संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|विश्वकर्मकृतायां वास्तुशास्त्रे वास्तुविद्या| दशमोऽध्याय: विश्वकर्मकृतायां वास्तुशास्त्रे वास्तुविद्या अन्तर्विषयाः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पंचमोध्यायः षष्ठोऽध्यायः सप्तमोध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्याय: एकादशोध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पंचदशोध्यायः षष्टदशोध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्याय: दशमोऽध्याय: विश्वकर्मकृतायां वास्तुशास्त्रे वास्तुविद्या Tags : vastuvastu shastraवास्तु विद्यावास्तु शास्त्रशास्त्र दशमोऽध्याय: Translation - भाषांतर अथ श्री विश्वकर्माकृतायां वास्तुशास्त्रे वास्तुविद्या संवरणाधिकारे क्रमांक अध्याय १०अत ऊर्ध्वं प्रवक्ष्यामि संवर्णा च यथा भवेत्उदयेन समायुक्ता भाग सङ्ख्या च संयुता ॥१॥अर्धोदयं च यत्प्रोक्तं वामनं उदयं भवेत्कृते चैव भवेच्छान्तिः सर्वयज्ञफलं लभेत् ॥२॥अर्धोदयं च नवधाः द्वौभागौ परिवर्जयेत्अनन्तं उदयं नामः सर्वलोके सुखावहम् ॥३॥अधोदयं च नवधाः त्रीणि भागानि संत्यजेत्वाराहं उदयं नाम अनन्तं फल दायकम् ॥४॥उदये च समाख्याता अनन्तं फलदायिकातस्मिन् देशे भवेच्छान्ति क्षेमारोग्यं प्रजायते ॥५॥उदयंहीना चये केचित् क्रियंते मण्डपा भुवितत्र मारीमहाव्याधि राष्ट्रभङ्ग भयं भवेत् ॥६॥दुर्भिक्षं चाति रौद्रं च राज्ञो च म्रियते तथायजमानं निष्कुलं यांति शिल्पिनो म्रियते ध्रुवम् ॥७॥एक हस्तादितः कृत्वा यावतः सप्त षष्टि वत्तावंतश्चतुरो वृद्धिः घण्टिका परिकीर्तिता ॥८॥घण्टानां च विभागेन तलोदय समन्वितम्विविधा मण्डपैश्चैव संवर्णा ऊर्ध्वसंयुता ॥९॥एकहस्ते द्विहस्ते च प्रासादे मण्डपं शुभम्पञ्च घण्टिका संयुक्तं मण्डपं सर्वकामदम् ॥१०॥त्रि हस्तेन नव घण्टा च चतुर्हस्ते त्रयोदशःदशसप्त घण्टिकैर्युक्तं पञ्च हस्ते प्रकीर्तितम् ॥११॥एकविंशत्समायुक्तं घण्टिका मण्डपं शुभम्प्रासादे षट्हस्तेन सर्वशोभासमन्विते ॥१२॥सप्त हस्ते तु प्रासादे घण्टिका पञ्चविंशतिमण्डपं कारयेत्प्राज्ञः गजसिंहसमन्वितम् ॥१३॥वसु हस्तेन कर्तव्या घण्टिका उनत्रिंशतिःनव हस्ते तथा प्रोक्तं दश हस्ते तथैव च ॥१४॥त्रयस्त्रिंशत्समायुक्तं सार्धपादसमन्वितम्कलश सिंहसमोपेता तथा गरुडसमन्विता ॥१५॥सप्तत्रिंशत्समायुक्तं घण्टिकायाः समन्वितम्एकादशा दितकृत्वा यावत्षोडशहस्तकम् ॥१६॥हस्ते सप्तत्रिंशो मेते यावत् जिनहस्तकम्घण्टिका च प्रकर्तव्या चत्वारिंशेक संयुता ॥१७॥पंचविंशति संयुक्ता प्रासादे सर्व कामदेतावश्चैव प्रकर्तव्यं ज्ञातव्यं त्रिंशहस्तकम् ॥१८॥पंचचत्वारिंशेघंटा मंडपा सुशोभनाएकत्रिंशति हस्ते तु यावत् षड्त्रिंशतिःघण्टिकानां प्रकर्तव्या उनपञ्चाश संयुता ॥१९॥सप्तत्रिंशोदितः कृत्वा यावत्पञ्चाश हस्तकम्घण्टिकानां प्रकर्तव्यं शतमेकोत्तरीयुतम् ॥२०॥एकपञ्चादितः कृत्वा ज्ञातव्यं सप्तषष्टीयघण्टिकानां प्रकर्तव्यो शतमेकोनत्रिंशक ॥२१॥एवं संवरणा कार्या गजसिंहसमन्वितारथिकातिलकयुताघण्टिकास्कन्धपट्टिका ॥२२॥मूलकूटक संयुक्ता तवङ्गे छाद्य संयुताकूटकौ बहुसंपन्ना कार्या संवरणा शुभा ॥२३॥चतुरस्रीकृते क्षेत्रे अष्टभाग विभाजितेभागौ द्वौ रथिका कार्या चतुर्दिक्षु व्यवस्थिता ॥२४॥द्वौ भागौ कर्णकं चैव घण्टिका च द्विभागिकाकूटं भागोन कर्तव्यं चतुर्दिक्षु व्यवस्थितम् ॥२५॥द्विभागा घण्टिका कार्या सर्वशोभासमन्वितामूलघण्टा चतुर्भागा द्विभागै कलशं भवेत् ॥२६॥उदयं च प्रवक्ष्यामि भागाश्चत्वारिमेव चरथिकातिलकंकूटं भागमेकेन कारयेत् ॥२७॥सार्धपादा तथा घण्टा मूलघण्टा तथैव चभाग भाग च कर्तव्यं उदये परिकीर्तितः ॥२८॥मूलघण्टा च पादोना स्कन्धं पट्टं च शोभनम्मूलघण्टा त्रिधा कृत्वा विभजेय यथाक्रमम् ॥२९॥अन्तरपत्रं पदं चैव कर्ण चैव तथैव चभागमेकेन कर्तव्यं स्कन्धं वै भागमेव च ॥३०॥घसिकामलसारि च तथा चैव तु कर्तरिभागमेकेन कार्या एवं घण्टा विवर्तना ॥३१॥पञ्चघण्ठा मया प्रोक्ता संवरणा सुशोभनाद्वादशैव ततः कार्या घण्टिका च समन्विता ॥३२॥संवरणा नामानिअथ नामानि वक्ष्यामि संवरणा यथास्थितापद्मिनी पञ्चघण्टा च नवघण्टा च नंदिनी ॥३३॥त्रयोदश घण्टिकोपेता कमला परिकीर्तितासप्तदश घण्टिकोपेता हंसिनी परिकीर्तिता ॥३४॥सुनन्दा चैकविंशत्या नलिनी पञ्चविंशतीःनन्दा चैकोनत्रिंशत्या त्रयस्त्रिंश यशोवती ॥३५॥सप्तत्रिंश विशालाक्षी घण्टिका परिकीर्तिताकीर्तिसंवर्द्धनी नाम चत्वारिंशेक संयुता ॥३६॥पञ्चत्वारिंश देवश्च वा पदा परिकीर्तिताउनपंचाशद्युक्ता गजवर्द्धनिका शुभा ॥३७॥सिंहालिका तथा प्रोक्ता त्रिपंचाश च घण्टिकासप्तपंचाशद्युक्ता श्रीधरी प्रविकीर्तिता ॥३८॥एकषष्टं गंधलता पंचषष्टं तु मालिकाविशाल नवषष्टं तु घण्टिका प्रविधीयते ॥३९॥त्रिकूटा त्रिसप्तति घण्टिकाः क्रियते पुनःदलदा सप्त सप्तायां घण्टिकासुर्विधीयते ॥४०॥एकाशिती घण्टिकानां तु पुष्पशिखा प्रशस्यतेतारावली तु पंचाशी घण्टिका परिकीर्तिता ॥४१॥नावांस्री घण्टिकायुक्ता पूर्णोदरी प्रशस्यतेत्रिनवत्यांश्चित्रकूटानां घण्टांकूटस्य पूजयेत् ॥४२॥माहेन्द्री सप्तनवत्या च घण्टा गवाक्ष क्रियतेशतेनैकोत्तराणां तु गौरी घण्टा प्रकीर्तिता ॥४३॥शतपंचोत्तरी घण्टा चन्द्रा स्यानामनामतःनवधिकं शतं कार्यं पंचमुखी प्रकीर्तिता ॥४४॥कीर्तिसंजीवनी नाम घण्टा त्रयोदशं शतम्मृणालसिंह सम्भूता शतं सप्तदशाधिकाम् ॥४५॥गवाक्षं तत्र सम्भूतं कूटाकारं तु शोभनम्शतमेकोनविंशत्या कर्तव्यं मृगसुन्दरम् ॥४६॥शतं विंशाधिका पंच वैज्यंती घण्टामेव चशतमेकोन त्रिंशत्या राजवर्द्धनिका शुभा ॥४७॥यशः कीर्तिं बलं देयं राज्ञानां दर्द्धते मुदा---- ४८इति विश्वकर्मा कृतायां वास्तुविद्यायां वास्तुशास्त्रे संवरणाधिकार अध्याय क्रमांक १० N/A References : N/A Last Updated : March 29, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP