संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|विश्वकर्मकृतायां वास्तुशास्त्रे वास्तुविद्या| षष्टदशोध्यायः विश्वकर्मकृतायां वास्तुशास्त्रे वास्तुविद्या अन्तर्विषयाः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पंचमोध्यायः षष्ठोऽध्यायः सप्तमोध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्याय: एकादशोध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पंचदशोध्यायः षष्टदशोध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्याय: षष्टदशोध्यायः विश्वकर्मकृतायां वास्तुशास्त्रे वास्तुविद्या Tags : vastuvastu shastraवास्तु विद्यावास्तु शास्त्रशास्त्र षष्टदशोध्यायः Translation - भाषांतर गौरीस्वरूपाध्यायश्री विश्वकर्माकृतायां वास्तुशास्त्रे वास्तुविद्यायां द्वादश गौरी स्वरूपाध्याय क्रमांक अध्याय १६अथ गौर्याः प्रवक्ष्यामि प्रमाणं मूर्ति लक्षणम्चतुर्भुजा त्रिनेत्रा च सर्वाभरणभूषिता ॥१॥गोधासनो परिस्था च कर्तव्या सर्व कामदाइति गौरी मूर्ति स्वरूपउमा च पार्वती गौरी ललिता च श्रिया तथा ॥२॥कृष्णा च हिमवती च रंभा च सावित्री तथात्रिखंडा तोतला चैव त्रिपुरा द्वादशोदिताःइति गौरि नामानि ॥३॥१ उमा देवी-अक्षसूत्रं च कमलं दर्पणं च कमंडलुःउमानाम्ना भवेन्मूर्ति पूजिता त्रिदशैरपि ॥४॥२ पार्वती देवी-अक्षसूत्रं शिवदेवं गणाध्यक्षं कमंडलुम्अग्निकुंडोपक्षद्वये पार्वती पर्वतोद्भवा ॥५॥३ गौरी देवी-अक्षसूत्राभये पद्म तस्योधस्तु कमंडलुःगौर्याश्रु मूर्तिरित्युक्ता कर्तव्या शिवशालिनी ॥६॥४ ललिता देवी-अक्षसूत्रं तथा वीणा दर्पणेऽध कमंडलुःललिता च तदा नाम सिद्धचारण सेविता ॥७॥५ श्रिया देवी-गोधासनाक्षसूत्रो च वरदाभयकमंडलुःश्रिया मूर्तिस्तदानाम गृहे पूज्या श्रिये सदा ॥८॥६ कृष्णा देवी-अक्षसूत्रं कमंडलुहृदयेतपुटाजलिःपंचाग्नयश्च कुंडेषु कृष्णा नाम सुशोभना ॥९॥७ हिमवती देवी-हिमवंती शैलराजी तस्यावत्या गिरिसुतापद्मदर्पणाभयतु विवाहेतु महेश्वरी ॥१०॥८ रंभा देवी-कमंडल्वक्षवज्रांकुश गजासनं संस्थितासांप्रतितोद्भवद्रू पा रंभा च सर्वकामदा ॥११॥९ सावित्री देवी-अक्षसूत्रं पुस्तकं च धत्ते पद्मकमंडलुचतुर्वक्त्रातु सावित्री श्रोत्रियाणां गृहे हिता ॥१२॥१० त्रिखंडा देवी-अक्षसूत्रवज्रशक्ति तस्याधश्च कमंडलुत्रिखंडा पूज्येन्नित्यं सर्वकामफलप्रदाम् ॥१३॥११ तोतला देवी-शुलाक्षसूत्रं दंड च श्वेतयामरकं तथाश्वेतदेहा भवेत् देवी तोतला पापनाशिनी ॥१४॥१२ त्रिपुरा देवी-पाशांकुशाभयवरं चतुर्हस्तेष्वनुक्रमात्त्रिपूरानाम संपूज्या वंदिता त्रिदशैरपि ॥१५॥इति द्वादश गौरि स्वरूपइति श्री विश्वकर्मा कृतायां वास्तुशास्त्रे वास्तुविद्यायां द्वादश गौरि स्वरूपाध्याय क्रमांक अध्याय ॥१६॥सरस्वती स्वरूपाध्यायश्री विश्वकर्माकृते वास्तुशास्त्रे वास्तुविद्यायां द्वादश सरस्वती स्वरूपाध्याय क्रमांक अध्याय १६अथातः संप्रवक्ष्यामि द्वादश वाणी लक्षणम्चतुर्भुजाश्चैकवक्त्रा मुकुटेन विराजिताः ॥१॥प्रभामंडल संयुक्ता कुंडलान्वितन्वरभूषितावस्त्रालंकार संयुक्ताः सुरूपा नवयौवनान्विता ॥२॥सुप्नसन्ना तेजाढ्या नित्यं च भक्तवत्सला१ श्रिया देवी-दक्षिणे चाक्षसूत्रं च तदूर्ध्वे पद्ममुत्तमम् ॥३॥परमामुत्तमा वीणां वामे ध पुस्तकं भवेत्२ सरस्वती देवी-दक्षिणाधक्षसूत्रं तदूर्ध्वे पुस्तकं तथा ॥४॥वीणा वामकरे ज्ञेया तदधःपद्मपुस्तकम्द्वितीया सरस्वती नाम हंसवाहनसंस्थितं ॥५॥३ कमलारुक्षिणी देवी-वरदं दक्षिणे हस्ते पद्मपत्र तदूर्ध्वतःपद्मं वामकरे ज्ञेयं वामाधः पुस्तकं भवेत् ॥६॥४ जया देवी-दक्षिणे वरदं ज्ञेयं तदर्धे पद्ममुत्तमंपुस्तकं वामहस्ते तु अधोवामे क्षमालिका ॥७॥५ विजया देवी-वरदं दक्षिणे हस्ते अक्षसूत्रं तदूर्ध्वतःपुस्तकं वामहस्ते तु तस्याध पद्ममुत्तमं ॥८॥६ सारंगी देवी-वरददक्षिणे हस्ते पुस्तकं च तदूर्ध्वतःअक्षसूत्रं करे वामे वामाधः पद्ममुत्तम ॥९॥७ तुंबरी देवी-अभय च दक्षिणे हस्ते तदूर्ध्वे अक्षमालिकावीणा वामकरे ज्ञेया तस्याध पुस्तकं भवेत् ॥१०॥८ भारती देवी-वरदं दक्षिणे हस्ते तदूर्ध्वे कमलं भवेत्वीणा वाम करे ज्ञेया तस्याधः पुस्तक भवेत् ॥११॥९ सुमंगला देवी-दक्षिणे वरदसूत्रं च पद्मतस्यो परिस्थितंवीणा च वामोर्ध्वे स्यात् वामाधः पुस्तकं भवेत् ॥१२॥१० विद्याधरी देवी-पद्मं च दक्षिणे हस्ते ऊर्ध्वं चाक्षमालिकाम्वीणा वाम हस्ते तु पुस्तकं स्यात्तदधःत ॥१३॥११ सर्वविधा देवी-दक्षिणे चाक्षसूत्रं तु पद्म तस्योर्धः स्थितिपुस्तकं वाम हस्ते च चाभयं तस्योदधःत ॥१४॥१२ शारदा देवी-अभयं दक्षिणे हस्ते ऊर्ध्वे पद्मं च दृश्यतेपुस्तकं वामहस्ते तु तस्याधश्चाक्षमालिकाम् ॥१५॥द्वादश शारदानाम इति शास्त्रस्य निर्णयःइति श्री विश्वकर्मा कृतायां वास्तुविद्यायां वास्तुशास्त्रे पद्मासन संस्थिता हंसारूढा प्रसन्ना च पूजिता सरस्वती द्वादशमूर्ति ।श्री विश्वकर्माकृतायां वास्तुशास्त्रे वास्तुविद्यायां द्वादश सरस्वती स्वरूपाध्याय क्रमांक अध्याय १६ N/A References : N/A Last Updated : March 29, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP