वस्त्रापथक्षेत्र माहात्म्यम् - अध्याय ६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
अधुना संप्रवक्ष्यामि मंगलात्पश्चिमे व्रजेत् ॥
तत्र सिद्धेश्वरं पश्येत्सर्वसिद्धिप्रदायकम् ॥१॥
तत्रैव चक्रतीर्थं तु तीर्थकोटिफलप्रदम् ॥
लोकेश्वरं स्वयंभूतं पूर्वमिंद्रेश्वरेति च ॥२॥
दृष्ट्वा तं विधिवद्देवि ततो यक्षवनं व्रजेत् ॥
मंगलात्पश्चिमे भागे यत्र देवी स्वयं स्थिता ॥३॥
यक्षेश्वरी महाभागा वांछितार्थप्रदायिनी ॥
तां संपूज्य विधानेन ततो वस्त्रापथं पुनः ॥४॥
गिरिं रैवतकं गत्वा कुर्याद्यात्राविधानतः ॥
मृगीकुंडादितीर्थानि संति तत्रैव कोटिशः ॥५॥
यद्भुक्तिशिखरे देवि सीमालिंगं हि तत्स्मृतम् ॥
दशकोटिस्तु तीर्थानि तत्र संति वरान ने ॥६॥
यत्र वै यादवाः सिद्धाः कलौ ये बुद्धिरूपिणः ॥
शतसहस्रार्बुदं च लिंगं तत्रैव तिष्ठति ॥७॥
गजेंद्रस्य पदं तत्र तत्रैव रसकूपिकाः ॥
सप्त कुण्डानि तत्रैव रैवते पर्वतोत्तमे ॥८॥
अंबिका च स्थिता देवी प्रद्युम्नः सांब एव च ॥
लिंगाकारे पर्वते तु तत्र तीर्थानि कोटिशः ॥९॥
मृगीकुंडं च तत्रैव कालमेघस्तथैव च ॥
क्षेत्रपालस्वरूपेण महोदधि स्वयं स्थितः ॥
दामोदरश्च तत्रैव भवो ब्रह्माडनायकः ॥१०॥॥
 ॥पार्वत्युवाच॥
श्रुतानि तव तीर्थानि देवेश वदतस्तव ॥
गंगा सरस्वती पुण्या यमुना च महानदी ॥११॥
गोदावरी गोमती च नदी तापी च नर्मदा ॥
सरयूः स्वर्णरेखा च तमसा पापनाशिनी ॥१२॥
नद्यः समुद्रसंयोगाः सर्वाः पुण्याः श्रुता मया ॥
मोक्षारण्यानि दिव्यानि। दिव्यक्षेत्राणि यानि च ॥१३॥
नगर्यो मुक्तिदायिन्यस्ताः श्रुतास्त्वत्प्रसादतः ॥
ब्रह्मविष्णुशिवादीनां सूर्येंदुवरुणस्य च ॥१४॥
देवताना मृषीणां च संति स्थानान्यनेकशः ॥
परं देव त्वया पुण्यं प्रभासं कथितं मम ॥१५॥
तस्माद्यच्चाधिकं प्रोक्तं क्षेत्रं वस्त्रापथं त्वया ॥
शृण्वंत्या च मया पूर्वं न पृष्टं कारणं तदा ॥१६॥
इदानीं च श्रुतं सर्वं स्वस्थाहं कारणं वद ॥
प्रभावं प्रथमं ब्रूहि क्षेत्रस्य च भवस्य च ॥१७॥
कस्मिन्देशे च तत्तीर्थं शिवः केनात्र संस्थितः ॥
स्वयंभूर्भगवान्रुद्रः कथं तत्र स्थितः स्वयम् ॥
प्रभो मे महदाश्चर्यं वर्तते तद्वदाधुना ॥१८॥
 ॥ईश्वर उवाच॥
वस्त्रापथस्य क्षेत्रस्य प्रभावं प्रथमं शृणु ॥
पश्चाद्भवस्य माहात्म्यं शृणु त्वं च वरानने ॥१९॥
कान्यकुब्जे महाक्षेत्रे राजा भोजेति विश्रुतः ॥
पुरा पुण्ययुगे धर्म्यः प्रजा धर्मेण शासति ॥२०॥
विशालाक्षो दीर्घबाहुर्विद्वान्वाग्ग्मी प्रियंवदः ॥
सर्वलक्षणसंपूर्णो बह्वाश्चर्यविलोककः ॥२१॥
वनात्कदाचिदभ्येत्य वनपालोब्रवीदिदम् ॥
आश्चर्यं भ्रमता देव वने दृष्टं मयाधुना ॥२२॥
गिरौ विषमभूभागे वहुवृक्षसमाकुले ॥
मृगयूथगता नारी मया दृष्टा मृगानना ॥२३॥
मृगवत्प्लवते बाला सदा तत्रैव दृश्यते ॥
इति श्रुत्वा वचो राजा तुष्टस्तस्मै धनं ददौ ॥२४॥
चतुरं तुरगं दिव्यं वाससी स्वर्णभूषणम्॥
इदानीमेव यास्यामि सेनाध्यक्ष त्वया सह ॥२५॥
अश्वानां दशसाहस्रं वागुराणां त्वनेकधा ॥
पत्तयो यांतु सर्वत्र वेष्टयंतु गिरिंवरम् ॥२६॥
न हंतव्यो मृगः कश्चिद्रक्षणीया हि सा मृगी ॥
स्त्रीवेषधारिणी नारी मृगी भवति भूतले ॥२७॥
क्व यास्यति वराकी सा मद्बलैः परिपीडिता ॥
शस्त्रास्त्रवर्जितं सैन्यं वनपालपदानुगम् ॥२८॥
अहोरात्रेण संप्राप्तं बहुव्याधजनाग्रतः ॥
अश्वाधिरूढो बलवान्भोजराजो ययौ स्वयम् ॥२९॥
निःशब्दपदसञ्चारः संज्ञासंकेतभाषकः ॥
गिरिं संवेष्टयामास वागुराभिः स्वयं नृपः ॥३०॥
वनपालेन सहितो मृगयूथं ददर्श सः ॥
सा मृगी मृगमध्यस्था नारीदेहा मुखे मृगी ॥
मृगवच्चेष्टते बाला धावते च मृगैः सह ॥३१॥
अश्वगंधान्समाघ्राय सन्त्रस्ता मृगयूथपाः ॥
क्षुब्धा भ्रान्ताः क्षणे तस्मिन्सर्वे यांति दिशो दश ॥३२॥
मृगवक्त्रा तु या नारी मृगैः कतिपयैः सह ॥
प्लवमाना निपतिता वागुरायां विचेतना ॥३३॥
बलाध्यक्षेण विधृता मृगैः सह शनैर्नृपः ॥
ददर्श महदाश्चर्यं भोजराजो जनैर्वृतः ॥३४॥
ततः कोलाहलो जातः परमानंदिनिस्वनः ॥
मृगैः सह समानिन्ये कान्यकुब्जं मृगीं नृपः ॥३५॥
दिव्यवस्त्रसमाच्छन्ना दिव्याभरणभूषिता ॥
नरयानस्थिता नारी प्रविवेश मृगैर्वृता ॥३६॥
वादित्रैर्ब्रह्मघोषैश्च नीयते नृपमंदिरम् ॥
जनैर्जानपदैर्मार्गे दृश्यते नृपमन्दिरे ॥३७॥
नीयमाना नागरैश्च महदाश्चर्यभाषकैः ॥
पुण्ये मुहूर्त्ते संप्राप्ते सा मृगी नृपमन्दिरम् ॥३८॥
प्रतीहारेण राजेन्द्र वचसा वारितो जनः ॥
गतः सेनापतिः सैन्यं गृहीत्वा स्वनिकेतनम् ॥३९॥
राजापि स्वगृहं प्राप्य स्नात्वा संपूज्य देवताः ॥
तां मृगीं स्नापयामास दिव्यगन्धानुलेपनाम् ॥४०॥
कुङ्कुमेन विलिप्तांगीं दिव्यवस्त्रावगुंठिताम् ॥
यथोचितं यथास्थानं दिव्याभरणभूषिताम् ॥४१॥
एकांते निर्जने राजा बभाषे चारुलोचनाम् ॥
का त्वं कस्य सुता केन कारणेन मृगैः सह ॥४२॥
स्त्रीणां शरीरं ते कस्मान्मृगीणां वदनं कुतः ॥
इति सर्वं समाचक्ष्व परं कौतूहलं हि मे ॥४३॥
एवं सा प्रोच्यमानापि न बभाषे कथंचन ॥
मूकवन्न विजानाति न च भुंक्ते सुलोचना ॥४४॥
न भुंक्ते पृथिवीपालो न राज्यं बहु मन्यते ॥
न दारैर्विद्यते कार्यं नाश्वैर्न च गजै रथैः ॥४५॥
तदेव राज्यं ते दारास्ते गजास्तद्धनं बहु ॥
प्रमदामदसंरक्तं यत्र संक्रीडते मनः ॥४६॥
आहूयाह प्रतीहारं तया संमोहितो नृपः ॥
पुरोधसं गुरुं विप्रानाचार्याञ्छीघ्रमानय ॥४७॥
दैवज्ञानथ मन्त्रज्ञान्भिषजस्तांत्रिकांस्तथा ॥
इति सन्नोदितो राज्ञा प्रतीहारो ययौ स्वयम् ॥४८॥
आजगाम स वेगेन समानीय द्विजोत्तमान्॥
राज्ञे विज्ञापयामास देव विप्राः समागताः ॥४९॥
प्रवेशय गुरुं द्वाःस्थं संप्राप्तान्मद्धिते रतान् ॥
इति सन्नोदितो राज्ञा तथा चक्रे स बुद्धिमान् ॥५०॥
अभ्युत्थाय नृपः पूर्वं नमस्कृत्य प्रपूज्य च ॥
आसनेषूपविष्टांस्तान्बभाषे कार्यतत्परः ॥५१॥
इदमाश्चर्यमेवैकं कथं शक्यं निवेदितुम् ॥
जानीत हि स्वयं सर्वे लोकतः शास्त्रतोऽपि वा ॥५२॥
कथमेषा समुत्पन्ना कस्येदं कर्मणः फलम् ॥
अस्यां केन प्रकारेण वचनं मानुषं भवेत् ॥५३॥
स्वयं मनुष्यवदना कथमेषा भविष्यति ॥
सावधानैर्द्विजैर्भूयः सर्वं संचिन्त्य चोच्यताम् ॥५४॥
 ॥विप्रा ऊचुः॥
देव सारस्वतो नाम कुरुक्षेत्रे द्विजोत्तमः ॥
ऊर्द्ध्वरेताः सरस्वत्यां तपस्तेपे जितेन्द्रियः ॥५५॥
कथयिष्यति सर्वं ते तेनादिष्टा मृगी स्वयम् ॥
इति श्रुत्वा वचो राजा ययौ सारस्वतं द्विजम् ॥५६॥
सरस्वतीजले स्नातं प्रभासे ध्यानतत्परम् ॥
दृष्ट्वा प्रदक्षिणीकृत्य साष्टांगं तं प्रणम्य च ॥
उपविष्टो नृपो भूमौ प्रांजलिः सञ्जितेन्द्रियः ॥५७॥
मनुष्यपदसंचारं श्रुत्वा ज्ञात्वा च कारणम् ॥
सारस्वतो बभाषेऽथ तं नृपं भक्तितत्परम् ॥५८॥
 ॥सारस्वत उवाच॥
भोजराज शुभं तेस्तु ज्ञातं तत्कारणं मया ॥
मृगानना त्वया नारी समानीता वनात्किल ॥५९॥
महदाश्चर्यमेवैतत्तव चेतसि वर्त्तते ॥
आदिष्टा तु मया बाला सर्वं ते कथयिष्यति ॥६०॥
जानाम्यहं महाराज चरित्रं जन्म यादृशम् ॥
आश्चर्यं संभवेल्लोके कथ्यमानं तया स्वयम् ॥६१॥
इत्यादिश्य गतो वेगाद्रथेनादित्यवर्चसा ॥
अहोरात्रद्वयेनैव संप्राप्तो नृप मन्दिरम् ॥६२॥
प्रविश्य च मृगीं दृष्ट्वा यत्रास्ते मृगलोचना ॥
तया सारस्वतो ज्ञातो धर्मज्ञः सर्वविद्द्विजः ॥६३॥
 ॥मृग्युवाच॥
एष सर्वं हि जानाति कारणं यच्च यादृशम् ॥
वर्त्तमानं भविष्यं च भूतं यद्भुवनत्रये ॥६४॥
एतेन मरणं ज्ञातं मदीयं पूर्वजन्मनि ॥
वस्त्रापथे महाक्षेत्रे तपस्तप्तं भवालये ॥६५॥
विधूय कलुषं सर्वं ज्ञानमुत्पाद्य यत्नतः ॥
जरामरणनिर्मुक्तः प्रत्यक्षं दृष्टवान्भवम् ॥६६॥
अस्य तुष्टो भवो देवो ज्ञातं तीर्थस्य कारणम् ॥
आदिष्टया मया वाच्यं भवेज्जन्मनि कारणम् ॥६७॥
इति चिन्तापरा यावत्तावद्विप्रः समागतः ॥
तस्मै प्रणामपरमा मूर्च्छिता निपपात सा ॥६८॥
अथ सारस्वतो ज्ञानाज्ज्ञातवान्कारणं च तत् ॥
आनयन्तु द्विजा वेगात्कलशं तोयसंभृतम् ॥६९॥
सवौंषधीः पल्लवांश्च दूर्वाः पुष्पाणि चाक्षतान्॥
धूपं च चंदनं चैव गोमयं मधुसर्पिषी ॥७०॥
इत्यादिष्टैर्द्विजैर्वेगात्समानीतं नृपाज्ञया ॥
उपलिप्य च भूभागं स्वस्तिकं संनिवेश्य च ॥७१॥
तत्राग्निकार्यं कृत्वाऽथ वेदान्कुंभे निधाय सः ॥
इन्द्रं तस्मिंश्च विन्यस्य दिक्पालांश्च यथाक्रमम् ॥
हुत्वाग्निं स चरुं कृत्वा ग्रहपूजामकारयत् ॥७२॥
तोयं सुवर्णपात्रस्थं कृत्वा कुंभान्स्वयं गुरुः ॥
अभिषेकं ततश्चक्रे मुहूर्ते सार्वकामिके ॥७३॥
अभिषिक्ता तु सा तेन पूता स्नानार्थवारिणा ॥
जाता सचेतना बाला सर्वं पश्यति चक्षुषा ॥७४॥
शृणोति सर्वं जानाति चरित्रं पूर्वजन्मनः ॥
बदरीफलमात्रं तु पुरोडाशं ददौ गुरुः ॥७५॥
तयोपभुक्तं यत्नेन ततश्चक्रे स मार्ज्जनम् ॥
मानुषे वचने कर्णे ददौ ज्ञानं गुरुस्ततः ॥७६॥
गुरवे दक्षिणां दत्त्वा ततः सा च मृगानना ॥
भोजराजाय सर्व च चरित्रं पूर्वजन्मनः ॥७७॥
वक्तुं प्रचक्रमे बाल्याद्यद्वृत्तं पूर्वजन्मनि ॥
नमस्कृत्य गुरुं पूर्वं ब्राह्मणान्क्षत्रियांस्तथा ॥७८॥
 ॥मृग्युवाच॥
न विषादस्त्वया कार्यो राजञ्च्छ्रुत्वा मयोदितम् ॥
इतस्त्वं सप्तमे स्थाने कलिंगाधिपतेः सुतः ॥७९॥
मृते पितरि बालस्त्वं स्वभिषिक्तः स्वमंत्रिभिः ॥
अहं हि वंगराजस्य संजाता दुहिता किल ॥८०॥
परिणीता त्वया देव पित्रा दत्ता स्वयं नृप ॥
त्वयाऽहं पट्टमहिषी कृता योषिद्वरा यतः ॥८१॥
युवा जातः क्रमेणैव हिंस्रः क्रूरो बभूव ह ॥
न वेदशास्त्रकुशलो दयाधर्मविवर्जितः ॥८२॥
लुब्धो मानी महाक्रोधी सत्याचार बहिष्कृतः ॥
न देवं न गुरुं विप्रान्नो जानाति दुराशयः ॥८३॥
विरक्ता हि प्रजास्तस्य ब्राह्मणोच्छेदकारकः ॥
समासन्नैर्नृपैस्तस्य देशः सर्वो विलुंपितः ॥
सैन्यं सर्वं समादाय युद्धायोपजगाम सः ॥८४॥
सहैवाहं गता देव युद्धं जातं नृपैः सह ॥
हारितं सैनिकैस्तस्य गता नष्टा दिशो दश ॥८५॥
त्यक्त्वा धर्मं निजं राजा पलायनपरोऽभवत् ॥
गच्छमानस्तु नृपतिः शत्रुभिः परिपीडितः ॥८६॥
तवास्मिवादी दुष्टात्मा हतो लोकविरोधकः ॥
देहं तस्य गृहीत्वाग्नौ प्रविष्टाहं नृपोत्तम ॥८७॥
मृतस्यैवं गतिर्नास्ति नरके स विपच्यते ॥
मृतं कांतं समादाय भार्याग्नौ प्रविशेद्यदि ॥८८॥
सा तारयति पापिष्ठं यावदाभूतसंप्लवम् ॥
इह पापक्षयं कृत्वा पश्चात्स्वर्गे महीयते ॥८९॥
अतस्त्वं ब्राह्मणो जातो देशे मालवके नृप ॥
तस्यैव तत्र भार्याहं संभूता ब्राह्मणी नृप ॥९०॥
धनधान्यसमृद्धोऽभूत्तथा जीवधनाधिकः ॥
मृतः पिता मृता माता स च भ्रातृविवर्जितः ॥९१॥
धनधान्यसमृद्धोऽपि लुब्धो भ्रमति भूतले ॥
अतीव कोपनो विप्रो वेदपाठविवर्जितः ॥९२॥
स्नानसंध्यादिहीनश्च मायावी याचते जनम् ॥
भक्तिं करोमि परमां स च क्रुध्यति मां प्रति ॥९३॥
संतानं तस्य वै नास्ति धनरक्षापरो हि सः ॥
न ददाति न चाश्नाति न जुहोति स रक्षति ॥९४॥
न तर्पणं तिलैर्विप्रो विदधात्यतिलो भतः ॥
कार्त्तिकेऽपि च संप्राप्ते विष्णुपूजाविवर्जितः ॥९५॥
दीपं ददाति नो विप्रो मासमेकं निरन्तरम् ॥
न भुंक्ते शाकपत्रं स एकाहारो निरंतरम् ॥९६॥
मासे नभस्ये संप्राप्ते प्राप्ते कृष्णे नृपोत्तम ॥
न करोति गृहे श्राद्धं स्नानतर्पणवर्जितः ॥९७॥
न जानाति दिनं पित्र्यं पक्षमेकं निरन्तरम् ॥
अन्यत्र भुंक्ते विप्रोऽसौ क्षयाहेऽपि समागते ॥९८॥
मकरस्थेऽपि संक्रांतौ कृशरान्नं ददाति न ॥
तिलान्सुवर्णं तारं वा वस्त्रं वा फलमेव च ॥
शाकपत्रं स पुष्पं वा न ददाति तथेंधनम् ॥९९॥
गवां गवाह्निकं नैव कथं मुक्तिर्भविष्यति ॥
न याति विष्णुशरणं संप्राप्ते दक्षिणायने ॥१००॥
धेनुं ददाति नो विप्रो ग्रहणे चंद्रसूर्ययोः ॥१०१॥
एकापि दत्ता सुपयस्विनी सा सवस्त्रघंटाभरणोपपन्ना ॥
वत्सेन युक्ता हि ददाति दात्रे मुक्तिं कुलस्यास्य करोति वृद्धिम् ॥१०२॥
यावंति रोमाणि भवंति तस्यास्तावंति वर्षाणि महीयते सः ॥
ब्रह्मालये सिद्ध गणैर्वृतोऽसौ संतिष्ठते सूर्यसमानतेजाः ॥१०३॥
देवालयं नो विदधाति वापीं कूपं तडागं न करोति कुण्डम् ॥
पुण्यं विवाहं सुजनोपकारं नासौ सतां वा द्विजमंदिरं च ॥१०४॥
धनं सदा भूमिगतं करोति धर्मं न जानाति कुलस्य चासौ ॥
अहं हि तस्यानुगता भवामि कथं हि कांतं परिवं चयामि ॥१०५॥
एवं हि वर्त्तमानः स कालधर्ममुपेयिवान् ॥
धनलोभान्मया देव मरणं परिवर्जितम् ॥१०६॥
पश्यन्त्या गोत्रिभिः सर्वं गृहीतं धनसंचयम् ॥
कालेन महता देव मृताऽहं द्विजमंदिरे ॥१०७॥
श्वेतसर्पः समभवद्देशे तस्मिन्नरोत्तम ॥
तत्रैवाहं ब्राह्मणस्य संजाता तनया नृप ॥१०८॥
वर्षेष्टमे तु संप्राप्ते परिणीता द्विजन्मना ॥
तस्मिन्नेव गृहे सर्पो मदीये वसते नृप ॥१०९॥
भार्या ममेति संदष्टो रात्रौ भर्त्ता महा हिना ॥
मृतोऽपि ब्राह्मणैः सर्पो लगुडैर्विनिपातितः ॥११०॥
वैधव्यं मम दत्त्वा तु द्विजसर्पौ मृतावुभौ ॥
पित्रा मात्रा महाशोकं कृत्वा मे मुण्डितं शिरः ॥१११॥
वसाना श्वेतवस्त्रं च विष्णुभक्तिपरायणा ॥
मासोपवासनिरता यानि तीर्थान्यनेकशः ॥११२॥
सर्पस्तु मकरो जातो गोदावर्यां शिवालये ॥
देवं भीमेश्वरं द्रष्टुं गताऽहं स्वजनैः सह ॥११३॥
यावत्स्नातुं प्रविष्टाऽहं वृता सर्वजनैर्नृप ॥
मकरेण तदा दृष्टा भार्येयं मम वल्लभा ॥
गृहीता मकरेणाहं नेतुमंतर्जले नृप ॥११४॥
हाहाकारः समभवज्जनः क्षुब्धः समंततः ॥
कुंताघातेन केनासौ मकरस्तु निपातितः ॥११५॥
झषवक्त्रः स्थिता चाहं मृता कृष्टा जनैर्बहिः ॥
अग्निं दत्त्वा जले क्षिप्त्वा भस्म लोका गृहान्गताः ॥११६॥
स्त्रीवधाल्लुब्ध्वको जातो झषस्तीर्थप्रभावतः ॥
मानुषीं योनिमापन्नस्तस्मिन्नेव महावने ॥११७॥
अग्नेर्जलाच्च सर्पाच्च गजात्सिंहादवृषादपि ॥
झषाद्विस्फोटकान्मृत्युर्येषां ते नरके गताः ॥११८॥
आत्महा भ्रूणहा स्त्रीहा ब्रह्मघ्नः कूटसाक्ष्यदः ॥
कन्याविक्रयकर्ता च मिथ्या ब्रतधरस्तु यः ॥ ॥११९॥
विक्रीणाति क्रतुं यस्तु मद्यपः स्याद्द्विजस्तु यः ॥
राजद्रोही स्वर्णचौरो ब्रह्मवृत्तिविलोपकः ॥१२०॥
गोघ्नस्तु निक्षेपहरो ग्रामसीमाहरस्तु यः ॥
सर्वे ते नरकं यांति या च स्त्री पतिवंचका ॥१२१॥
झषमृत्युप्रभावेन जाता क्रौंची वने नृप ॥
गोदावरीवने व्याधो भ्रमते मृगमार्गकः ॥१२२॥
वने क्रौंचः सकामो मां मुदा कामयितुमुद्यतः ॥
दृष्टाहं भ्रमता तेन व्याधेनाकृष्य कार्मुकम् ॥१२३॥
हतः क्रौंचो मृतो राज न्नष्टा स्थानादहं ततः ॥
गोदावरीवने तस्मिन्नेवंरूपं ददर्श तम् ॥१२४॥
ऋषिर्व्याधं शशापाथ दृष्ट्वा कर्म विगर्हितम् ॥
कामधर्ममकुर्वाणं प्रिया संभाषतत्परम् ॥
क्रौंचं त्वमवधीर्यस्मात्तस्मात्सिंहो भविष्यसि ॥१२५॥
ऋषिस्तेन विनीतेन स्थित्वा सन्तोषितो नृप ॥
ऋषिर्वदति तस्याग्रे न मे मिथ्या वचो भवेत् ॥१२६॥
सिंहस्थस्य प्रसादं ते करिष्ये मुक्तिहेतवे ॥
सुराष्ट्रदेशे भविता सिंहो रैवतके गिरौ ॥१२७॥
वस्त्रापथे महा क्षेत्रे मुक्तिस्ते विहिता ध्रुवा ॥
इत्युक्त्वा स ऋषिर्देव गतो भीमेश्वरं प्रति ॥
दुर्वचःश्रवणाद्व्याधः क्रमात्पंचत्वमाययौ ॥१२८॥
क्रौंची क्रौंचवियोगेन गता सा च वनांतरे ॥
मृता दैववशाज्जाता मृगी रैवतके गिरौ ॥१२९॥
मृगयूथगता नित्यं मोदते मदविह्वला ॥
व्याधः सिंहः समभवद्गिरेस्तस्य महावने ॥१३०॥
कामार्ता भ्रमता दृष्टा मृगी सिंहेन यत्नतः ॥
तत्र संभ्रमते नित्यं सिंहश्चापि मृगी वने ॥१३१॥
सिंहोऽपि दैवयोगेन ममेयमिति मन्यते ॥
परं हिंस्रस्वभावेन तामादातुं प्रचक्रमे ॥१३२॥
चलत्वं मृगजातीनां विहितं वेधसा स्वयम् ॥
पुनर्गता मृगी यूथं क्रीडते चारुलोचना ॥१३३॥
भवस्य पश्चिमे भागे तत्र रैवतके गिरौ ॥
अनुयातः शनैः सोऽथ मृगेन्द्रो मृगयूथपः ॥
उत्पपात ततः सिंहो संघस्य मूर्द्धनि ॥१३४॥
सिंहस्य न मृगैः कार्यं हरिणीं प्रति पश्यतः ॥
यत्र सा हरिणी याति ययौ सिंहस्तथैव ताम् ॥१३५॥
यदा वेगं मृगी चक्रे सिंहः कुद्धस्तदा वने ॥
सिंहोऽपि वेगवाञ्जातो मृगीवेगाधिकोऽभवत् । १३६॥
यदा सिंहेन संक्रांता ददौ झम्पां मृगी तु सा ॥
भवस्याग्रे नदीतोये पतिता जलमूर्द्धनि ॥१३७॥
लंबते तु शरीरं मे वेणौ प्रोतं शिरो मम ॥
सिंहः सहैव पतितो मृतः पयसि मध्यतः ॥१३८॥
स्वर्णरेषाजले देव विशीर्णं मम तद्वपुः ॥
न तु वक्त्रं निपतितं त्वक्सारशिरसि स्थितम् ॥१३९॥
एतच्चरित्रं यत्सर्वं दृष्टं सारस्वतेन वै ॥
तत्तीर्थस्य प्रभावेन सिंहस्त्वं समजायथाः ॥१४०॥
इदं हि सप्तमं जन्म सर्वपापक्षयोदयम् ॥
कान्यकुब्जे महादेशे राजा भोजेतिविश्रुतः ॥१४१॥
अहं हि हरिणीगर्भे जाता मानुषरूपिणी ॥
जातं वक्त्रं मृगीणां मे यस्मान्न पतितं जले ॥१४२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये भवमाहात्म्ये मृगाननाभोजवृत्तान्तवर्णने सारस्वतमहर्षिसंस्कृतपुरोडाशप्राशनसमुप लब्धस्पष्टवाक्प्रसर मृगाननाकथितोभयप्राक्सप्तजन्मवृत्तान्तवर्णनंनाम षष्ठोऽध्यायः ॥६॥

N/A

References : N/A
Last Updated : January 14, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP