जाता प्रसादात्तव केशव॥यदा पुरत्रये दग्धे प्रसादाच्छंकरस्य च ॥१३०॥हिण्याक्षे पुनर्जाता सा काले विनिपातिते ॥इदानीं नास्ति मे तृप्तिः कुत्र यामि करोमि किम् ॥१३१॥पृथिव्यां क्षत्रियाः सन्ति न युध्यंते परस्परम्॥देवानां दानवैः सार्द्धं नास्ति युद्धं कथं प्रभो ॥१३२॥इदानीं बलिना व्याप्तं त्रैलोक्यं सचराचरम्॥पञ्चमो योऽवतारस्ते न जाने किं करिष्यति ॥वलिनिग्रहकालोऽयं तद्दर्शय जनार्दन ॥१३३॥ ॥सारस्वत उवाच॥तदेतत्सकलं श्रुत्वा बभाषे वामनो मुनिम् ॥१३४॥ ॥वामन उवाच॥शृणु नारद यद्वृत्तं हिण्यकशिपौ हते ॥दैत्यराजः कृतो राजा प्रह्लादोऽतीव वैष्णवः ॥१३५॥तेन राज्यं धरापृष्ठे कृतं संवत्सरान्बहून्॥तस्यापि कुर्वतो राज्यं विग्रहो हि सुरैः समम् ॥१३६॥नो पश्याम्यपि दैत्यानां पूर्ववैरमनुस्मरन्॥उत्पाद्य पुत्रान्सबहून्राज्यं चक्रे स पुष्कलम् ॥१३७॥विरोचनाद्बलिर्जातो बाल एव यदाऽभवत् ॥एकान्ते स हरिं ज्ञात्वा तदा योगेन केनचित् ॥१३८॥मुक्त्वा राज्यं प्रियान्पुत्रान्गतोऽसौ गिरिसानुषु ॥कल्पान्तस्थायिनं देहं तस्य चक्रे जनार्द्दनः ॥१३९॥दैत्यानां दानवानां च बहूनां राज्यकारणे ॥विवादोतीव संजातः को नो राजा भवेदिति ॥१४०॥ ॥नारद उवाच॥हिण्याक्षस्य ये पुत्राः पौत्राश्च बलवत्तराः ॥विरोचनप्रभृतयः सन्ति ये बलवत्तराः ॥१४१॥वृषपर्वापि बलवान्राज्यार्थे समुपस्थितः ॥इन्द्रवित्तेशवरुणा वायुः सूर्योनलो यमः ॥१४२॥दैत्येन सदृशा न स्युर्बलरूपक्षमादिभिः ॥औदार्यादिगुणैः कृत्वा सन्तत्या चासुराधिकः ॥१४३॥शुक्रेणा चार्यमाणास्ते युद्ध्यंते च परस्परम्॥अमृताहरणे दौष्ट्यं यदा दैत्याः स्मरन्ति तत् ॥१४४॥पीतावशेषममृतं कस्माद्यच्छंति देवताः ॥नास्माकमिति संनह्य युध्यन्ते च परस्परम् ॥१४५॥कदाचिदपि नो युद्धं विश्रांतिमुपगच्छति ॥एककार्योद्यता यस्माद्बहवो दैत्यदानवाः ॥१४६॥पीत्वाऽमृतं सुरा जाता अमरास्ते जयन्ति च ॥देवदानवदैत्यानां गन्धर्वोरगरक्षसाम् ॥विष्णुर्बलाधिको युद्धे तदेतत्कारणं वद ॥१४७॥॥ ॥वामन उवाच॥अनादिनिधनः कर्त्ता पाता हर्त्ता जनार्दनः॥एकोऽयं स शिवो देवः स चायं ब्रह्मसंज्ञितः ॥एकस्य तु यदा कार्यं जायते भुवने नृप ॥१४८॥तस्य देहं समाश्रित्य मृत्युकार्यं कुर्वंति ते ॥ब्रह्मांडं सकलं विष्णोः करदं वरदो यतः ॥तस्माद्बलाधिको विष्णुर्न तथान्योऽस्ति कश्चन ॥१४९॥पालनायोद्यतो विष्णुः किमन्यैश्चर्मचक्षुभिः ॥इन्द्राद्याश्च सुराः सर्वे विष्णोर्व्यापारकारिणः ॥१५०॥सृष्टिं कृत्वा ततो ब्रह्मा कैलासे संस्थितो हरः ॥न शक्यते सुरैर्विष्णुर्भ्राम्यन्ते भुवनत्रये ॥१५१॥जगत्यस्मिन्यदा कश्चिद्वैपरीत्येन वर्तते ॥तस्योच्छेदं समागत्य करोत्येव जनार्दनः ॥१५२॥त्वमेजय महाबाहो न मनो नारदाऽदयम् ॥सर्वपापहरां दिव्यां तां कथां कथयाम्यहम् ॥१५३॥पुरा विवदतां तेषां दैत्यानां राज्यहेतवे ॥प्रह्लादेन समागत्य व्यवस्था विहिता स्वयम् ॥१५४॥सर्वलक्षणसं पन्नो दीर्घायुर्बलवत्तरः ॥यज्ञशीलः सदानंदो बहुपुत्रोतिदुर्जयः ॥१५५॥न युध्यते सुरैः साकं विष्णुं यो वेत्ति दुर्जयम् ॥संग्रामे मरणं नास्ति यस्य यः सर्वदक्षिणः ॥१५६॥आत्मनो वचनं व्यर्थं न करोति कथंचन ॥सर्वेषां पुत्रपौत्राणां मध्ये यो राजते श्रिया ॥१५७॥अभिषिक्तस्तु शुक्रेण स वो राजा भवेदिति ॥गुरुप्रमाणमित्युक्त्वा ययौ यत्रागतः पुनः ॥१५८॥तथा च कृतवंतस्ते सहिता दैत्यदानवाः ॥विरोचनप्रभृतयः पुत्राः पौत्राः स्वयंगताः ॥१५९॥प्रत्येकं वीक्षिताः सर्वे गुरुणा ज्ञानपूर्वकम् ॥प्रह्लादेन गुणाः प्रोक्ता न ते संति विरोचने ॥२१६०॥अन्येषामपि दैत्यानां वृषपर्वापि नेदृशः ॥यथा निरीक्षिताः पुत्रा बलिप्रभृतयो मुने ॥सर्वान्संवीक्ष्य शुक्रेण बलौ दृष्टा गुणास्तथा ॥१६१॥बलिदेहेऽधिकान्दृष्ट्वा दैत्येभ्यो विनिवेदिताः ॥बलिर्गुणाधिको दैत्याः कथं कार्यं भवेन्मया ॥१६२॥केनापि दैवयोगेन बलिरिंद्रो भविष्यति ॥यादृशस्तु पिता लोके तादृशस्तु सुतो भवेत् ॥१६३॥पौत्रश्च निश्चितं तादृग्भवतीति न चेत्सुतः ॥प्रह्लादस्तु महायोगी वैष्णवो विष्णुवल्लभः ॥१६४॥तस्माद्विरोचने केचिद्धिरण्यकशिपोर्गुणाः ॥ज्येष्ठो विरोचनो राज्ये यदि चेत्क्रियतेऽसुराः ॥नरसिंहः समागत्य निश्चितं मारयिष्यति ॥१६५॥मुक्तं विरोचनेनापि राज्यं मरणभीरुणा ॥प्रह्लादस्य गुणाः सर्वे बलिदेहे व्यवस्थिताः ॥१६६॥एवं ते समयं कृत्वा बलिं राज्येऽभ्यषिंचय न् ॥यः प्रह्लादः स वै विष्णुर्यो विष्णुः स बलिः स्वयम् ॥१६७॥अतो मित्रीकृतो देवैर्विग्रहैस्तु विवर्जितः ॥एकीभावं कृतं सर्वं बलिराज्ये सुरासुरैः ॥१६८॥तस्यापि भाषितं श्रुत्वा देवेंद्रो मम मंदिरे ॥समागता वालखिल्याः शप्तोहं वामनः कृतः ॥१६९॥प्रसाद्य ते मया प्रोक्ताः शापमुक्तिप्रदा मम ॥भविष्यतीति तैरुक्तं बलिनिग्रहणादनु ॥१७०॥तवापि कौतुकं युद्धे बलिर्यज्ञं करोति च ॥देवानां निग्रहो नास्ति सर्वे यज्ञे समागताः ॥१७१॥स मां यजति यज्ञेन वधं तस्य करोतु कः ॥अहं च वामनो जातो नारदः कौतुकान्वितः ॥१७२॥विपरीतमिदं सर्वं वर्त्तते मम चेतसि ॥तथाऽपि क्रमयोगेन सर्वं भव्यं करोम्यहम् ॥१७३॥ ॥नारद उवाच॥प्रसादं कुरु देवेश युद्धार्थं कौतुकं मम ॥एकेन ब्राह्मणेनाजौ हन्यंते क्षत्रिया यदा ॥पित्रा प्रोक्तं च मे पूर्वं तदा युद्धं भविष्यति ॥१७४॥ब्राह्मणोसि भवाञ्जातः कदा युद्धं करिष्यसि ॥विहस्य वामनो ब्रूते सत्यं तव भविष्यति ॥१७५॥जमदग्निसुतो भूत्वा गुरुं कृत्वा महेश्वरम्॥कार्त्तवीर्यं वधिष्यामि बहुभिः क्षत्रियैः सह ॥१७६॥समंतपंचके पंच करिष्ये रुधिरह्रदान् ॥तत्राहं तर्पयिष्यामि पितॄनथ पितामहान् ॥१७७॥पुण्यक्षेत्रं करिष्यामि भवांस्तत्रागमिष्य ति ॥परं च कौतुकं युद्धे भविष्यति तव प्रियम् ॥१७८॥ब्राह्मणेभ्यो ग्रहीष्यंति यदा कुं क्षत्रियाः पुनः ॥तदैव तान्हनिष्यामि पुनर्दा स्यामि मेदिनीम् ॥१७९॥त्रिसप्तवारं दास्यामि जित्वा जित्वा वसुंधराम् ॥शस्त्रन्यासं करिष्यामि निर्विण्णो युद्धकर्मणि ॥विहरिष्यामि रम्येषु वनेषु गिरिसानुषु ॥१८०॥लंकायां रावणो राज्यं करिष्यति महाबलः ॥त्रैलोक्यकंटकं नाम यदासौ धारयिष्यति ॥१८१॥तदा दाशरथी रामः कौसल्यानंदवर्द्धनः ॥भविष्ये भ्रातृभिः सार्द्धं गमिष्ये यज्ञमंडपे ॥१८२॥ताडकां ताडयित्वाहं सुबाहुं यज्ञमंदिरे ॥नीत्वा यज्ञाद्गमिष्यामि सीतायास्तु स्वयंवरे ॥१८३॥परिणेष्याभि तां सीतां भंक्त्वा माहेश्वरं धनुः ॥त्यक्त्वा राज्यं गमिष्यामि वने वर्षांश्चतुर्दश ॥१८४॥सीताहरणजं दुःखं प्रथमं मे भविष्यति ॥नासाकर्णविहीनां तां करिष्ये राक्षसीं वने ॥१८५॥चतुर्द्दशसहस्राणि त्रिशिरःखरदूषणान् ॥द्हत्वा हनिष्ये मारीचं राक्षसं मृगरूपिणम् ॥१८६॥हृतदारो गमिष्यामि दग्ध्वा गृध्रं जटायुषम् ॥सुग्रीवेण समं मैत्रीं कृत्वा हत्वाऽथ वालिनम् ॥१८७॥समुद्रं बंधयिष्यामि नलप्रमुखवानरैः ॥लंकां संवेष्टयिष्यामि मारयिष्यामि राक्षसान् ॥१८८॥कुम्भकर्णं निहत्याजौ मेघनादं ततो रणे ॥निहत्य रावणं रक्षः पश्यतां सर्वरक्षसाम् ॥१८९॥विभीषणाय दास्यामि लंकां देवविनिर्मिताम्॥अयोध्यां पुनरागत्य कृत्वा राज्यमकंटकम् ॥२१९०॥कालदुर्वाससोश्चित्रचरित्रेणामरावतीम् ॥यास्येहं भ्रातृभिः सार्द्धं राज्यं पुत्रे निवेद्य च ॥१९१॥द्वापरे समनुप्राप्ते क्षत्रियैर्बहुभिर्मही॥भाराक्रांता न शक्नोति पातालं गंतुमुद्यता ॥१९२॥मथुरायां तदा कर्त्ता कंसो राज्यं महासुरः ॥शिशुपालजरासंधौ कालनेमिर्महासुरः ॥१९३॥पौंड्रको वासुदेवश्च बाणो राजा महासुरः ॥गजवाजितुरंगाढ्या वध्यंते मे तदा मुने ॥१९४॥कलौ स्वल्पोदका मेघा अल्पदुग्धाश्च धेनवः ॥दुग्धे घृतं न चैवास्ति नास्ति सत्यं जनेषु च ॥१९५॥चोरैरुपहता लोका व्याधिभिः परिपीडिताः ॥त्रातारं नाभि गच्छंति युद्धावस्थां गता अपि ॥१९६॥क्षुद्राः पश्चिमवाहिन्यो नद्यः शुष्यंति कार्त्तिके ॥एकादशीव्रतं नास्ति कृष्णा या च चतुर्द्दशी ॥१९७॥न जानाति जनः कश्चिद्विक्रांतमपि स्वे गृहे ॥दरिद्रोपहतं सर्वं संध्यास्नानविवर्जितम् ॥भविष्यति कलौ सर्वं न तत्पूर्वयुगत्रये ॥१९८॥पितरं मातरं पुत्रस्त्यक्त्वा भार्यां निषेवते ॥न गुरुः स्वजनः कश्चित्कोऽपि कं नानुसेवते ॥१९९॥यथायथा कलिर्व्याप्तिं करोति धरणीतले ॥तथातथा जनः सर्व एकाकारो भविष्यति ॥२००॥म्लेच्छैरुपहतं सर्वं संध्यास्नानविवर्जितम्॥कल्किरित्यभिविख्यातो भविष्ये ब्राह्मणो ह्यहम् ॥२०१॥म्लेच्छानां छेदनं कृत्वा याज्ञवल्यपुरोहितः ॥बहुस्वर्णेन यज्ञेन यक्ष्ये निष्कृतिकारणात् ॥२०२॥भविष्यंत्यवतारा मे युद्धं तेषु भविष्यति ॥इदानीं बलिना युद्धं करिष्यंति न देवताः ॥२०३॥स मां यजति दैत्येन्द्रो न मे वध्यो बलिर्भवेत् ॥सर्वस्वदाननियमं करोति स महाध्वरे ॥ ॥२०४॥ ॥सारस्वत उवाच॥इत्युक्त्वा नारदं देवो विसृज्य तमथाभ्यगात् ॥द्रष्टुं बलिकृतं यज्ञं देवकार्यप्रसिद्धये ॥२०५॥वामनो नगरं गत्वा वीक्षमाणो गृहाद्गृहम् ॥ब्राह्मणानां गृहं गत्वा भोजनं स तु याचते ॥२०६॥नित्यं स्नानपरो विप्रो वेदाध्ययनतत्परः ॥वामनो लभते भिक्षां भोजनं द्विजमंदिरे ॥२०७॥चतुष्पथेषु रम्येषु देवतायतनेषु च ॥आस्ते परिवृतो लोकैश्चालयन्विपुलां कटिम् ॥२०८॥शिरो विधूनते स्थूलं स्थूलस्कन्धो महाहनुः ॥नृत्यते तालमानेन गायत्यतिमनोहरम् ॥२०९॥वेदानधीते चतुरो वामनो द्विजसंसदि ॥दैत्यानां तनयाः सर्वे ब्राह्मणानां तथैव च ॥२१०॥वामनं पर्युपासंते दिवारात्रं मनोरमम् ॥अथ तैः सकलैर्नीतो वामनो यज्ञमंडपे ॥२११॥निश्चितं मठिकास्थानं याचितव्यो बलिस्त्वया ॥तदास्माकं महच्छ्रेयो देशस्य नगरस्य च ॥२१२॥विज्ञप्तो वामनः सर्वैर्दैत्यद्विजकुमारकैः ॥वामन वस्तव्यं दैत्येंद्रनगरे सदा ॥२१३॥ ॥सारस्वत उवाच॥प्रविवेश तथेत्युक्त्वा वामनो यज्ञमंडपे ॥ततः कोलाहलो जातो द्वाःस्थैर्द्वारि कृतो महान् ॥२१४॥ब्राह्मणैर्बहुभिः सार्द्धं वेदानुच्चारयन्स्थितः ॥ततो वेदध्वनिर्जातो महान्वै यज्ञमंडप्रे ॥२१५॥प्रविष्टौ प्रथमं दैत्यौ दैत्याय विनिवेदितः ॥द्रष्टुं समागतो देव ब्राह्मणो वामनोऽध्वरे ॥२१६॥भवंतं कौतुकात्तावद्द्वारदेशे समाविशत् ॥एक एव यथायाति वामनस्तव सन्निधौ ॥२१७॥निरीहो वामनो देव यावत्तत्रैव किंचन ॥वेदानां तु ध्वनिं कृत्वा चतुर्णामेकवक्त्रतः ॥२१८॥बलिर्हृष्टोऽब्रवीद्वाक्यं द्वाःस्थमेनं प्रवेशय ॥पूजयिष्यामि विप्रेद्रं दास्ये चास्य यदीप्सितम् ॥२१९॥स्मरामि स्मृतिवाक्यानि यानि प्राह गुरुर्मम ॥किंचिद्वेदमयं पात्रं किंचित्पात्रं तपोमयम् ॥२२०॥आगमिष्यति यत्पात्रं तत्पात्रं तारयिष्यति ॥यज्ञे प्रवर्त्तमाने तु दातव्या दक्षिणा मया ॥२२१॥वामनो न विचार्यस्तु सत्यमस्तु वचो मम ॥इति श्रुत्वा गुरुः शुक्रो वारयामास तं बलिम् ॥२२२॥शुक्र उवाच॥द्वारि पूज्या द्विजाः सवें दीनांध कृपणादयः ॥बधिरा वामनाः कुब्जा रोगिणो ये तु निष्ठुराः ॥२२३॥सुवर्णरजतैर्वस्त्रैर्वामनो द्वारि पूज्यताम् ॥चतुर्णां तु वृथा जन्म वृथा दानानि षोडश ॥२२४॥अपुत्राणां वृथा जन्म ये च धर्मबहिष्कृताः ॥परपाकं च येश्नंति परदाररताश्च ये ॥२२५॥अन्यायेनार्जितं वित्तं न देयं श्रेय इच्छता ॥व्यर्थमब्राह्मणे दानमारूढपतिते तथा ॥२२६॥संध्याहीने द्विजे नष्टे पतिते तस्करे तथा ॥गुरोश्चाप्रीतिजनके पितृमातृपराङ्मुखे ॥ ॥२२७॥ब्रह्मबन्धौ च यद्दतं यद्दत्तं वृषलीपतौ ॥वेदविक्रयके चैव कृतघ्ने ग्रामयाजके ॥२२८॥स्त्रीनिर्जिते च यद्दत्तं व्यालग्राहे तथैव च ॥परिवारेषु यद्दत्तं वृथा दानानि षोडश ॥२२९॥ ॥सारस्वत उवाच॥अत्रांतरे बलिर्ब्रूते नैवं वाच्यं त्वया गुरो ॥वेदानधीते यः कश्चित्स मे विष्णुः समागतः ॥२३०॥न विलंबस्तु कर्त्तव्यः श्रोत्रिये गृहमागते ॥अभ्युत्थानेन वचसा पादप्रक्षालनेन च ॥२३१॥यथा शक्त्या प्रदातव्यं भोजनं गृहमेधिना ॥अपूजितो यदा याति वामनो मंडपाद्बहिः ॥२३२॥तदायं व्यर्थतां याति यज्ञः सर्वस्वदक्षिणः ॥अत्रांतरे समानीतो वामनो बलिसंनिधौ ॥२३३॥आयांतं ददृशे दैत्यो वामनं विष्णुरूपिणम् ॥जाज्वल्यमानं वपुषा पिंगलं सूर्यसंनिभम् ॥२३४॥उत्थायाभिमुखः प्रायान्नमस्कृत्याग्रतः स्थितः ॥धन्योऽहं यस्य मे यज्ञे प्राप्तो विष्णुसमो द्विजः ॥२३५॥वेदिमध्ये समानीतो ददौ तस्यासनं बलिः ॥पाद्यमाचमनीयं च दत्त्वार्घ्यं विष्टरं बलिः ॥श्रीखंडगंधपुष्पाद्यैः पूजयित्वाग्रतः स्थितः ॥२३६॥मधुपर्कं च गां तस्मै सत्वरं स निवेद्य च ॥आघ्राते मधुपर्के च वामनेन ततः परम् ॥२३७॥स्वागतं बलिना प्रोक्तं स्वस्तीत्युक्तं द्विजन्मना ॥अहमर्थी समायातो दीयतां वद किं विभो ॥२३८॥मेदिनीं देहि मे दैत्य कियन्मात्रां द्विजोत्तम ॥वासार्थं मम दैत्येन्द्र दीयतां मे क्रम त्रयम् ॥२३९॥विधाय मठिकां दिव्यां शिष्यानध्यापयाम्यहम् ॥दत्तं क्रमत्रयं तुभ्यं गृहीतं वामनोऽब्रवीत् ॥२४०॥मा देहीत्यवदच्छुक्रो विष्णुरेव सनातनः ॥हृष्टो ब्रूते बलिः शुक्रं पात्रं स्यात्किमतः परम् ॥२४१॥सव्यं कृत्वा बलिर्दर्भान्साक्षतान्दक्षिणे करे ॥प्रयोगं न गुरुश्चक्रे न मुंचति जलं करे ॥२४२॥विस्मिता ऋषयः सर्वे होतारो ये सभासदः ॥ब्राह्मणा बटवो दैत्या भार्यापुत्राश्च बांधवाः ॥२४३॥दत्तं गृहीतमित्युक्ते कस्मात्तोयं न मुञ्चति ॥वामनाय करे तोयं विवेकाय प्रदीयते ॥२४४॥यद्दानं वचसा दत्तं कर्मणा नोपपाद्यते ॥विधाय नरके पूये यजमानं न निष्कृतिः ॥२४५॥उशना प्राह दैत्येन्द्र वामनो हरिरित्ययम् ॥केनापि दैवयोगेन त्वां द्रष्टुं समुपागतः ॥२४६॥अप्रियं वा प्रियं वापि न जाने किं करिष्यति ॥बभाषे भार्गवं यष्टा श्रूयतां वचनं गुरो ॥२४७॥प्रोच्यते दानकालेषु यजमानैर्द्विजैरपि ॥अहमिन्द्रो द्विजो विष्णुर्द्रव्यमादित्यदेवता ॥तत्कथं न मया देयं विष्णवे प्रीयतामिति ॥२४८॥इत्युक्त्वा स ददौ तोयं वामनाय करे बलिः ॥ततः किमिदमित्युक्त्वा संस्थितो मण्डपाद्बहिः ॥२४९॥मध्येऽपि वामनो विप्रो बलिमात्रो वभूव सः ॥दत्तहस्तोऽसुरेन्द्रेण ग्रहीतुं तु पदत्रयम् ॥२२५०॥यजमानद्विजौ हष्टौ दृष्टौ यज्ञे सुरादिभिः ॥ववृधे वामनोतीव कृत्वा रूपं चतुर्भुजम् ॥२५१॥नारदोऽपि समायातो बभाषे कि कृतं बले ॥शिष्याभ्यां सहितो हृष्टो नरीनर्ति पुरः स्थितः ॥२५२॥गृहाण दक्षिणां देव सभार्यो भाषते बलिः ॥अद्य किं न मया प्राप्तं यद्गृह्णाति जनार्द्दनः ॥ ॥२५३॥सार्द्धक्रमक्षयं कृत्वा धरणीं याचते त्रयम् ॥यदस्ति तेन कर्तव्यः सन्तोषो मधुसूदन ॥२५४॥वर्द्धमानं हरिं दृष्ट्वा ब्राह्मणा ऋषयः सुराः ॥तुष्टुवुर्गगने यांतं भगवंतं जनार्द्दनम् ॥२५५॥ ॥देवर्षय ऊचुः॥जय देव जयानन्त जय विष्णो जयाऽच्युत ॥जय मत्स्य नमस्तुभ्यं जय कूर्म धराधर ॥२५६॥वराहाय नमस्तुभ्यं नरसिंह नमोनमः ॥जामदग्न्य नमस्तुभ्यं जय राम सलक्ष्मण ॥२५७॥जय कृष्ण जगन्नाथ जय देवकिनन्दन ॥नमामि बुद्धं कृष्णं च कल्किनं प्रणमाम्यहम् ॥२५८॥ ॥सारस्वत उवाच॥नरीनर्ति तथा स्तौति नारदो गगनं गतः ॥योगिनः सनकाद्या ये स्तुवंति च जनार्दनम् ॥२५९॥अन्तरिक्षे गते कृष्णे वर्द्धमाने बलेः पुरः ॥ऊर्ध्ववक्त्राः स्थिताः सर्वे निरी क्षन्ते दिवाकरम् ॥२६०॥दृष्टच्छत्राकृतिस्तावत्पश्चादूर्ध्वं गतो हरिः ॥चूडामणिरिवाभाति भास्करो हरिमस्तके ॥२६१॥दैत्यैर्निरीक्षितः सम्यग्ललाटे तिलकायते ॥हरिः संवर्द्धते यावत्कर्णेऽसौ कुण्डलायते ॥२६२॥वर्द्धमानस्य च हरेर्हृदये कौस्तुभायते ॥इंद्राद्या देवता रुद्रा वसवो गगने स्थिताः ॥२६३॥ऊर्ध्वं पुनर्यत्र हरिर्न तत्र गगनं मतम् ॥वनमाला तदा कण्ठे वासवेन निवेशिता ॥२६४॥पृथिवी कम्पते सर्वा दिविस्थं सूर्यमण्डलम् ॥किं भविष्यति दैत्यास्ते भीताः पश्यंति भास्करम् ॥२६५॥नाभौ पद्मायते सूर्यः कटौ च रशनायते ॥एवं संवर्द्धितो विष्णुर्जगृहे च पदद्वयम् ॥२६६॥स्थानं नास्ति तृतीयस्य ब्रह्मांडं सकलं कृतम् ॥अहर्दण्डो जगत्स्रष्टा ब्रह्मदंडायते तदा ॥२६७॥देवदानव गंधर्वमनुष्योरगपन्नगैः ॥पूज्यते चरणो विष्णोः स्तूयते चानुमीयते ॥२६८॥धर्मात्मा यतदण्डो हि गंधर्वैर्गीयते मुहुः ॥ज्योतिश्चक्राक्षदंडः किं हरिणा निर्मितः स्वयम् ॥२६९॥जित्वेदं भुवनं गंगा ध्वजदंडोऽमरैः कृतः ॥त्रिविक्रमांघ्रिदण्डोऽयं कीर्तिदंडायते ध्रुवम् ॥२७०॥वेगेनाक्षिप्य हरिणा नीतो ब्रह्मांडमस्तके ॥पादस्तन्मस्तकं भित्त्वा बहिर्यास्यति वेगतः ॥२७१॥तावद्ब्रह्मांडवेगोऽयं विराडिति हि संज्ञितः ॥स सर्व बीजरूपो हि परमात्मेति गद्यते ॥२७२॥तेनेदं सकलं जातं पादस्याग्रे व्यवस्थितम्॥ब्रह्मांडभेदनं कृत्वा न गन्तव्यं बहिस्त्वया ॥२७३॥तेनैव सह ब्रह्मांडे पफाल चरणो हरेः ॥ब्रह्मांडं जर्जरं जातं पादसंकोचनादपि ॥२७४॥भिन्ने तस्मिन्समायातं ब्राह्मं तोयं जगत्त्रये ॥विष्णुपादोद्भवा गंगा मस्तकान्निःसृता तदा ॥२७५॥त्रैलोक्यप्लाविनी देवी या रुद्रेण स्वयं धृता ॥स्वर्धुनी पूज्यते स्वर्गे गंगेति गां गता सती ॥ ॥२७६॥पाताले सा यदा प्राप्ता ख्याता त्रिपथगैव सा ॥यस्याः स्मरणमात्रेण सर्वपापक्षयो भवेत् ॥२७७॥दर्शनादश्वमेधस्य संपूर्णस्य फलं लभेत् ॥स्नानमात्रेण नश्येत सप्तजन्मकृतं त्वघम् ॥२७८॥स्नात्वा संपूजयेद्यस्तु देवौ हरिहरौ नरः ॥इन्द्रलोकमतिक्रम्य विष्णुलोके महीयते ॥ ॥२७९॥विष्णुपादोदकं पीत्वा ज्ञात्वा तत्त्वानि संयमी ॥उपोष्य दिवसं विष्णोर्मुक्तिं गच्छति देहवान् ॥२८०॥शुद्धस्वभावसत्त्वस्था विरक्ता जन्मभूमिषु ॥संसारबंधनं छित्त्वा याति ते परमां गतिम् ॥२८१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये बलिनिग्रहवृत्तांतवर्णनंनामाष्टादशोऽध्यायः ॥१८॥ N/A References : N/A Last Updated : January 14, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP