वस्त्रापथक्षेत्र माहात्म्यम् - अध्याय २

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि क्षेत्रं वस्त्रापथं पुनः ॥
यत्प्रभासस्य सर्वस्वं क्षेत्रं नाभिः प्रियं मम ॥१॥
यत्र साक्षाद्भवो देवः सृष्टिसंहारकारकः ॥
पृथिव्यां स त्वधिष्ठाता तत्त्वानामादिमः प्रभुः ॥२॥
स स्वयंभूः स्थितस्तत्र प्रभासे भूतिदो भवः ॥
भवतीदं जगद्यस्मात्तस्माद्भव इति स्मृतः ॥३॥
यः सकृत्कुरुते यात्रां क्षेत्रे वस्त्रापथे पुनः ॥
विगाह्य तत्र तीर्थानि कृतकृत्यः स जायते ॥४॥
अथ दृष्ट्वा भवं देवं सकृत्पूज्यविधानतः ॥
केदारयात्राफलभाक्स भवेन्मनुजोत्तमः ॥५॥
चैत्रे मासि भवं दृष्ट्वा न पुनर्जायते भुवि ॥
वैशाख्यामथवा सम्यग्भवं दृष्ट्वा विमुच्यते ॥६॥
वाराणस्यां कुरुक्षेत्रे नर्मदायां तु यत्फलम् ॥
तत्फलं निमिषार्द्धेन भवं दृष्ट्वा दिनेदिने ॥७॥
दुर्ल्लभस्तत्र वासस्तु दुर्ल्लभं भवदर्शनम् ॥
प्रेतत्वं नैव तस्यास्ति न याम्या नारकी व्यथा ॥८॥
येषां भवालये प्राणा गता वै वरवर्णिनि ॥
धन्यानामपि धन्यास्ते देवानामपि देवताः ॥९॥
वस्त्रापथे मतिर्येषां भवे येषां मतिः स्थिरा ॥
गोदानं तत्र शंसंति ब्राह्मणानां च भोजनम्॥
पिंडदानं च तत्रैव कल्पांतं तृप्तिमा वहेत् ॥१०॥
इति संक्षेपतः प्रोक्तं माहात्म्यं ते भवोद्भवम् ॥
श्रुतं पापोपशमनं यज्ञायुतफलप्रदम् ॥११॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये वस्त्रापथक्षेत्रभवमाहात्म्यवर्णनंनाम द्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : January 14, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP