वस्त्रापथक्षेत्र माहात्म्यम् - अध्याय ३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच ॥
अथ वस्त्रापथे क्षेत्रे संति तीर्थानि कोटिशः॥
तथापि सारं ते वच्मि सर्वतीर्थमहोदयम् ॥१॥
दामोदरे नदी प्रोक्ता स्वर्णरेषेति या स्मृता ॥
ब्रह्मकुण्डं च तत्रैव तथा ब्रह्मेश्वरः स्मृतः ॥२॥
कालमेघश्च संप्रोक्तो भवो दामोदरः स्मृतः ॥
गव्यूतिद्वितयेनैव कालिका तत्र कीर्तिता ॥३॥
इन्द्रेश्वरश्च तत्रैव रैवतः पर्वतस्तथा ॥
उज्जयंतश्च तत्रैव देवः कुम्भीश्वरः स्मृतः ॥४॥
भीमेश्वरश्च तत्रैव ततः क्षेत्रं महाप्रभम् ॥
तैलसारणिकंनाम त्रेतायां हैममारकम् ॥५॥
पंचगव्यूतिमात्रं तु तत्क्षेत्रं संप्रकीर्तितम् ॥
मृगीकुण्डं च तत्रैव सर्वपातकनाशनम् ॥६॥
एतद्वस्त्रापथं क्षेत्रं रत्नधात्वोस्तथाऽऽकरम् ॥
कथितं तव देवेशि पुनः संक्षेपतो मया ॥७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये प्रवरतीर्थानुकीर्तननाम तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : January 14, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP