संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|विश्वकर्मकृतायां वास्तुशास्त्रे वास्तुविद्या| अष्टमोऽध्यायः विश्वकर्मकृतायां वास्तुशास्त्रे वास्तुविद्या अन्तर्विषयाः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पंचमोध्यायः षष्ठोऽध्यायः सप्तमोध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्याय: एकादशोध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पंचदशोध्यायः षष्टदशोध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्याय: अष्टमोऽध्यायः विश्वकर्मकृतायां वास्तुशास्त्रे वास्तुविद्या Tags : vastuvastu shastraवास्तु विद्यावास्तु शास्त्रशास्त्र अष्टमोऽध्यायः Translation - भाषांतर शिखरलक्षणाध्यायअथ श्री विश्वकर्माकृते वास्तुविद्यायां शिखरलक्षणाध्याय क्रमांक आध्याय ८एकस्थापि तलस्योर्ध्वे शिखराणि बहून्यपिशिखराश्च विविधाकार मनेकांऽकभूषिता ॥१॥छाद्योर्ध्वे प्रहारा स्यात् शृंगेशृंगे तथैव चमूलकर्णस्थादौ च एक द्वित्रिक्रमे न्यसेत् ॥२॥निरंधारे मूलभितौ सांधारे भ्रमभित्तिषुरेखा विस्तार मानेन सपादं तदुच्छ्रय ॥३॥त्रिभाग सहितश्चैव सार्ध्ववातु विचक्षणंदशधामूल पृथुत्वे षड्भागः स्कंध उच्यते ॥४॥षड्बाह्ये दोषदं प्रोक्त पंचमध्येन शोभनम्अतोर्घ्वं शिखरं मूले समासान्न तु विस्तरात् ॥५॥चतुरश्री कृते क्षेत्रे दशधा प्रतिभाजितः ॥६॥द्वौ द्वौ भागो तु कर्तव्यौ कोणे कोणे न संशयःभद्र भाग त्रयं कार्यं सार्धभागं तु चानुगम् ॥७॥व्यासमानं सपादं च उच्छ्रयेण तु कारयेत्स्कन्धं षड्भागिकं कार्यं तस्यार्धे नवधा भजेत् ॥८॥चतुर्भागायतं कोणं त्रिभिर्भागंस्तु चानुगःभद्रा र्धं तु द्विभिर्भागेस्ततः साधयते कला ॥९॥आदिकोणं द्विधाकृत्वा प्रथमं वेद भाजितम्द्वितीयं तु त्रिभिर्भागैरेवं सप्तकला भवेत् ॥१०॥उदयं चाष्टभिर्भागैः कृत्वा रेखा समालिखेत्ऊर्ध्व तिर्यक् भागानां भागे भागं तु लाञ्छयेत् ॥११॥एवं सिद्धयेद् रेखा भद्रे कोणे च चानुगेविषमा भूमिका ज्ञेया पञ्चसप्तनवस्तथा ॥१२॥दशमेकाधिका कार्या त्रयोदश तथा परापञ्चाधिकं दशै कार्या आघाटैश्चोपल क्षिताः ॥१३॥दशभिर्भागे षड्भागे स्कंध विस्तरात्मूलरेखाः ---सप्तभागे आमलासारो विस्तारास्यार्धोदये कृतःप्रतिरथावुभौ मध्येऽमलसारस्य विस्तरम् ॥१४॥ततो विस्तरमर्धेन कृत्वा चैव ततोच्छ्रयम्उच्छ्रयं त्रीणि सार्धानि विभजेत्तदनन्तरम् ॥१५॥ग्रीवा पादोन भागेन सपादामलसारकम्चन्द्रि का भाग पादोन पादोनामलसारिको ॥१६॥ग्रीवायासं च विस्तरं आमलसारं सप्तभिश्चचन्द्रि का पंचमी ज्ञेया त्रिभिस्तु मालसारिका ॥१७॥पद्मच्छत्रे तथा पद्मं आमलसारे तथाऽमलम्कलशे च स्थितो रुद्रो व्योम व्यापि सदाशिव ॥१८॥सद्योवामस्तथा घोरं तत्पुरुषीशानमेवःएतदेवासमाख्याता प्रासादो समाश्रितेकर्णं प्रतिरथे भद्रे रथे पञ्जरभद्र योः ॥१९॥पञ्चवक्त्रे दिक्षुभद्रे अङ्ग सङ्ख्या प्रशस्यतेएता देवाः समाख्याता प्रासादेषु समाश्रिता ॥२०॥मूलरेखास्य मानेन कलशं पंचभागतमं स्याद् द्विभागिकम्अथवा प्रासादोष्ट भाग कलशविस्तरे तत ॥२१॥उच्छ्रये विस्तरे सार्धतुल्य कुर्यान्न संशयेविस्तारो सार्ध उच्छ्रये त्रयभागं च अंडकेआर्ध चतुर्भिर्भाज्येत्सर्वं भागं तस्य परित्यजेत्भागत्रयमधस्ताच्च भोगे वृत्तं ततोपरि ॥२२॥अधोवृत्तं द्विभिर्भागैः भ्रामयेन्नात्र संशयःएवं तु सिद्धते चाण्डं अधोभागे न संशयः ॥२३॥अर्ध भागोछ्रिता ग्रीवा अर्धे कर्णं पद्मपत्रिकाम्कर्तव्यं च द्विभिर्भागैः विस्तारं कर्णयोर्द्वयोः ॥२४॥विस्तारं भागमेकेन कण्ठस्यैव तु कारयेत्मातुलिङ्गं च कर्तव्यं द्विभिर्भागैः समुच्छ्रितम् ॥२५॥अधोमेकभागं च ऊर्ध्वे नार्ध विस्तराकर्तव्यं सर्वतस्तेवं न न्यूनं न ततोऽधिकम् ॥२६॥अतः परं प्रवक्ष्यामि पुरुषं विन्यसेद्यथा ॥२७॥न्यसेत् देवालयेन चतुर्वर्गफलं लभेत्छाद्यनोपप्रदेशे तु शृङ्गमध्येऽथ चोपरि ॥२८॥शुकनासावसाने तु विधुवद्वेदयाभूमिकान्तरेमध्यगर्भे विद्यातव्यो हृदावरण को विधिः ॥२९॥पुंसस्तुर्य मय तत्र सर्वतः पुटिते न्यसेत्कलशाधृतोपूर्ण परिपर्यकोर्धस्थापनेशयी तस्यामि निप्रस्थ पद्मं च दक्षिणे करे ॥३०॥त्रिपताकं करे वामे कारये हृदि संस्थितम्प्रमाणं यास्य वक्ष्यामि प्रासादो चैक हस्तके ॥३१॥अर्धमङ्गुल सङ्ख्या च कर्तव्यो नात्र संशयःअर्धाङ्गुला भवेद् वृद्धिर्यावत् पंचाश हस्तकं ॥३२॥हेमजे रनरजे वापि ताम्रजे वापि भागशःकलश आञ्जपूर्णे तु सौवर्णं पुरुषं क्षिपेत् ॥३३॥स्थिरः अध्मनि विन्यस्तं अधोधं मध्यमाधमम्पूज्य वास्त्वगारे शोध्यन मन्त्रस्याभि मन्त्रयेत् ॥३४॥अतो रेखां प्रवक्ष्यामि सङ्ख्यया पञ्चविंशतिःसच्या सा शोभना भद्रा सुरूपा सुमनोहरा ॥३५॥शुभा चैव तथा शान्ता कौबेरी च सरस्वतीकोला च कलवीरा च कुमुदा पद्मिनी तथा ॥३६॥कनका विकटा चैव रम्या च रमणी तथावसुंधरा तथा हंसी विशाखा नंदिनी भवेत् ॥३७॥जया च विजया चैव सुमुखा च प्रियाननाइत्येतानि च रेखाणि सङ्ख्यायां पञ्चविंशतिः ॥३८॥ध्वजलक्षणाधिकारःको ध्वजो ध्वजमित्या रोहणं च कीदशम्निरंधारे किं प्रमाणं च कथं वा तस्य कल्पना ॥३९॥श्री विश्वकर्मा उवाचध्वजानुरोहणं वक्ष्ये कृते येन फलं लभेत्सुदृढं विषमं पर्व ध्वजं वंशं परीक्षयेत् ॥४०॥---अनुगोपरि संस्थाप्य ध्वज तु दक्षिणां दिशम् ॥४१॥पश्चिमा मुखाकार्या प्रासाद पुरभूषणःइशान्यांदिशिमाश्रित्य ध्वजादण्ड निवेशनम् ॥४२॥पूर्वमुखे तु प्रासादे दृष्टव्या सुरवल्लभानैऋत्यां तु प्रकर्तव्यां ध्वजादण्ड निवेशनम् ॥४३॥दक्षिणाभिमुखं कार्य प्रासाद कीर्तिसम्भवावायव्या चानुगे दिक्षु ध्वजादण्ड निवेशनम् ॥४४॥उत्तराभिमुखं वत्स प्रासादे तत्र कारयेत्वायव्ये चानुगे तस्य ध्वजादण्ड निवेशनम् ॥४५॥मूलगर्भस्य यन्मानं दक्षिणा दिशमाश्रितम्अनुगस्योपरि कार्यं ध्वजादण्ड निवेशनम् ॥४६॥प्रासादस्यनुयद्वारं प्राचीस्था तत्र कल्पयेत्पृष्ठश्चानुगे दिक्षु दृष्टव्य ध्वजलक्षणम् ॥४७॥दिशायां बिदिशायां च प्रासादमुखकल्पनापृष्ठश्चानुगे दिक्षे दृष्टव्यं ध्वजलक्षणम् ॥४८॥मेरु शृङ्गे तु प्रासादे भद्र को गेतु चानुगेमूलप्रासादमानेन ध्वजादण्ड निवेशनम् ॥४९॥चतुर्मुखं ततो वत्स प्रासादं सर्वकामदम्ईशान्यां दिशमाश्रित्य ध्वजादण्ड निवेशनम् ॥५०॥तोरणेन तथा चैव शुकनासे बलानकेमूलप्रासाद मानेन ध्वजादण्ड निवेशयेत् ॥५१॥पूरे ग्रामे नगरे च दुर्ग यत्रा नियोजयेत्ध्वजस्य नियमो नास्ति सर्वतोमुख शोभना ॥५२॥अत्रतिष्ठे ध्वजाकार्या जलाश्रयं तत्र शोधयेत्दक्षिणां दिशमाश्रित्य दृष्टव्यं ध्वजलक्षणम् ॥५३॥गिरिदोष हिते वत्स प्रासादे न च मन्दिरेस्थानानैव प्रकर्तव्या इत्युक्तं च स्वयंभुवा ॥५४॥पञ्चगव्य समायुक्तं पञ्चवर्ण च संयुतम्प्लावधे तत्र मध्यस्थे तत्रकार्य समाचरेत् ॥५५॥विजयश्च शक्तिरूपं च सुप्रभं तु जयावहम्पञ्चमं विश्वरूपं च प्रमाणं तस्य कल्पयेत् ॥५६॥ध्वजदंडदीर्घमानप्रासादे कटि विस्तारे चतुष्की स्तम्भ विस्तरात्गर्मभित्ति समंदैर्घ्यं क्वचित् कर्ण प्रविस्तरम् ॥५७॥विभक्ते चैव प्रासादे शिखरं विस्तर तत्सम्ध्वजवंशस्य दीर्घत्वं मया प्रोक्तं मतान्तरे ॥५८॥ज्येष्ठे च मध्यमे चैव कन्यसे च प्रकल्पयेत्त्रिपर्वं च जयं नाम शक्तिरूपं च पञ्चभिः ॥५९॥सुप्रभं सप्तपर्वं तु नवपर्वं जयावहविश्वरूपं द्विरूपं तु बहुपर्वं समन्वितम् ॥६०॥वंशमयो च कर्तव्यः सारदारु समन्वितःध्वजदंडकाष्टशिशवं खदिरं चैव अञ्चन मधुकं तथा ॥६१॥दृढढारु शुभं कार्यं ग्रन्थिकोटर वर्जितम्पिण्डश्चैव प्रकर्तव्यः ध्वजदण्डस्य कल्पयेत् ॥६२॥अंशे द्वात्र्! यंशके चैव चत्वारिंश तु मध्यमेज्येष्ठे चैव प्रकर्तव्या षष्टिः अंशकाः स्मृता ॥६३॥एवंविधं तु कर्तव्यं हेमरूपेन वेष्ठितामर्कटिकाःतदूर्ध्व चैव वक्ष्यामि मर्कटकां सुशोभनम् ॥६४॥तदूर्ध्व तु षडंशेन मर्कटी चार्ध विस्तराततस्त्रिभाग उत्सेधं किंकिणी मण्डिता शुभा ॥६५॥कलशं कारयेत्तस्य पञ्चमांशेन दीर्घतःआयुधं वाहनं वापि ध्वजाग्रे तस्य धारयेत् ॥६६॥नवभागेन वंशस्य प्रमाणं तस्य कल्पयेत्शिखराध त्रिभागोर्ध्वं वंशाधा सुनिश्चियम् ॥६७॥पताकाविजया वैजयंती च शक्तिरूपा तथैव चअपराजिताः सुरूपाः पताका परिकीर्तिताः ॥६८॥दिव्य वस्त्र पताका च पञ्चवर्णक संयुतातारकैरर्धचन्द्र श्च किंकिणी घुर्घुरान्विता ॥६९॥निष्पन्नं शिखरं दृष्ट्वा ध्वजहीनं न धारयेत्असुरा वासमिच्छन्ति ध्वजहीनं सुरालवे व७०॥वाताहुनं पताकानां फोफारो यत्र दृश्यतेतत कृतं निष्फलं यान्ति पुण्यं तस्य न विद्यते ॥७१॥तस्मात्सर्वप्रयत्नेन ध्वजहीनं न धारयेत्ईदृशं कुरुते यस्तु स्थापकः स्थपक सदा ॥७२॥राज्यवृद्धिः स्थानवृद्धिः प्रजा सौख्येन नंदति--- --- ७३इति श्री विश्वकर्माकृते वास्तुविद्यायां वास्तुशास्त्रे शिखरलक्षणाध्याय क्रमांक ८ N/A References : N/A Last Updated : March 29, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP