वस्त्रापथक्षेत्र माहात्म्यम् - अध्याय १३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥सारस्वत उवाच॥
छित्त्वा शुभाशुभं कर्म मुक्तिमिच्छेच्छिवां ततः ॥
इदं न शक्यते कर्त्तुं शुभं कार्यं तदा नरैः ॥१॥
उत्थायोत्थाय स्नातव्यं पूज्यौ हरिहरौ स्वयम् ॥
सत्यं वाच्यं हितं कार्यं दानं देयं स्वशक्तितः ॥२॥
परापवादभीरुत्वं परदारान्विवर्जयेत् ॥
सुवर्णभूमिहरणब्रह्मदेवस्ववर्जनम् ॥३॥
ब्राह्मणस्त्रीनरेंद्राणां बालवृद्धतपस्विनाम् ॥
पितृमातृगुरूणां च नाप्रियं मनसा वदेत् ॥४॥
देशकालपरिज्ञानं पात्रापात्रविवेचनम् ॥
छाया नृणां न वक्तव्या तक्राग्नींधनकांजिकम् ॥५॥
औषधं शाकमर्थिभ्यो दातव्यं गृह मेधिभिः ॥
एकादशीपंचदशीचतुर्दश्यष्टमीषु च ॥६॥
अमावास्याव्यतीपातसंक्रांतिग्रहणेषु च ॥
वैधृते पितृमात्रोश्च क्षयाहदिवसेषु च ॥७॥
युगादिमन्वादिदिने गृहे कार्यो महोत्सवः ॥
तीर्थे वा गमनं कार्यं गृहाच्छतगुणं यतः ॥८॥
इद्रियाणां जयः कार्यो मद्यं द्यूतं विवर्जयेत् ॥
विवादं गमनं युद्धं गृही यत्नेन वर्जयेत् ॥९॥
स्नानं दानं जपो होमो देवपूजा द्विजार्चनम् ॥
अक्षयं जायते सर्वं विधिवच्चेद्भवेत्कृतम् ॥१०॥
एकापि गौः प्रदातव्या वस्त्रालंकारभूषणा ॥
दोग्ध्री सवत्सा तरुणी द्विजमुख्याय कल्पिता ॥११॥
संप्राप्य भारतं खंडं मानुषं जन्म चोत्तमम् ॥
धन्यो ददाति यो धेनुं स नरः सूर्यमण्डलम्॥
भित्त्वा याति विमानेन गम्यमानो गवादिभिः ॥१२॥
सप्त जन्मानि पापानि कृत्वा पापीह चाधमः॥
एको ददाति यो धेनुं मुच्यते सर्वपातकैः ॥१३॥
यदा स नीयते बद्धो यममार्गेण किंकरैः ॥
तदा नंदा समागत्य स्वं पुत्रमिव पश्यति ॥१४॥
विजित्य हुंकृतेनैव तान्दूतान्दूरतः स्थितान् ॥
गोप्रदं तं समादाय प्रयाति शिवमन्दिरम् ॥१५॥
वृषो धर्म हति प्रोक्तो येन मुक्तः स मुच्यते ॥
गोषु मध्ये पितॄन्सर्वान्हरमुद्दिश्य वा हरिम् ॥१६॥
सूर्यब्रह्मपुरे वासो जायते ब्रह्मवासरे ॥
दृढं ककुद्मिनं संतं युवानं भारसाधनम् ॥१७॥
हलक्षमं बलीवर्दं दत्त्वा विप्राय पर्वसु ॥
तमारुह्य नरो याति गोलोकं शिवसंनिधौ ॥१८॥
अश्वं सास्तरणं दत्त्वा खलीनेन च संयुतम् ॥
अश्वराजबलात्स्वर्गे मोदते ब्राह्मवासरम् ॥१९॥
गजदानाद्गजेंद्रेण नीयते नंदनं वनम् ॥
पृथिव्यां सागरांतायामेष राजा भविष्यति ॥२२०॥
गृहं सोपस्करं दत्त्वा विप्राय गृहमेधिने ॥
लभते नंदने दिव्यं विमानं सार्वकामिकम् ॥२१॥
द्रव्यं पृथिव्यां परमं सुवर्णं हृष्यंति देवा यदि दीयते ततः ॥
सूर्योपि तस्मै रुचिरं विमानं ददाति तावद्भ्रमतेऽत्र यावत् ॥२२॥
रौप्यं पितॄणामतिवल्लभं तद्दत्त्वा नरो निर्मलतामुपैति ॥
सोमस्य लोकं लभते स तावद्भुवे निवद्धा ऋषयो हि यावत् ॥२३॥
श्रीखंडकर्पूरसमाकुलानि तांबूलरत्नादिफलानि दत्त्वा ॥
पुष्पाणि वस्त्राणि सुखेन याति साकं शशांकं दिवि देववृंदैः ॥ ॥२४॥
तक्रोदकतैलघृतदुग्धेक्षुरसमधूनि यो दद्यात् ॥
खर्जूरखंडद्राक्षावातामांजीरकैः साकम् ॥२५॥
दर्भाक्षतमृद्गोमयदूर्वायज्ञोपवीतानि ॥
तिलचर्मसूर्यपिटकं दत्त्वा ख्यातश्चिरं स्वर्गे ॥२६॥
आत्माहाराच्चतुर्भागं सिद्धान्नाद्यदि दीयते ॥
हन्तकारः स तं दत्त्वा ध्रुवं याति ध्रुवालये ॥ ॥२७॥
आत्माहारप्रमाणेन प्रत्यहं गोषु दीयते ॥
गवाह्निकं तासु दत्त्वा नरो याति सुरालयम् ॥२८॥
कंडनीपेषणीचुल्लीमार्जनीभिश्च यत्कृतम् ॥
पापं गृही क्षालयति ददद्भिक्षां दिनं प्रति ॥२९॥
ग्रासमात्रा भवेद्भिक्षा सा नित्यं यत्र दीयते ॥
तद्गृहं गृहमन्यच्च स्मशानमिव दृश्यते ॥३०॥
कुम्भान्सोदकसिद्धान्नांश्छत्रोपानत्कमंडलुम् ॥
अंगुलीयकवासांसि दत्त्वा याति नरो दिवि ॥३१॥
श्रांतस्य यानं तृषितस्य पानमन्नं क्षुधार्त्तस्य नरो नरेन्द्र ॥
दत्त्वा विमानेन सुरांगनाभिः संस्तूयमानस्त्रिदिवं स याति ॥३२॥
भोजनं सततं देयं यथाशक्त्या घृत प्लुतम् ॥
तन्मया हि यतः प्राणा अतः पुष्यंति प्राणिनः ॥३३॥
क्षुत्पीडा महती लोके ह्यन्नं तद्भेषजं स्मृतम् ॥
तेन सा शांतिमायाति ततोन्नं देयमुत्तमम् ॥३४॥
अन्नं वस्त्रं फलं तोयं तक्रं शाकं घृतं मधु ॥
पत्रं पुष्पं तथोपानत्कंथां यष्टिं कमंडलुम् ॥३५॥
छत्रपात्रे व्रतं विद्या अक्षमाला सुरार्चनम् ॥
कन्या कुशोपवीतानि बीजौषधगृहाणि च ॥३६॥
सस्यं क्षेत्रं यज्ञपात्रं योगपट्टं च पादुके ॥
कृष्णाजिनं बुद्धिदानं धर्मादेशकथानकम् ॥३७॥
अथैतत्संततं देयं तेन श्रेयो महद्भवेत् ॥
सर्वपापक्षयं कृत्वा दाता याति शिवालयम् ॥३८॥
श्राद्धे गृहस्था भोक्तव्याः कुलीना वेदपारगाः ॥
अक्रोधनाः स्नानशीलाः स्वदेशाचारतत्पराः ॥३९॥
आमंत्र्य पूर्वदिवसे निरीहा अपि ये द्विजाः ॥
अलोलुपा व्याधिहीना न तु ये ग्रामयाजिनः ॥४०॥
तेषां पुरः प्रदातव्यं पिंडदानं विधानतः ॥
श्राद्धं श्रद्धाविहीनेन कृतमप्यकृतं भवेत् ॥४१॥
तस्माच्छ्रद्धान्वितैः श्राद्धं कर्त्तव्यं क्रोधवर्जितैः ॥
वानप्रस्थो ब्रह्मचारी पथिकस्तीर्थसेवकः ॥४२॥
अतिथिर्वैश्वदेवांते स पूज्यः श्राद्धकर्मणि ॥
सर्वदा यतयः पूज्याः स्वशक्त्या गृहमेधिभिः ॥४३॥
यात्राविधिमथो वक्ष्ये सेतिहासं नृपोत्तम ॥४४॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये तीर्थयात्राविधिवर्णने श्राद्धदानादिमाहात्म्यवर्णनंनाम त्रयोदशोऽध्यायः ॥ ॥१३॥

N/A

References : N/A
Last Updated : January 14, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP