वस्त्रापथक्षेत्र माहात्म्यम् - अध्याय ५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि मंगलात्पश्चिमे स्थितम् ॥
गंगास्रोतस्तथा लिंगं सुरार्कं च विशेषतः ॥१॥
तान्गच्छेद्विधिवद्देवि यदि यात्राफलेप्सुता ॥
स्नात्वा पिण्डप्रदानं च कुर्यात्तत्र यथार्थतः ॥
ब्राह्मणेभ्यस्तथा देयमन्नं भूरि सदक्षिणम् ॥२॥
इति ते कथितं मया प्रिये कलिपापौघविनाशनं शुभम् ॥
निखिलं तीर्थमहोदयोदयं पठितं सद्विनिहंति पापसंहतिम् ॥३॥
इदं न देयं दुर्बुद्धेः सुतरां पापनाशनम् ॥
श्रोतव्यं विधिना तद्वद्भविष्योक्तविधानतः ॥४॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये गंगेश्वरमाहात्म्यवर्णनंनाम पंचमोऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : January 14, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP