संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे वस्त्रापथक्षेत्र माहात्म्यम्| अध्याय १२ प्रभासखण्डे वस्त्रापथक्षेत्र माहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ विषयानुक्रमणिका वस्त्रापथक्षेत्र माहात्म्यम् - अध्याय १२ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १२ Translation - भाषांतर ॥सारस्वत उवाच॥गंगोदकं मधुघृते कुंकुमागुरुचंद नम् ॥गुग्गुलं बिल्वपत्राणि बकपुष्पं च यो वहेत् ॥१॥पदचारी शुचितनुर्भारं स्कन्धे निधाय च ॥तीर्थे स्नात्वा शिवं विष्णुं ब्रह्माणं शंकरं प्रियम् ॥२॥दृष्ट्वा निवेदयेद्यस्तु स मुक्तः सर्वबन्धनैः ॥स नरो गणतां याति यावदाभूतसंप्लवम् ॥३॥कलत्रमित्रपुत्रैर्वा भ्रातृभिः स्वजनैर्नरैः ॥सहितो वा नरैर्याति तीर्थे देवं विचिंत्य च ॥४॥देवमूर्तिं शुभां कृत्वा रथस्थां सुप्रतिष्ठिताम् ॥चन्दनागुरुकर्पूरैरर्चितां कुंकुमेन च ॥५॥पूजयन्विविधैः पुष्पैर्धूपदीपादिकैर्नृप ॥गीतनृत्यैः सवादित्रैर्हास्यलास्यैरनेकधा ॥६॥धरित्रीं कांचनं गाश्च जलान्नवसनानि च ॥तृणेन्धने प्रियां वाणीं यच्छन्याति नरो यदि ॥७॥देवांगनाकरग्राहगृहीतो नन्दनं वनम् ॥प्राप्य भुंक्ते शुभान्भोगान्यावदाचन्द्रतारकम् ॥८॥तीर्थे संचरितः पुरुषो रोगैः प्राणान्विमुञ्चति ॥अदृष्ट्वा दैवतं तीर्थे दृष्टतीर्थफलं लभेत् ॥९॥संसारदोषान्विविधान्विचिन्त्य स्त्रीपुत्रमित्रेष्वपि बंधमुक्तः ॥विज्ञाय बद्धं पुरुषं प्रधानैः स सर्वतीर्थानि करोति देहम् ॥१०॥आजन्मजन्मांन्तरसंचितानि दग्ध्वा स पापानि नरो नरेन्द्र ॥तेजोमयं सर्वगतं पुराणं भवोद्भवं पश्यति मुच्यते सः ॥११॥तीर्थे विप्रवचो ग्राह्यं स्नात्वा संध्यार्चनादिकम् ॥दर्भास्तिला हविष्यान्नं प्रयोगाः श्रद्धया कृताः ॥१२॥अगस्त्यं भृङ्गराजं च पुष्पं शतदलं शुभम् ॥कर्पूरागुरुश्रीखंडं कुंकुमं तुलसीदलम् ॥१३॥बिल्वप्रमाणपिंडेषु दीपोद्द्योतितभूमिषु ॥तांबूल फलनैवेद्यं तिलदर्भोदकेन च ॥१४॥तीर्थे संकल्पितं मर्त्यैस्तदनंतं प्रजायते ॥अयने विषुवे चैव संक्रांतौ ग्रहणेषु च ॥१५॥मासांतेऽपर पक्षे तु क्षयाहे पितृमातृके ॥गजच्छायां त्रयोदश्यां द्रव्ये प्राप्तौ द्विजोत्तमः ॥१६॥गृहे श्राद्धं प्रकुर्वीत पितॄणामृणमुक्तये ॥गृहाच्छतगुणं नद्यां या नदी याति सागरम् ॥१७॥प्रभासे पुष्करे राजन्गंगायां पिंडतारके ॥प्रयागे नृपगोमत्यां भवदामोदराग्रतः ॥१८॥नर्मदादिषु तीर्थेषु कुर्याच्छ्राद्धं नरो यदि ॥सर्वपापविनिर्मुक्तः पितरो यांति सद्गतिम् ॥१९॥संतानमुत्तमं लब्ध्वा भुक्त्वा भोगाननुत्तमान् ॥दिव्यं विमानमारुह्य प्रान्ते याति सुरालयम् ॥२०॥जातकर्मादियज्ञेषु विवाहे यज्ञकर्मणि ॥देवप्रतिष्ठाप्रारंभे वृद्धिश्राद्धं प्रकल्पयेत् ॥२१॥तृप्यन्ति देवताः सर्वा स्तृप्यंति पितरो नृणाम्॥वृद्धिश्राद्धकृतो गेहे जायते सर्वमंगलम् ॥२२॥कामः क्रोधश्च लोभश्च मोहो मद्यमदादयः ॥माया मात्सर्यपैशुन्यमविवेको विचारणा ॥२३॥अहंकारो यदृच्छा च चापल्यं लौल्यता नृप ॥अत्यायासोप्यनायासः प्रमादो द्रोहसाहसम् ॥२४॥आलस्यं दीर्घसूत्रत्वं परदारोपसेवनम् ॥अल्पाहारो निराहारः शोकश्चौर्यं नृपोत्तम ॥२५॥एतान्दोषान्गृहे नित्यं वर्जयन्यदि वर्तते ॥स नरो मण्डनं भूमेर्देशस्य नगरस्य च ॥२६॥श्रीमान्विद्वान्कुलीनोऽसौ स एव पुरुषोत्तमः ॥सर्वतीर्थाभिषेकश्च नित्यं तस्य प्रजायते ॥२७॥तदा तीर्थफलं सम्यक्त्यक्तदोषस्य जायते ॥स्नानं सन्ध्या जपो होमः पितृदेवर्षितर्पणम् ॥श्राद्धं देवस्य पूजा च त्यक्तदोषस्य जायते ॥२८॥प्रयागे वा कुरुक्षेत्रे सरस्वत्यां च सागरे ॥गयायां वा रुद्रपदे नरनारायणाश्रमे ॥२९॥प्रभासे पुष्करे कृष्णे गोमत्यां पिंडतारके ॥वस्त्रापथे गिरौ पुण्ये तथा दामोदरे नृप ॥३०॥भीमेश्वरे नर्मदायां स्कांदे रामेश्वरादिषु ॥उज्जयिन्यां महाकाले वाराणस्यां च भूर्भुवः ॥३१॥कालिंद्यां मथुरायां च सकृद्याति नरो यदि ॥सदोषो मुच्यते दोषैर्ब्रह्महत्यादिभिः कृतैः ॥३२॥अपि कीटः पतंगो वा पक्षी वा सूकरोऽपि वा ॥खरोष्ट्रकुंजरा वाजिमृगसिंहसरीसृपाः ॥३३॥ज्ञानतोऽज्ञानतो राजंस्तेषु स्था नेषु ये मृताः ॥सर्वे ते पुण्यकर्माणः स्वर्गं भुक्त्वा सुखं बहु ॥३४॥चतुर्वर्णेषु सर्वे ते जायंते कर्मबंधनात् ॥कर्मबंधं विहायाशु मुक्तिं यांति नराः पुनः ॥३५॥मोदंते तीर्थमरणात्स्वर्गभोगावसानतः ॥संप्राप्य भारते खंडे कर्मभूमिं महोदयम् ॥३६॥अनेकाश्चर्यसंयुक्तं बहुपर्वतमंडितम् ॥गंगायाः सरितः सर्वाः समुद्रैः सह संगताः ॥३७॥पदेपदे निधानानि संति तीर्थान्यनेकशः ॥येषां स्मरणमात्रेण सर्वपापक्षयो भवेत् ॥३८॥पातालमार्गा बहवः स्वर्गमार्गश्च दृश्यते ॥गगने दृश्यते सूर्यो हृदये दृश्यते हरः ॥३९॥ध्यानेन ज्ञानयोगेन तपसा वचसा गुरोः ॥सत्येन साहसेनैव दृश्यते भुवनत्रयम् ॥४०॥वेदस्मृतिपुराणैश्च ये न पश्यंति भूतलम् ॥पातालं स्वर्गलोकं च वंचितास्ते नरा इह ॥४१॥ये विरज्यंति न स्त्रीषु कामासक्ता विचेतसः ॥देहोन्यथा वरस्त्रीणामन्यथा तैश्च चिंतितम् ॥४२॥जन्मभूमिषु ते रक्ता जन्यंते जंतवः पुनः ॥मुक्तिमार्गात्पुनर्भ्रष्टा जायंते पशुयोनिषु ॥४३॥धनानि संप्राप्य वराटिकां ये द्विजातिमुख्याय विधाय पूजाम् ॥यच्छंति नो निर्मलचेतना ये नराधमा दैवहता मृतास्ते ॥४४॥देहं सुपुष्टं विजरं च यौवनं लब्ध्वा न गंगादिषु यांति ये नराः ॥माता पिता नो न सुतो न बांधवो भार्या स्वसा नो दुहिता न विद्यते ॥४५॥एकस्तु यो याति कथं न क्लिश्यते मूर्खो न जानाति भवं महेश्वरम् ॥स्नात्वा न पश्यंति हरं महेश्वरं दैवेन ते वै मुषिता नराधमाः ॥४६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये यात्रा विधिवर्णनंनाम द्वादशोऽध्यायः ॥१२॥ N/A References : N/A Last Updated : January 14, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP