संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे वस्त्रापथक्षेत्र माहात्म्यम्| अध्याय ९ प्रभासखण्डे वस्त्रापथक्षेत्र माहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ विषयानुक्रमणिका वस्त्रापथक्षेत्र माहात्म्यम् - अध्याय ९ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ९ Translation - भाषांतर ॥ब्रह्मोवाच॥यदि सृष्टं मया सर्वं त्रैलोक्यं सचराचरम् ॥तदा मूर्तिमिमां त्यक्त्वा भवः सृष्टो मयाऽधुना ॥१॥पितामहमहत्त्वं स्यात्तथा शीघ्रं विधीयताम् ॥ब्रह्मणो वचनं श्रुत्वा विष्णुना स प्रमोदितः ॥२॥महदाश्चर्यजनके संप्राप्तो गिरिमूर्द्धनि ॥न विचारस्त्वयाकार्यः कर्त्तव्यं ब्रह्मभाषितम् ॥३॥तथेत्युक्त्वा शिवो देवस्तत्रैवांतरधीयत ॥ब्रह्मा ययौ मेरुशृंगं मनसः शिरसि स्थितम् ॥४॥तपस्तेपे प्रजानाथो वेदोच्चारणतत्परः ॥अथर्ववेदोच्चरणं यावच्चक्रे पितामहः ॥५॥मुखाद्रुद्रः समभवद्रौद्ररूपो भवापहः॥अर्द्धनारीनरवपुर्दुष्प्रेक्ष्योऽतिभयंकरः॥६॥विभजात्मानमित्युक्त्वा ब्रह्मा चांतर्दधे भयात् ॥तथोक्तोसौ द्विधा स्त्रीत्वं पुरुषत्वं तथाऽकरोत् ॥७॥बिभेद पुरुषत्वं च दशधा चैकधा पुनः ॥एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ॥८॥कृत्वा नामानि सर्वेषां देवकार्ये नियोजिताः ॥विभज्य पुनरीशानी स्वात्मानं शंकराद्विभोः ॥९॥महादेवनियोगेन पितामहमुपस्थिता ॥तामाह भगवान्ब्रह्मा दक्षस्य दुहिता भव ॥१०॥सापि तस्य नियोगेन प्रादुरासीत्प्रजापतेः ॥नियोगाद्ब्रह्मणो दक्षो ददौ रुद्राय तां सतीम् ॥११॥दाक्षीं रुद्रोऽपि जग्राह स्वकीयामेव शूलभृत् ॥अथ ब्रह्मा बभाषे तं सृष्टिं कुरु सतीपते ॥१२॥ ॥रुद्र उवाच॥सृष्टिर्मया न कर्त्तव्या कर्त्तव्या भवता स्वयम् ॥पालनं विष्णुना कार्यं संहर्ताऽहं व्यवस्थितः ॥१३॥स्थाणुवत्संस्थितो यस्मा त्तस्मात्स्थाणुर्भवाम्यहम् ॥१४॥रजोरूपाः सत्त्वरूपास्तमोरूपाश्च ये नराः ॥सर्वे ते भवता कार्या गुणत्रयविभागतः ॥१५॥यदा ते तामसैः कार्यं तदा रौद्रो भव स्वयम् ॥यदा ते राजसैः कार्यं तदा त्वं राजसो भव॥सात्त्विकैस्ते यदा कार्यं तदा त्वं सात्त्विको भव ॥१६॥ ॥ईश्वर उवाच॥इत्याज्ञाप्य च ब्रह्माणं स्वयं सृष्ट्यादिकर्मसु ॥गृहीत्वा तां सतीं रुद्रः कैलासमधितिष्ठति ॥१७॥दक्षः कालेन महता हरस्यालयमाययौ ॥१८॥अथ रुद्रः समुत्थाय कृतवान्गौरवं बहु ॥ततो यथोचितां पूजां न दक्षो बहु मन्यते ॥१९॥तदा वै तमसाविष्टः सोऽधिकं ब्राह्मणः शुभः॥पूजामनर्घ्यामन्विच्छञ्जगाम कुपितो गृहम् ॥२०॥कदाचित्तां गृहं प्राप्तां सतीं दक्षः सुदुर्मनाः ॥भर्त्रा सह विनिंद्यैनां भर्त्सयामास वै रुषा ॥२१॥पंच -वक्त्रो दशभुजो मुखे नेत्रत्रयान्वितः॥कपर्द्दी खंडचंद्रोसौ तथासौ नीललोहितः ॥२२॥कपाली शूलहस्तोऽसौ गजचर्मावगुंठितः ॥नास्य माता न च पिता न भ्राता न च बान्धवः ॥२३॥सर्पास्थिमंडितग्रीवस्त्यक्त्वा हेमविभूषणम् ॥भिक्षया भोजनं यस्य कथमन्नं प्रदास्यति ॥२४॥कदाचित्पूर्वतो याति गच्छन्याति स पश्चिमे ॥दक्षिणस्यां वृषो याति स्वयं याति स चोत्तरे ॥२५॥तिर्यगूर्ध्वमधो याति नैव याति न तिष्ठति ॥इति चित्रं चरित्रं ते भर्त्तुर्नान्यस्य दृश्यते ॥२६॥निर्गुणः स गुणातीतो निःस्नेहो मूकवत्स्थितः ॥सर्वज्ञः सर्वगः सर्वः पठ्यते भुवनत्रये ॥२७॥कदाचिन्नैव जानाति न शृणोति न पश्यति ॥दैत्यानां दानवानां च राक्षसानां ददाति यः ॥२८॥न चास्य च पिता कश्चिन्न च भ्रातास्ति कश्चन ॥एक एव वृषारूढो नग्नो भ्रमति भूतले ॥२९॥न गृहं न धनं गोत्रमनादिनिधनोव्ययः ॥स्थिरबुद्धिर्न चैवासौ क्रीडते भुवनत्रये ॥२३०॥कदाचित्सत्यलोके सौ पातालमधितिष्ठति ॥गिरिसानुषु शेतेऽसावशिवोपि शिवः स्मृतः ॥३१॥श्रीखंडादीनि संत्यज्य सदा भस्मावगुंठितः॥सर्वदेति वचः सत्यं किमन्यत्स प्रदास्यति ॥३२॥धिक्त्वां जामातरं धिक्तं ययोः स्नेहः परस्परम् ॥तस्य त्वं वल्लभा भार्या स च प्राणाधिकस्तव ॥३३॥न च पित्रास्ति ते कार्यं न मात्रा न सखीषु च ॥केवलं भर्तृभक्ता त्वं तस्माद्गच्छ गृहान्मम ॥३४॥अन्ये जामातरः सर्वे भर्तुस्तव पिनाकिनः ॥त्वमद्यैवाशु चास्माकं गृहाद्गच्छ वरं प्रति ॥३५॥तस्य तद्वाक्यमाकर्ण्य सा देवी शंकरप्रिया ॥विनिंद्य पितरं दक्षं ध्यात्वा देवं महेश्वरम् ॥३६॥श्वेतवस्त्रा जले स्नात्वा ददाहात्मानमात्मना ॥याचितस्तु शिवो भर्त्ता पुनर्जन्मांतरे तया ॥३७॥पिता मे हिमवानस्तु मेनागर्भे भवाम्यहम् ॥अत्रांतरे(?) हिमवता तपसा तोषितो हरः ॥प्रत्यक्षं दर्शनं दत्त्वा हिमवंतं वचोऽब्रवीत् ॥३८॥एषा दत्ता सुता तुभ्यं परिणेष्यामि तामहम् ॥देवानां कार्य्यसिद्ध्यर्थं गिरिराजो भविष्यसि ॥३९॥आत्ममूर्त्तौ प्रविष्टां तां ज्ञात्वा देवो महेश्वरः ॥शशाप दक्षं कुपितः समागत्याथ तद्गृहम् ॥४०॥त्यक्त्वा देहमिमं ब्राह्म्यं क्षत्रियाणां कुले भव ॥स्वायंभुवत्वं संत्यज्य दक्ष प्राचेतसो भव ॥४१॥स्वस्यां सुतायामूढायां पुत्रमुत्पादयिष्यसि ॥एवं शप्त्वा महादेवो ययौ कैलासपर्वतम् ॥४२॥स्वायभुवोऽपि कालेन दक्षः प्राचेतसोऽभवत् ॥भवानीं स सुतां लब्ध्वा गिरिस्तुष्टो हिमा लयः ॥४३॥मेनापि तां सुतां लब्ध्वा धन्यं मेने गृहाश्रमम् ॥तां दृष्ट्वा जायमानां च स्वेच्छयैव वराननाम् ॥४४॥मेना हिमवतः पत्नी प्राहेदं पर्वतेश्वरम्॥पश्य बालामिमां राजन्राजीवसदृशाननाम् ॥४५॥हिताय सर्वभूतानां जातां च तपसा शुभाम् ॥सोऽपि दृष्ट्वा महादेवीं तरुणादित्यसन्निभाम् ॥४६॥कपर्दिनीं चतुर्वक्त्रां त्रिनेत्रामतिलालसाम्॥अष्टहस्तां विशालाक्षीं चंद्रावयवभूषणाम् ॥४७॥प्रणम्य शिरसा भूमौ तेजसा तु सुविह्वलः ॥भीतः कृतांजलिः स्तब्धः प्रोवाच परमेश्वरीम् ॥४८॥ ॥हिमवानुवाच॥का त्वं देवि विशालाक्षि शंस मे संशयो महान् ॥४९॥ ॥देव्युवाच॥मां विद्धि परमां शक्तिं महेश्वरसमाश्रयाम् ॥अनन्यामव्ययामेकां यां पश्यंति मुमुक्षवः ॥५०॥दिव्यं ददामि ते चक्षुः पश्य मे रूपमैश्वरम् ॥एतावदुक्त्वा विज्ञानं दत्त्वा हिमवते स्वयम् ॥५१॥सूर्यकोटिप्रतीकाशं तेजोबिंबं निराकुलम् ॥ज्वाला मालासहस्राढ्यं कालानलशतोपमम् ॥५२॥दंष्ट्राकरालमुद्धर्षं जटामंडलमंडितम् ॥प्रशांतं सौम्यवदनमनंताश्चर्यसंयुतम् ॥५३॥चंद्रावयवलक्ष्माणं चंद्रकोटिसमप्रभम् ॥किरीटिनं गदाहस्तं नुपुरैरुपशोभितम् ॥५४॥दिव्यमाल्यांबरधरं दिव्यगंधानुलेपनम् ॥शंखचक्रधरं काम्यं त्रिनेत्रं कृत्तिवाससम् ॥५५॥अंडस्थं चांडबाह्यस्थं बाह्यमभ्यंतरं परम् ॥सर्वशक्तिमयं शुभ्रं सर्वालंकारसंयुतम् ॥५६॥ब्रह्मेन्द्रोपेन्द्रयोगीन्द्रैर्वन्द्यमान पदांबुजम् ॥सर्वतः पाणिपादांतं सर्वतोऽक्षिशिरोमुखम् ॥५७॥सर्वमावृत्य तिष्ठंतं ददर्श परमेश्वरम् ॥दृष्ट्वा नन्दीश्वरं देवं देव्या महेश्वरं परम् ॥५८॥भयेन च समाविष्टः स राजा हृष्टमानसः ॥आत्मन्याधाय चात्मानमोंकारं समनुस्मरन् ॥५९॥नाम्नामष्टसहस्रेण स्तुत्वाऽसौ हिम वान्गिरिः ॥६०॥भूयः प्रणम्य भूतात्मा प्रोवाचेदं कृतांजलिः ॥यदेतदैश्वरं रूपं जातं ते परमेश्वरि ॥६१॥भीतोऽस्मि सांप्रतं दृष्ट्वा तत्त्वमन्यत्प्रदर्शय ॥एवमुक्ता च सा देवी तेन शैलेन पार्वती ॥६२॥संहृत्य दर्शयामास स्वरूपमपरं परम् ॥नीलोत्पलदलप्रख्यं नीलोत्पलसुगंधिकम्॥६३॥द्विनेत्रं द्विभुजं सौम्यं नीलालकविभूषितम् ॥रक्तपादांबुजतलं सुरक्तकरपल्लवम् ॥६४॥श्रीमद्विशालसद्वृत्तं ललाटतिलकोज्ज्वलम् ॥भूषितं चारुसर्वांगं भूषणैरतिकोमलम् ॥६५॥दधानं चोरसा मालां विशालां हेमनिर्मिताम् ॥ईषत्स्मितं सुबिंबोष्ठं नूपुरारावशोभितम् ॥६६॥प्रसन्नवदनं दिव्यं चारुभ्रूमहिमास्पदम् ॥तदीदृशं समालोक्य स्वरूपं शैलसत्तमः ॥भयं संत्यज्य हृष्टात्मा बभाषे परमेश्वरीम् ॥६७॥ ॥हिमवानुवाच॥अद्य मे सफलं जन्म अद्य मे सफलाः क्रियाः ॥यन्मे साक्षात्त्वमव्यक्ता प्रसन्ना दृष्टिगोचरा ॥इदानीं किं मया कार्यं तन्मे ब्रूहि महेश्वरि ॥६८॥ ॥महेश्वर्युवाच॥शिवपूजा त्वया कार्या ध्यानेन तपसा सदा ॥अहं तस्मै प्रदातव्या केनचित्कारणेन वै ॥६९॥यादृशस्तु त्वया दृष्टो ध्येयो वै तादृशस्त्वया ॥एक एव शिवो देवः सर्वाधारो धराधरः ॥२७०॥ ॥सारस्वत उवाच॥तपश्च कृतवान्रुद्रः समागम्य हिमाचलम् ॥तस्योमा परमां भक्तिं चकार शिवसंनिधौ ॥७१॥देवकार्येण केनापि देवो वै ज्ञापितः प्रभुः ॥उपयेमे हरो देवीमुमां त्रिभुवनेश्वरीम् ॥७२॥स शप्तः शंभुना पूर्वं दक्षः प्राचेतसो नृपः ॥विनिंद्य पूर्ववैरेण गंगाद्वारेऽयजद्धरिम् ॥७३॥देवाश्च यज्ञभागार्थमाहूता विष्णुना स्वयम् ॥सहैव मुनिभिः सर्वैरागता मुनिपुंगवाः ॥७४॥दृष्ट्वा देवकुलं कृत्स्नं शंकरेण विनाऽऽगतम् ॥दधीचो नाम विप्रर्षिः प्राचेतसमथाब्रवीत् ॥७५॥ ॥दधीचिरुवाच॥ब्रह्माद्यास्तु पिशाचांता यस्याज्ञानुविधायिनः ॥स हि वः सांप्रतं रुद्रो विधिना किं न पूज्यते ॥७६॥ ॥दक्ष उवाच॥सर्वेष्वेव हि यज्ञेषु न भागः परिकल्पितः ॥न मंत्रा भार्यया सार्द्धं शंकरस्येति नेष्यते ॥७७॥विहस्य दक्षं कुपितो वचः प्राह महामुनिः ॥शृण्वतां सर्वदेवानां सर्वज्ञानमयः स्वयम् ॥७८॥यतः प्रवृत्तिर्विश्वात्मा यश्चासौ भुवनेश्वरः ॥न त्वं पूजयसे रुद्रं देवैः संपूज्यते हरः ॥७९॥ ॥दक्ष उवाच॥अस्थिमालाधरो नग्नः संहर्ता तामसो हरः ॥विषकंठः शूलहस्तः कपाली नागवेष्टितः ॥८०॥ईश्वरो हि जगत्स्रष्टा प्रभुर्योऽसौ सनातनः ॥सत्त्वात्मकोऽसौ भगवानिज्यते सर्वकर्मसु ॥८१॥ ॥दधीचिरुवाच॥किं त्वया भगवानेष सहस्रांशुर्न दृश्यते ॥सर्वलोकैकसंहर्ता कालात्मा परमेश्वरः ॥८२॥एष रुद्रो महादेवः कपर्द्दी चाग्रणीर्हरः ॥आदित्यो भगवान्सूर्यो नीलग्रीवो विलोहितः ॥८३॥॥ ॥दक्ष उवाच॥य एते द्वादशादित्या आगता यज्ञभागिनः ॥सर्वे सूर्या इति ज्ञेया न ह्यन्यो विद्यते रविः ॥८८४॥एवमुक्ते तु मुनयः समायाता दिदृक्षवः ॥बाढमित्यब्रुवन्दक्षं तस्य साहाय्यकारिणः ॥८५॥तपसाविष्टमनसो न पश्यंति वृषध्वजम् ॥सहस्रशोऽथ शतशो बहुशोऽथ य एव हि ॥८६॥देवांश्च सर्वे भागार्थमागता वासवादयः ॥नापश्यन्देवमीशानमृते नारायणं हरिम् ॥८७॥रुद्रं क्रोधपरं दृष्ट्वा ब्रह्मा ब्रह्मासनाद्ययौ ॥अन्तर्हिते भगवति दक्षो नारायणं हरिम् ॥८८॥रक्षकं जगतां देवं जगाम शरणं स्वयम् ॥प्रवर्तयामास च तं यज्ञं दक्षोऽथ निर्भयः ॥८९॥रक्षको भगवान्विष्णुः शरणागतरक्षकः ॥पुनः प्राहाध्वरे दक्षं दधीचो भगवन्नृप ॥९०॥निर्भयः शृणु दक्ष त्वं यज्ञभंगो भवि ष्यति ॥अपूज्यपूजनाद्दक्ष पूज्यस्य च विवर्जनात् ॥९१॥नरः पापमवाप्नोति महद्वै नात्र संशयः ॥असतां प्रग्रहो यत्र सतां चैव विमानता ॥९२॥दण्डो देवकृतस्तत्र सद्यः पतति दारुणः ॥एवमुक्त्वा स विप्रर्षिः शशापेश्वरविद्विषः ॥९३॥यस्माद्बहिष्कृतो देवो भवद्भिः परमेश्वरः ॥भविष्यध्वं त्रयीबाह्याः सर्वेऽपीश्वरविद्विषः ॥९४॥मिथ्यारीतिसमाचारा मिथ्याज्ञानप्रभाषिणः ॥प्राप्ते कलियुगे घोरे कलिजैः किल पीडिताः ॥९५॥कृत्वा तपोबलं घोरं गच्छध्वं नरकं पुनः ॥भविष्यति हृषीकेशः स्वामी वोऽपि पराङ्मुखः ॥९६॥ ॥सारस्वत उवाच॥एवमुक्त्वा स ब्रह्मर्षिर्विरराम तपोनिधिः ॥जगाम मनसा रुद्रमशेषाध्वरनाशनम् ॥९७॥एतस्मिन्नंतरे देवी महादेवं महेश्वरम् ॥गत्वा विज्ञापयामास ज्ञात्वा दक्षमखं शिवा ॥९८॥ ॥देव्युवाच॥दक्षो यज्ञेन यजते पिता मे पूर्वजन्मनि ॥तेन त्वं दूषितः पूर्वमहं चातीव दुःखिता ॥विनाशयस्व तं यज्ञं वरमेनं वृणोम्यहम् ॥९९॥ ॥सारस्वत उवाच॥एवं विज्ञापितो देव्या देवदेवो महेश्वरः ॥ससर्ज सहसा रुद्रं दक्षयज्ञजिघांसया ॥१००॥सहस्रशिरसं क्रूरं सहस्राक्षं महाभुजम् ॥सहस्रपाणिं दुर्द्धर्षं युगांतानलसन्निभम् ॥१०१॥दंष्ट्राकरालं दुष्प्रेक्ष्यं शंखचक्रधरं प्रभुम्॥दण्डहस्तं महानादं शार्ङ्गिणं भूतिभूषणम् ॥१०२॥वीरभद्र इति ख्यातं देवदेवसमन्वितम् ॥स जातमात्रो देवेशमुपतस्थे कृतांजलिः ॥१०३॥तमाह दक्षस्य मखं विनाशय शमस्तु तं ॥विनिन्द्य मां स यजते गंगाद्वारे गणेश्वर ॥१०४॥ततो बंधप्रमुक्तेन सिंहेनेव च लीलया ॥वीरभद्रेण दक्षस्य नाशार्थं रोम चोद्धुतम् ॥१०५॥रोम्णा सहस्रशो रुद्रा निसृष्टास्तेन धीमता ॥रोमजा इति विख्यातास्तत्र साहाय्यकारिणः ॥१०६॥शूलशक्तिगदाहस्ता दण्डोपलकरास्तथा ॥कालाग्निरुद्रसंकाशा नादयन्तो दिशो दश ॥१०७॥सर्वे वृषसमारूढाः सभा र्याश्चातिभीषणाः ॥समाश्रित्य गणश्रेष्ठं ययुर्दक्षमखं प्रति ॥१०८॥देवांगनासहस्राढ्यमप्सरोगीतिनादितम् ॥वीणावेणुनिनादाढ्यं वेदवादाभि नादितम् ॥१०९॥दृष्ट्वा दक्षं समासीनं देवैब्रह्मर्षिभिः सह ॥उवाच स वृषारूढो दक्षं वीरः स्मयन्निव ॥११०॥वयं ह्यचतुराः सर्वे शर्वस्यामितते जसः ॥भागार्थलिप्सया प्राप्ता भागान्यच्छ त्वमीप्सितान् ॥१११॥भागो भवद्भ्यो देयस्तु नास्मभ्यमिति कथ्यताम् ॥ततो वयं विनिश्चित्य करिष्यामो यथोचितम् ॥११२॥एवमुक्ता गणेशेन प्रजापतिपुरःसराः ॥११३॥ ॥देवा ऊचुः॥प्रमाणं नो विजानीथ भागं मंत्रा इति धुवम् ॥११४॥ ॥मंत्रा ऊचुः॥सुरा यूयं तमोभूतास्तमोपहतचेतसः ॥ये नाध्वरस्य राजानं पूजयेयुर्महेश्वरम् ॥११५॥ईश्वरः सर्वभूतानां सर्वदेवतनुर्हरः ॥ ॥गण उवाच॥पूज्यते सर्वयज्ञेषु कथं दक्षो न पूजयेत् ॥११६॥मंत्राः प्रमाणं न कृता युष्माभिर्बलगर्वितैः ॥यस्मादसह्यं तस्मान्नो नाशयाम्यद्य गर्वितम् ॥११७॥इत्युक्त्वा यज्ञशालां तां देवोऽहन्गणपुंगवः ॥गणेश्वराश्च संक्रुद्धा यूपानुत्पाट्य चिक्षिपुः ॥११८॥प्रस्तोतारं सहोतारमध्वर्युं च गणेश्वरः ॥गृहीत्वा भीषणाः सर्वे गंगास्रोतसि चिक्षिपुः ॥११९॥वीरभद्रोऽपि दीप्तात्मा वज्रयुक्तं करं हरेः॥व्यष्टंभयददीनात्मा तथान्येषां दिवौकसाम् ॥१२०॥भगनेत्रे तथोत्पाट्य कराग्रेणैव लीलया ॥निहत्य मुष्टिना दंडैः सप्ताश्वं च न्यपातयत् ॥१२१॥तथा चंद्रमसं देवं पादांगुष्ठेन लीलया ॥धर्षयामास वलवान्स्मयमानो गणेश्वरः ॥१२२॥वह्नेर्हस्तद्वयं छित्त्वा जिह्वामुत्पाट्य लीलया ॥जघान मूर्ध्नि पादेन मुनीनपि मुनीश्वरान् ॥१२३॥तथा विष्णुं सगरुडं समायातं महाबलः ॥विव्याध निशितैर्बाणैः स्तंभयित्वा सुदर्शनम् ॥१२४॥ततः सहस्रशो भद्रः ससर्ज गरुडान्बहून् ॥वैनतेयादभ्यधिकान्गरुडं ते प्रदुद्रुवुः ॥१२५॥तान्दृष्ट्वा गरुडो धीमान्पलायनपरोऽभवत् ॥तत्स्थितो माधवो वेगाद्यथा गौः सिंहपीडिता ॥१२६॥अंतर्हिते वैनतेये विष्णौ च पद्मसंभवः ॥आगत्य वारयामास वीरभद्रं शिवप्रियम् ॥१२७॥प्रसादयामास स तं गौरवात्परमेष्ठिनः ॥तेऽदृश्यं नैव जानंति रुद्रं तत्रागतं सुराः ॥१२८॥स देवो विष्णुना ज्ञातो ब्रह्मणा च दधीचिना ॥तुष्टाव भगवान्ब्रह्मा दक्षो विष्णुदिवौकसः ॥१२९॥विशेषात्पार्वतीं देवीमीश्वरार्द्धशरीरिणीम् ॥स्तोत्रैर्नानाविधैर्दक्षः प्रणम्य च कृताञ्जलिः ॥१३०॥ततो भगवती प्राह प्रहसंती महेश्वरम् ॥त्वमेव जगतः स्रष्टा संहर्ता चैव रक्षकः ॥१३१॥अनुग्राह्यो भगवता दक्षश्चापि दिवौ कसः ॥ततः प्रहस्य भगवान्कर्पद्दी नीललोहितः ॥उवाच प्रणतान्देवान्दक्षं प्राचेतसं हरः ॥१३२॥गच्छध्वं देवताः सर्वाः प्रसन्नो भवतामहम् ॥संपूज्यः सर्वयज्ञेषु प्रथमं देवकर्मणि ॥१३३॥त्वं चापि शृणु मे दक्ष वचनं सर्वरक्षणम् ॥त्यक्त्वा लोकेषणामेनां मद्भक्तो भव यत्नतः ॥१३४॥भविष्यसि गणेशानः कल्पांतेऽनुग्रहान्मम ॥तावत्तिष्ठ ममादेशात्स्वाधिकारेषु निर्वृतः ॥इत्युक्त्वाऽदर्शनं प्राप्तो दक्षस्यामिततेजसः ॥१३५॥दधीचिना शिवो दृष्टो विज्ञप्तः शापमोचने ॥कथं शापं मया दत्तं तरिष्यंति तवाज्ञया ॥१३६॥ ॥शिव उवाच॥भविष्यंति त्रयी बाह्याः संप्राप्ते तु कलौ युगे ॥पठिष्यंति च ये वेदास्ते विप्राः स्वर्गगामिनः ॥१३७॥आगमा विष्णुरचिताः पठ्यन्ते ये द्विजातिभिः ॥तेपि स्वर्गं प्रयास्यंति मत्प्रसादान्न संशयः ॥१३८॥कलिकालप्रभावेन येषां पाठो न विद्यते ॥गृहस्थधर्माचरणं कर्तव्यं मम पूजनम् ॥१३९॥अवश्यं च मया कार्यं तेषां पापविमोचनम् ॥भिक्षां भ्रमामि मध्याह्ने अतीते भस्मगुंठितः ॥१४०॥जटाजूटधरः शांतो भिक्षापात्रकरो द्विजः ॥यो ददाति च मे भिक्षां स्वर्गं याति स मानवः ॥१४१॥उपानहौ वा च्छत्रं वा कौपीनं वा कमंडलुम् ॥यो ददाति तपस्विभ्यो नरो मुक्तः स पातकैः ॥दधीचेः स वरान्दत्त्वा वभाषे सह विष्णुना ॥१४२॥ ॥रुद्र उवाच॥यस्ते मित्रं स मे मित्रं यस्ते रिपुः स मे रिपुः ॥यस्त्वां पूजयते विष्णो स मां पूजयते ध्रुवम् ॥१४३॥यः स्तौति त्वां स मां स्तौति प्रियो यस्ते स मे प्रियः ॥अहं यत्र च तत्र त्वं नास्ति भेदः परस्परम् ॥१४४॥ ॥कृष्ण उवाच॥एवमेतत्परं देव वक्तव्यं यत्तथैव तत् ॥अर्द्धनारीनरवपुर्यदा दृष्टो मया पुरा ॥१४५॥नेयं नारी मया दृष्टा दृष्टं रूपं किलात्मनः ॥शंखचक्रगदाहस्तं वनमालाविभूषितम् ॥१४६॥श्रीवत्सांकं पीतवस्त्रं कौस्तुभेन विराजि तम् ॥द्वितीयार्द्धं मया दृष्टं शूलहस्तं त्रिलोचनम् ॥१४७॥चंद्रावयवसंयुक्तं जटाजूटकपालिनम् ॥एकीभावं प्रपन्नोहं यथा पूर्वं तथाऽधुना ॥न मां गौरी प्रपश्येत प्रपश्यामि तथैव च ॥१४८॥ ॥ईश्वर उवाच॥आवयोरंतरं नास्ति चैकरूपावुभावपि ॥यो जानाति स जानाति सत्यलोकं स गच्छति ॥१४९॥इत्युक्त्वा स ययौ तत्र कैलासं पर्वतोत्तमम् ॥कृष्णोपि मंदरं प्राप्तो देवकार्येण केनचित् ॥१५०॥अत्रांतरे दैत्यराजो महादेवप्रसादतः ॥हिरण्यनेत्रतनयो बाधतेसौ जगत्त्रयम् ॥१५१॥अमरत्वं हराल्लब्ध्वा कामांधो नैव पश्यति ॥हरांगधारिणीं देवीं दिव्यरूपां सुलोचनाम् ॥१५२॥ममेति स च जानाति याचते च हरं प्रति॥हरोऽपि कार्यव्यसनस्त्यक्त्वा कैलासपर्वतम् ॥१५३॥मंदरं समनुप्राप्तो देवं द्रष्टुं जनार्द्दनम् ॥परस्परं समालोच्यामुंचद्देवीं स मंदरे ॥१५४॥नारायणगृहे देवी स्थिता देवीगणैर्वृता ॥अत्रांतरे गौतमस्तु गोवधान्मलिनीकृतः ॥१५५॥पवित्रीकरणायास्य भिक्षुरूपधरो हरः ॥गौतमस्य गृहं प्राप्तो मंदरं चांधको गतः ॥१५६॥ययाचे पार्वतीं दुष्टो युद्धं चक्रे स विष्णुना ॥हारितं तु गणैः सर्वैर्देवीं दैत्यो न पश्यति ॥१५७॥स्त्रीरूपधारी कृष्णोऽसौ गौरीं रक्षति मंदिरे ॥गौरीणां तु शतं चक्रे हरिस्तत्र स मायया ॥१५८॥विष्णोर्देहसमुद्भूता दिव्यरूपा वरस्त्रियः ॥अन्धको नैव जानाति कैषा गौरी नु पार्वती ॥१५९॥विलंबस्तत्र सञ्जातो मोहितो विष्णुमायया ॥तावच्छिवः समायातः कृत्वा गौतमपावनम् ॥१६०॥भिक्षामात्रेण चान्नेन गौतमो निर्मलीकृतः ॥सोंधकेन तदा युद्धं चक्रे रुद्रोऽपि कोपितः ॥१६१॥अमरोऽसौ हराज्जातः शूले प्रोतः सुदारुणे ॥शूलस्थस्तु स्तुतिं चक्रे तस्य तुष्टो महेश्वरः ॥१६२॥गणेशत्वं ददौ तस्मै यावदाभूतसंप्लवम् ॥स्वसरूपामुमादेवीं कृष्णस्तस्मै ददौ स्वयम् ॥१६३॥गौरीरूपाः स्त्रियश्चान्या धरित्र्यां तास्तु प्रेषिताः ॥कृत्वा नामानि सर्वासां लोके पूज्या भविष्यथ ॥१६४॥एता ये पूजयिष्यंति पूजयिष्यन्ति ते शिवाम् ॥शिवां ये पूजयिष्यंति तेऽर्चयन्ते हरं हरिम् ॥१६५॥उमां समादाय ययौ हरो गिरिं वृषं समारुह्य सुरासुरार्चितः ॥हरिस्तु रेमे रमया सहांधके हते च देवाः सुरराजमाययुः ॥१६५॥ब्रह्मेशनारायणपुण्यचेतसां शृण्वन्ति चित्रं चरितं महात्मनाम्॥मुच्यंति पापैः कलिकालसंभवैर्यास्यंति नाकं गणवृन्दवंदिताः ॥१६७॥एवं काले वर्त्तमाने हरः कैलासपर्वते ॥रक्षोदानवदैत्यैस्तु गृह्यतेऽसौ वरान्बहून् ॥१६८॥ब्रह्मदत्तवरो रौद्रस्तारकाख्यो महासुरः ॥तेन सर्वं जगद्व्याप्तं तस्य नष्टा सुरा रणे ॥१६९॥महादेवसुतेनाजौ हंतव्योऽसौ ससर्ज तम् ॥कार्तिकेयमुमापुत्रं रुद्रवीर्यसमुद्भवम् ॥१७०॥देवैरिन्द्रादिभिः सर्वैः सेनाध्यक्ष्येभिषेचितः ॥तेनापि दैवयोगेन तारकाख्यो निपातितः ॥१७१॥कैलासशिखरासीनो देवदेवो जगद्गुरुः ॥उमया सह संतुष्टो नन्दिभद्रादिभिर्वृतः ॥१७२॥स्कन्देन गजवक्त्रेण धनाध्यक्षेण संयुतः ॥अथ हासपरं देवं शनैः प्रोवाच तं शिवा ॥१७३॥केन देव प्रकारेण तोषं यास्यसि शंकर ॥मर्त्यानां केन दानेन तपसा नियमेन वा ॥१७४॥केन वा कर्मणा देव केन मन्त्रेण वा पुनः ॥स्नानेन केन देवेश केन धूपेन तुष्यसि ॥१७५॥पुष्पेण केन मे नाथ केन पत्रेण शंकर ॥कया संतुष्यसे स्तुत्या साहसेन च केन वै ॥१७६॥नैवेद्येन च केन त्वं केन होमेन तुष्यसि ॥केन कष्टेन वा देव केनार्घेण मम प्रभो ॥१७७॥षोडशैते मया प्रश्नाः पृष्टा मे निर्णयं वद ॥१७८॥ ॥शंकर उवाच॥साधु पृष्टं त्वया देवि कथयिष्ये मम प्रियम् ॥शिवपूजाप्रकारोऽयं क्रियते वचसा गुरोः ॥१७९॥अभयं सर्वजंतूनां दानं देवि मम प्रियम् ॥सत्यं तपः समाख्यातं परदारविवर्जनम् ॥१८०॥प्रियो मे नियमो देवि कर्म तल्लोकरञ्जनम् ॥मयों नमः शिवायेति मन्त्रोऽयमुररीकृतः ॥१८१॥सर्वपापविनिर्मुक्तो मम देवि स वल्लभः ॥पापत्यागो भवेत्स्नानं धूपो मे गौग्गुलः प्रियः ॥ ॥१८२॥धत्तूरकस्य पुष्पं मे बिल्वपत्रं मम प्रियम् ॥स्तुतिः शिवशिवायेति साहसं रणकर्मणि ॥१८३॥न बिभेति नरो यस्तु तस्याग्रे संभवाम्यहम् ॥हंतकारो गवां यस्तु नैवेद्यं मम वल्लभम् ॥१८४॥पूर्णाहुत्या परा प्रीतिर्जायते मम सुन्दरि॥शुश्रूषा वल्लभं कष्टं यतीनां च तपस्विनाम् ॥१८५॥सूर्योदये महादेवि मध्याह्नेऽस्तमने तथा ॥अर्घो यो दीयते सूर्ये वल्लभोऽसौ मम प्रिये ॥१८६॥किं दानैः किं तपोभिर्वा किं यज्ञैर्भाववर्जितैः॥दया सत्यं घृणाऽस्तेयं दंभपैशुन्यवर्जितम्॥भक्त्या यद्दीयते स्तोकं देवि तद्वल्लभं मम ॥१८७॥एवं यावत्कथयति प्रश्नान्सूक्ष्मान्यथोदितान् ॥तावद्ब्रह्मादिभिर्देवैर्विष्णुस्तत्र ययौ स्वयम् ॥१८८॥ ॥विष्णुरुवाच॥नाहं पालयितुं शक्तस्त्वं ददासि वरान्बहून् ॥दैत्यानां दानवादीनां राक्षसानां महेश्वर ॥१८९॥विकृतिं यांति पश्चात्ते कष्टं वध्या भवंति मे ॥पत्रेण पुष्पमात्रेण ॐकारेण शिवेन च ॥मुक्तिं याति नरो देव भवभक्तिं करोतु कः ॥१९०॥इन्द्रादयोऽपि ये देवा यज्ञैराप्याययंति ते ॥न यजंति द्विजा यज्ञान्भिक्षादानेन तुष्यसि ॥१९१॥ ॥रुद्र उवाच॥इन्द्रादिभिर्न मे कार्यं ब्रह्मा मे किं करिष्यति ॥येन केन प्रकारेण प्रजाः पाल्यास्त्वया ऽधुना ॥१९२॥मदीया प्रकृतिस्त्वेषा तां कथं त्यक्तुमुत्सहे ॥त्वयाहं ब्रह्मणा देवैर्वरकर्मणि योजितः ॥१९३॥इदानीमेव किं नष्टं मुक्त्वा देवीं तवाग्रतः ॥भूत्वा मूर्तिं परित्यज्य एकाकी विचराम्यहम् ॥१९४॥इत्युक्त्वा स शिवो देवस्तत्रैवांतरधीयत ॥गते तस्मिञ्छिवे तत्र संक्षोभः सुमहानभूत् ॥१९५॥उमा प्रोवाच चेन्द्रादीन्ब्रह्मविष्णुगणांस्तथा ॥इदानीं किं मया कार्यं भवद्भिः शिववर्जितैः ॥१९६॥अत्रान्तरे च ये चान्ये देवास्तत्र समागताः ॥ऋषयश्चैव सिद्धाश्च तथा नारदपर्वतौ ॥१९७॥गंगासरस्वतीनद्यो नागा यक्षाः समागताः ॥ब्रह्मादिभिः समालोच्य कथमेतद्भविष्यति ॥१९८॥ ॥विष्णुरुवाच॥सहैव गम्यतां तत्र यत्र देवो गतः शिवः ॥स्वल्पा यासेन ते यान्तु नराः स्वर्गं शिवाज्ञया ॥१९९॥सत्यलोके नरा यान्तु देवा यान्तु धरातलम् ॥रक्षोदानवदैत्यानां वरान्यच्छतु शंकरः ॥२००॥तेषां बाधा मया कार्या यै च स्युर्धर्मलोपकाः ॥हृष्टे शिवे मया कार्या व्यवस्था स्वर्गगामिनाम् ॥ ॥२०१॥त्रयीधर्मं परित्यज्य येऽन्यं धर्ममुपासते ॥ते नरा नरकं यांतु यावदाभूतसंप्लवम् ॥२०२॥यदाऽदृश्यः शिवो जातः प्रवि वेश गिरेर्वनम् ॥गिरीणां मध्यमास्थाय त्यक्त्वा दिव्ये स वाससी ॥२०३॥गजाजिनं परित्यज्य त्यक्त्वा मूर्त्तिं महेश्वरः ॥भित्त्वा भूमितलं देवः स्थाणुरूपो बभूव सः ॥२०४॥यस्मात्स्वंयभूर्भवति भवंस्तस्मात्स्वयं हरः ॥अत्रांतरे सुराः सर्वे न पश्यंति महेश्वरम् ॥ज्ञानातीतं कलातीतं दिव्यध्यानबहिः स्थितम् ॥२०५॥यदा देवा व्याकुलाः संपतंति रविर्वायुरंबरं तोयमुर्वी ॥निजे स्थाने वर्त्तमाना उमायाः शशंसुर्वै देवदेवं सुराणाम् ॥२०६॥स्वर्गे धरित्र्यां चरितं तलेषु देवेषु मर्त्येषु सरीसृपेषु ॥स्थूलेषु सूक्ष्मेषु यथा तथैव सत्यं हि वाच्यं पदमस्मदीयम् ॥२०७॥ततो देवाः प्रचलिताः कृत्वा गौरीं पुरस्सरम् ॥नंदि भद्रादयः सर्वे देवा इंद्रादयस्तथा ॥२०८॥स्कन्देन सहिता देवी सिंहारूढा ययौ स्वयम् ॥अधिरुह्य गरुत्मंतं ययौ विष्णुः सनातनः ॥२०९॥हंसाधिरूढो भगवान्ब्रह्मा याति स पृष्ठतः ॥ऐरावतं समारुह्य देवराजोऽगमत्स्वयम् ॥२१०॥गंगा सरस्वती देवी यमुना च महानदी ॥देवताश्च गताः सर्वे नागा यक्षाः सकिंनराः ॥२११॥गताः संक्षेपतः सर्वे यत्र देवो महेश्वरः ॥अधिरुह्य गिरेः शृंगमंबा देवी व्यवस्थिता ॥२१२॥विष्णुर्मुक्त्वा गरुत्मंतं स्थितो रैवतके गिरौ ॥स्तुतिं चक्रे तदा देवी जगुर्गीतं सुसंयताः ॥२१३॥ऐरावतपदाक्रांतो न चचाल स पर्वतः ॥भित्त्वा भूमितलं तत्र नागराजः समागतः ॥२१४॥गंगाद्याः सरितः सर्वास्तेन रंध्रेण चागताः ॥ब्रह्मा विष्णुर्यदा देवाः स्तुतिं चक्रुः समंततः ॥२१५॥ददर्श रूपं भगवान्भवो देवस्तदा हरः ॥२१६॥ततो हृष्टाः सुराः सर्वे अंबा हृष्टा गणाश्च ते ॥गम्यतां देव कैलासं देव्येति संप्रमोदितः ॥२१७॥ ॥ईश्वर उवाच॥यदि हृष्टाः सुराः सर्वे गंगाद्याः सरितस्तथा ॥गिरौ रैवतके विष्णुरंबा चात्रैव तिष्ठतु ॥२१८॥सरस्वती च यमुना रेवा चास्मिन्व्यवस्थिताः ॥स्वर्णरूपं जलं यस्मात्स्वर्णरेखेति सा नदी ॥२१९॥वस्त्रापथमिदं क्षेत्रं भवो देवोऽत्र तिष्ठतु ॥तीर्थमेतन्मया प्रोक्तं भुक्तिमुक्तिप्रदायकम् ॥अत्र स्नातो नरो नारी मुच्यते सर्व पातकैः ॥२२२०॥इति प्रोच्य शिवो देवः कलां न्यस्य भवे तदा ॥पश्यतां सर्वदेवानां ययौ कैलासपर्वतम् ॥२२१॥अंबेति स्कन्दवदनात्कलां न्यस्य गिरौ तदा ॥देवेन सहिता देवी वृषारूढा ययौ स्वयम् ॥२२२॥नारायणो रैवतके गिरौ रम्ये स्थितः स्वयम् ॥कल्पादौ च युगादौ च स्थितो विष्णुः सदा गिरौ ॥२२३॥बहुरात्रस्थितो देवः कृत्वा दैत्यनिबर्हणम् ॥रेमे रैवतके देवो यावदाभूतसंप्लवम् ॥२२४॥नारसिंहेन रूपेण हिरण्यकशिपुर्हतः ॥हत्वा तदा गतस्तत्र नारसिंहं मुमोच ह ॥२२५॥महावराहरूपेण हिरण्याक्षो निपातितः ॥तदेव मुक्त्वा देवेशः स्थितो रैवतके गिरौ ॥२२६॥स पृथुं पार्थिवं कृत्वा देवकार्येण वै नृप ॥गिरौ रैवतके देव उवास सुरपूजितः ॥२२७॥अत्रागत्य पृथुः पूर्वं चक्रे देवप्रपूजनम् ॥जपमाला तदा कण्ठे पृथुना संनिवेशिता ॥दामोदरेति देवेशनाम चक्रे पृथुः स्वयम् ॥२२८॥वस्त्रापथे देववरो भवः स्थितो दामोदरो रैवतके व्यवस्थितः ॥अंबेतिदेवी गिरिमूर्ध्नि संस्थिता देवाश्च सर्वे परितः प्रतिष्ठिताः ॥२२९॥क्षेत्राधिपास्तीर्थवरस्य रक्षका देवेन मुक्ता भवसंनिधानतः ॥पश्यंति ये देववरं भवाभिधं मुच्यंति ते यांति दिवं नरा भुवः ॥२३०॥वस्त्रापथस्य क्षेत्रस्य भवस्य च मया तव ॥उत्पत्तिः कथिता राजन्किमन्यच्छ्रोतुमिच्छसि ॥२३१॥शृणोति पठते यश्च कथां चेमां समंततः ॥सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते ॥२३२॥ब्रह्मघ्नश्च सुरापश्च भ्रूणहा गुरुतल्पगः ॥स्वर्णरेखाजले स्नातो मुच्यते सर्वपातकैः ॥२३३॥ये च कीटपतंगाद्याः स्वर्णरेखा जले मृताः ॥सर्वपातकनिर्मुक्तास्ते प्रयांति सुरालयम् ॥१३४॥स्वर्णरेखाजले स्नात्वा संध्यां श्राद्धं करोति यः ॥वस्त्रापथे भवं पूज्य ब्रह्मलोकं स गच्छति ॥२३५॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे वस्त्रापथक्षेत्रमाहात्म्ये भवोत्पत्तिवृत्तांत वर्णनंनाम नवमोऽध्यायः ॥९॥ N/A References : N/A Last Updated : January 14, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP