संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे वस्त्रापथक्षेत्र माहात्म्यम्| अध्याय १५ प्रभासखण्डे वस्त्रापथक्षेत्र माहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ विषयानुक्रमणिका वस्त्रापथक्षेत्र माहात्म्यम् - अध्याय १५ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १५ Translation - भाषांतर ॥सारस्वत उवाच॥अथासौ वामनो विप्रो लब्धज्ञानो भवार्चने ॥जगाम तद्वनं रम्यं गिरे रैवतकस्य यत् ॥१॥यत्र वृक्षा बहुविधा दीर्घशाखाः फलान्विताः ॥वटोदुम्बरबिल्वाश्च सर्जार्जुनकदंबकाः ॥२॥पलाशाश्वत्थनिंबाश्च धवाटीवारुणीद्रुमाः ॥शमीकंकोललिंबांश्च बीजपूरी च दाडिमः ॥३॥बदरी निंबकः पूगः कदली शल्लकी शिवा॥तालहिंतालशिरसा बीजकावंशखादिराः ॥४॥अजगासनगागुच्छा इंगुदीकोरवेंगुदाः ॥ब्रह्मवृक्षाः कुरुबकाः करंजाः पुत्रजीविनः॥५॥अंकोल्लाः पारिभद्राश्च कलंबाः पनसास्तथा ॥उज्ज्वलाश्च हरिद्राश्च गंगडीवायवा द्रुमाः ॥६॥तेसुण्डकाः शिरीषाश्च खर्जूरीकरवंदिकाः॥सेवाली शाल्मली शाला मधूकाश्च विभीतकाः ॥७॥हरीतक्यः कटाहाश्च कर्यष्टा आटरूषकाः ॥विकच्छवः कपित्थाश्च रोहिणीवेत्रकद्रुमाः ॥८॥मदनफलानिर्गुण्डीपाटलानंदिपादपाः ॥लवंगैलालवल्यश्च सन्ताना अगरुद्रुमाः ॥९॥श्रीखण्डकर्पूरनगाः कल्पवृक्षा नगोतमाः ॥वामनेन तदा दृष्टाश्छायावृक्षाः सुरार्चिताः ॥..5.१०॥उदयास्तमने येषां छाया न प्रतिहन्यते ॥तेषां दर्शनमात्रेण सर्वपापक्षयो भवेत् ॥११॥ये जनाः पुण्यकर्माणस्तेषां ते दृष्टिगोचराः ॥एतान्पश्यन्ययौ वृक्षांस्ततो रैवतकं गिरिम् ॥१२॥यावन्निरीक्षते तुंगं शिखरं तस्य मूर्द्धनि ॥आश्चर्यं ददृशे विप्रो महल्लोकभयंकरम् ॥१३॥धूमज्वलनमध्यस्थान्पुरुषान्पंच पश्यति ॥कृष्णांगान्खेचरान्रौद्रान्कृष्णागुरुविभूषितान् ॥१४॥सारमेय समारूढान्करिहस्तान्समेखलान् ॥खङ्गखेटकहस्तांश्च डमरुड्डामरस्वनान्॥।३५।सघर्घरीकचरणन्यासनादितपर्वतान् ॥फेत्कारभासुराकारान्काशकुञ्चितमूर्द्धजान् ॥१६॥नरमांसवसासारकवलव्यग्रतालुकान् ॥जनगंधसमाज्ञानभवतीव्रविलोचनान् ॥१७॥पञ्चाग्निसाधनाव्याप्तदिव्यचक्षुः प्रभावतः ॥देवान्पश्यति विप्रेन्द्रो ज्ञातकार्यपरंपरः ॥१८॥एते क्षेत्राधिपाः पञ्च महादेवेन निर्मिताः ॥महाबला रैवतके निवसंति गिरौ सदा ॥ ॥१९॥स्वेच्छाचारान्नरान्मर्त्त्यान्वारयति नगे तथा ॥हरिं हरं नदीं देवीं न पश्यंति गिरिं यथा ॥..5.२०॥दृष्ट्वा ज्ञात्वा स्तुतिं चक्रे ध्यात्वा देवं महेश्वरम् ॥जयंति दुष्टदैत्येंद्रयुद्धध्यानांकितं वपुः ॥बिभ्रति भ्रातरो ये ते पंचेंद्रसमविक्रमाः ॥२१॥रुद्रवक्त्रोद्भवा दक्षा दक्षाध्वरविनाशकाः ॥स्वावलीढाहुतीनष्टभीतवाडवनंदिताः ॥२२॥कुङ्कुमागरुकर्पूरलिप्तांगाः सुविभूषिताः ॥मदिरामोदमत्तांगनृत्यगीतकराः सुराः ॥२३॥ब्रह्मांडभ्रमणश्रांत स्वगंधत्रस्तसंचराः ॥मनोजवाः कामगमा क्षेत्रपाला जयंति ते ॥२४॥इत्यादिवचनात्तुष्टा द्विजस्याग्रे स्वयं स्थिताः ॥एकपादोऽस्म्यहं चैको द्वितीयो गिरिदारुणः ॥२५॥तृतीयो मेघनादस्तु सिंहनादश्चतुर्थकः ॥पंचमः कालमेघोऽहं कुर्मः किं ते वदस्व तत् ॥२६॥॥ ॥द्विज उवाच॥यदि तुष्टा भवंतो मे यदि देयो वरो धुवम् ॥अहो आप्रलयं यावत्स्थातव्यं मत्प्रतिष्ठितैः ॥२७॥एकपादो गिरि तटे प्रहर्षात्प्रथमं स्थितः ॥वसतौ वसता तेन गिरौ च गिरिदारुणः ॥२८॥प्रतिष्ठितः प्रसाद्याथ वरदोऽसौ स्वयं स्थितः ॥उज्जयंतगिरेर्मूर्ध्नि मेघनादः स्वयं ययौ ॥२९॥भवानीशंकरं रम्यं सिंहनादस्तथाविशत् ॥स्वयं वस्त्रापथेनैव भवस्याग्रे निरूपितः ॥..5.३०॥स्वणरेखानदीतीरे कालमेघो महाबलः ॥सर्वलोकोपकारार्थं तीर्थं संस्थापितं पुरा ॥३१॥वामनेन स्वयं गत्वा क्षेत्रपालास्तु पूजिताः ॥पुरा युगादौ राजेंद्र सर्वे देवाः समागताः ॥३२॥सुराष्ट्रदेशे संप्राप्ताः पुण्ये रैवतके गिरौ ॥रक्षार्थं सर्वलोकानां वधार्थं देववैरिणाम् ॥३३॥विष्णोः कण्ठे तदा मुक्ता जयमाला सुरोत्तमैः ॥दामोदरेति विख्यातं दत्तं नामोत्तमं हरेः ॥३४॥तत्रादौ कार्तिके शुक्ले वासरे विष्णुवल्लभे ॥उपोष्य सहिते देवैस्तत्तीर्थं विष्णुना कृतम् ॥३५॥सर्वतीर्थमयी पुण्या स्वर्णरेखा नदी स्थिता ॥भुक्तिमुक्तिप्रदं पुण्यं विष्णुलोकप्रदायकम् ॥३६॥क्षालनं सर्वपापानां रोगदारिद्र्यनाशनम् ॥दामोदरं रैवतके परमानंददायकम् ॥३७॥ये पश्यंति विमानैस्ते नीयंते विष्णुमंदिरे ॥न गृहे कार्तिकः कार्यो विशेषाद्भीष्मपंचकम् ॥३८॥पंचकाद्द्वादशी श्रेष्ठा कार्या दामोदरे जले ॥प्रातःस्नानं प्रकर्त्तव्यं संप्राप्ते कार्तिके जनैः ॥३९॥मासोपवासः कर्त्तव्यो यतिभिर्ब्रह्मचारिभिः ॥सतीभिर्विधवाभिश्च मुक्तिस्थानमभीप्सुभिः ॥..5.४०॥एकभक्तेन नक्तेन तथैवायाचितेन च ॥उपवासेवन कृच्छ्रेण शाकाहारेण वा पुनः ॥४१॥संसेव्यः कार्त्तिके विष्णुर्दीपदानपरैर्नरैः ॥ब्रह्मचर्यपरैर्मासो नीयते यदि मानवैः ॥४२॥तदा विष्णुपुरे वासः क्रियते विष्णुना सह ॥पञ्चोपवासाः कर्त्तव्याः संप्राप्ते भीष्मपंचके ॥४३॥एकादशीं समारभ्य पंचमी पूर्णिमादिनम्॥तदेतत्पंचकं प्रोक्तं सर्वपापहरं नृणाम् ॥४४॥सर्वेषामपि मासानां पञ्चकात्कार्तिकादपि ॥एकादशी कार्तिकस्य पुण्या दामोदरे कृता ॥४५॥मिष्टान्नं कार्तिके देयं हविष्यं सघृतप्लुतम्॥सुवर्णं रजतं वस्त्रं तोयमन्नं फलानि च ॥४६॥मासांते विविधं देयं गौस्तिलाः कुसुमानि च ॥सर्वदानेषु यत्पुण्यं सर्व तीर्थेषु यत्फलम् ॥४७॥अश्वमेधादिभिर्यज्ञैर्गयायां पिंडदस्य यत् ॥तत्फलं जायते नॄणां दृष्टे दामोदरे नृप ॥४८॥एकादश्यां कृतस्नानो देव पूजापरो भवेत् ॥स्नाप्य पञ्चामृतेनैव ततस्तीर्थोदकेन च ॥४९॥कुंकुमागरुश्रीखंडकर्पूरोदकमिश्रितैः ॥पूजयित्वा ततः पुष्पैः शतपत्रैः सुगं धिभिः ॥..5.५०॥मालतीकुसुमैः शुभ्रैर्बहुभिस्तुलसीदलैः ॥वस्त्रयज्ञोपवीतं च दत्त्वा धूपं प्रधूपयेत्॥५१॥दीपं दद्याद्धृतेनैव तैलेनापि घृतं विना॥नैवेद्यं विविधं देयं फलं तांबूलमेव च ॥५२॥प्रासादपूजा कर्त्तव्या ध्वजदानादिना नृप ॥गौः सवत्सा ततो देया संसारार्णवतारिणी ॥५३॥ततः प्रदक्षिणां कृत्वा गीतवादित्रनिस्वनैः ॥वेदपाठपुराणैश्च व्याख्यादिव्यकथादिभिः ॥५४॥देवाग्रे जागरः कार्यो दीपो देयोंऽतिभूमिषु ॥सप्तधान्यमयाः सप्त पर्वता दीपसंयुताः ॥५५॥फलतांबूलपक्वान्नपूरिताः परिकल्पिताः ॥विद्वद्भिः श्रोत्रियैः श्रांतैर्ब्राह्मणैर्गृहमेधिभिः ॥५६॥स्त्रीभिश्च नरशार्दूल श्रोतव्या वैष्णवी कथा ॥एवं जागरणं कार्यं रागक्रोधविवर्जितैः ॥५७॥कृत्वा जागरणं रात्रावुदिते सूर्यमडले ॥पूर्वां संध्यां ततः स्नात्वा कृत्वा मध्याह्नमाचरेत्॥५८॥देवान्पितॄन्मनुष्यांश्च संतर्प्य विधिपूर्वकम्॥कृत्वा श्राद्धं पितॄणां तु दद्याद्दानं स्वशक्तितः ॥५९॥देवं दामोदरं पूज्य पुष्पधूपादिना पुनः ॥नरसिंहं सुरं पूज्य वैनतेयं च पूजयेत् ॥..5.६०॥कृत्वा जागरणं रात्रावुत्थाप्य मधुसूदनम् ॥द्वादशीभुक्तिमासाद्य कार्यं पारणकं नरैः ॥६१॥ब्राह्मणान्भोजयित्वा च सहितः पुत्रबांधवैः ॥विकलांधकृपणानां देयमन्नं स्वशक्तितः ॥६२॥दामोदरे रैवतके स्वर्णरेखानदीजले ॥एवं यः कुरुते यात्रां तस्य पुण्यफलं शृणु ॥६३॥ब्रह्मघ्नश्च सुरापश्च ग्रामसीमाविलोपकः ॥राजद्रोही गुरुद्रोही मिथ्याव्रतधरश्च यः ॥६४॥कूटसाक्ष्यप्रदो यश्च यश्च न्यासापहारकः ॥बालस्त्रीघातको विप्रः संध्यास्नानविवर्जितः ॥६५॥देवब्रह्म स्वहर्त्ता च वेदविक्रयकारकः ॥कन्याविक्रयकर्त्ता च देवब्राह्मणनिंदकः ॥६६॥विश्वासघातको विप्रः शूद्रान्नादोऽथ लुब्धकः ॥नायकः परदाराणां स्वयंदत्तापहारकः ॥६७॥पर्वमैथुनसेवी च तथा वै सेतुभेदकः ॥परिणीतामृतुस्नातां स्वयं यो नाभिगच्छति ॥६८॥ब्राह्मणी विधवा बाला न भवेच्छ्रुतधारिणी ॥महापातकिनश्चैते तथान्ये बहवो नृप ॥६९॥स्वर्णरेखाजले स्नात्वा दृष्ट्वा दामोदरं हरिम् ॥रात्रौ जागरणं कृत्वा मुच्यते सर्वपातकैः ॥..5.७०॥न तु ये पापकर्माणः समायाताः प्रजागरे ॥संसारसागरे तीर्थे गच्छंति न हरेः पुरम् ॥७१॥यथा यथा याति नरः प्रजागरे तथातथा विष्णुपुरे विचिंत्यते ॥वासः सुरैर्वैष्णवलोकहेतवे मृदंगगीतध्वनिनादिते गृहे ॥७२॥गदासि शंखारिधराश्चतुर्भुजा दैतेयदर्पापहरूपधारिणः ॥प्रगीयमानाः सुरसुंदरीभिस्ते यांति खं खेचरगात्रसंगाः ॥७३॥वाराहकल्पे प्रथमं युगादौ दामोदरो रैवतके प्रसिद्धः ॥सैषा नदी या सरितां वरिष्ठा सोऽयं हरिर्यो भुवनस्य कर्ता ॥७४॥इदं पुराणं पठते शृणोति नरो विमानैर्मधुसूद नालये ॥देवांगनादत्तभुजश्चतुर्भुजः स नीयते देवगणैरभिष्टुतः ॥७५॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये सारस्वतप्रोक्ततीर्थयात्राविधाने श्रीदामोदरमाहात्म्यवर्णनंनाम पंचदशोऽध्यायः ॥१५॥ N/A References : N/A Last Updated : January 14, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP