संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|विश्वकर्मकृतायां वास्तुशास्त्रे वास्तुविद्या| तृतीयोऽध्यायः विश्वकर्मकृतायां वास्तुशास्त्रे वास्तुविद्या अन्तर्विषयाः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पंचमोध्यायः षष्ठोऽध्यायः सप्तमोध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्याय: एकादशोध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पंचदशोध्यायः षष्टदशोध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्याय: तृतीयोऽध्यायः विश्वकर्मकृतायां वास्तुशास्त्रे वास्तुविद्या Tags : vastuvastu shastraवास्तु विद्यावास्तु शास्त्रशास्त्र तृतीयोऽध्यायः Translation - भाषांतर श्री विश्वकर्माकृतायां वास्तुविद्यायां जगती लक्षणाध्याय क्रमाक ३विश्वकर्मा उवाचअतः ऊर्ध्वप्रवक्ष्यामि जगत्यां लक्षण परम्ये नैव कृतमात्रेण सर्वश्रेय समाप्नुयात् ॥१॥प्रासाद विस्तर तुल्य प्रासादार्धं प्रमाणतःपादोनं वाथ कर्तव्यं सार्धवाथ प्रयोजयेत् ॥२॥द्विगुणं वाथ कर्तव्यं सोपानायाम कीर्तितःशुण्डिकासु च विज्ञेयं तत्पादे गण्ड विस्तरम् ॥३॥द्वितीयं तत्समं ज्ञेयं शुण्डिकोभयतः स्थिताप्रासादार्धसमं ज्ञेयं जगतीभद्र निर्गमम् ॥४॥पादोनं वाथ कर्तव्यं प्रासादस्य समं ततःभद्र निर्गम तुल्यं तु जगतीगण्डनिर्गमम् ॥५॥द्वितीयं तत्समं कार्य प्रतीहारास्तदग्रतःमूलनायकं यन्मानं तन्मानात्पादवर्जितम् ॥६॥ऊर्ध्वोदयलक्षणम्जगत्योदय संग्राह्या चतुर्दश विभाजितम्प्रथमे चतुरश्रे तु सार्ध्वभागसमुच्छ्रयम् ॥७॥द्वितीयं तत्समं कार्यं तृतीयं तत्प्रमाणतःचिप्पिका ऊर्ध्वमेकेन भागमेकेन कुंभकम् ॥८॥भागार्धे खुरकं ज्ञेयं पादोनं जाडयकुंभकम्भागार्धे कर्णकं कुर्यात् पादोनंतरपत्रिका ॥९॥भागार्धं खुरकं कार्यं सार्धं भागं तु कुंभकम्पादोनभागमुत्सेधं कलशं कुर्याद्विचक्षणः ॥१०॥भागार्धे नान्तरपत्रं पादोनं च कपोतिकारूपकण्ठं च भागेन निर्गमं तु त्रिभागिकम् ॥११॥एतेन कथितं सर्वं जगतीनां समुच्छ्रयम्तथाहं कथयामिति तव पुत्र यथार्थतः ॥१२॥राजसेनो धरेनाम अर्धभाग प्रमाणतःसार्धभाग समुच्छ्रेया पत्रयुक्तं सुवेदिका ॥१३॥आसनपट्टमानं तु अर्धभागं च सङ्ख्ययाविस्तारं च द्विभिर्भागैः पादयुक्ताश्च कारयेत् ॥१४॥मत्तवारणकं चैव सार्धभागसमुच्छ्रयम्तस्योदयंश्च त्रिभागेन पिण्डं कुर्याद्विचक्षणः ॥१५॥पादोन कायेत् पिण्डश्च न न्यूना न ततोधिकाअथ प्रासादमानेन कन्यसे चैव चोच्यते ॥१६॥अर्धेन कोणधामानि चतुःकोणेन दापयेत्वामे गणाधिपत्यं च दक्षिणे पार्वती स्मृता ॥१७॥नैरृत्ये भास्करं विद्यात् वायव्ये च जनार्दनम्मातृभिर्मातरस्थाने दक्षिणं दिशमाश्रितम् ॥१८॥पश्चिमांजलशेनस्तु सौम्यायां अश्ववाहनम्स्थात्पथि चैव कर्तव्यं ईशान्यां देवतालयम् ॥१९॥प्रासादस्योत्तरे कार्यं गृहं चन्द्र स्य चोत्तमम्चतुरश्रं च वृत्तं वा वलभ्याकृतिमुत्तमम् ॥२०॥अर्धभागे त्रिपादे वा यथा वाध्यान जायतेतथावै कार्य्येत्प्राज्ञः जगत्यां मध्यसंस्थितम् ॥२१॥चारुसिंहासनासीनं नीलमेघाञ्जन प्रभम्ऊर्ध्वे चक्रं सुते जाढ्यं पिवंतं स्नपन सदा ॥२२॥टंकऽपाणि महाचण्डं प्रणालाधो व्यवस्थितम्इदृशं कारयेच्चण्डं सर्वकामफलप्रदम् ॥२३॥स्वयं बाणलिङ्गे च स्थण्डिले मण्डलेपि वाअद्वैतमन्त्रसंयुक्ते चले चण्डेन विद्यते ॥२४॥रोहलिङ्गे स्वयम्भूबाणलिङ्गे सवेदिकाइतरे च जगत्यायां चले चण्डेन विद्यते ॥२५॥बाण रोहे चले सिद्धे न चण्डाय स्वयम्भूवाप्रतिमानां च सर्वेषां अद्वैते स्थण्डिलेन हि ॥२६॥नंदिमंडपवृषभं तोरणं चैव तथा वै नृत्यमण्डपम्प्रासादाग्रे प्रकर्तव्यं सर्वशोभा समन्वितम् ॥२७॥अनन्तरं च त्रिभागेन चतुर्थांशेन चोत्तमम्भूतांशेन तु कर्तव्यं द्वितीयं नृत्यमण्डपं ॥२८॥जगत्यायाम गर्भं तु गर्भं वै मण्डपस्य चतत्समानः प्रतीहारा द्वारे च वामदक्षिणेनामानि च प्रवक्ष्यामि यथोक्तानि स्वयंभुवा ॥२९॥जगती चतुर्मुखा नामः महाकालं च वामतःदक्षिणे तु भवेन्नंदी सर्वविघ्नविनाशन ॥३०॥याम्या यां च स्मृतं द्वारं भृंगौ वामौ विनिर्दिशेत्हेरंबो दक्षिणे कुर्यात् द्वारदो विघ्ननाशन ॥३१॥पश्चिमायां दिशां वामे दुर्मुखो पाण्डुरो भवेत्सौम्यायां च दिशां वत्स सितो वामेऽसितोत्तरे ॥३२॥चत्वारि द्वारः विख्यातां जगत्यां रूपदायकाःदेव्यांश्च दिग्पालांश्च यथा स्थानतः शृणु ॥३३॥पूर्वायां स्थापयेत् शक्रं अग्नौ चैवाग्नि गोचरेयमं वै दक्षिणे भागे राक्षसान्नैरृति तथा ॥३४॥वरुणे पश्चिमायां तु वायव्यां वायुदेवताघनदं सोम दिग्भागे ईशान्याभीश देवता ॥३५॥प्रासाद पृष्टि भद्रे तु जगत्यां याः कुमारिकाःवामे च दक्षिणे चैव सप्तमातृ विनिर्दिशेत् ॥३६॥जगती देवदेवस्य शृणु विष्णोर्यथा स्थिता ॥३७॥आग्नेयां स्थापयेन्नित्यं मुदकन्तं विनायकम्याम्यां वामनं रूपं नारसिंहं च नैऋते ॥३८॥वायव्ये क्रोड रूपं च जलशयनः वारुणेकौबेरे बालक्रीडा च ईशाने मधुनाशनम् ॥३९॥एवं विष्णुं भवेज्जगती सूर्यस्य शृणु सांप्रतःशिखीस्थाने कुजं स्थाप्यं गुरुं वामे प्रतिष्ठयो ॥४०॥चन्द्र पुत्रं तु नैरृत्ये शुक्रं च वारुणे न्यसेत्रविपुत्रं तु वायव्ये सोमे सोमं च स्थापयेत् ॥४१॥राहु च शंकरे स्थाप्य स्थाप्यता वरदा भवेत्सुमित्रस्य भवेद् ह्येवं देवद्रो णे सुखावहा ॥४२॥अन्यथा कुरुते यस्तु सोपिकुर्य्याशिवेन्यथाचण्डिकायां प्रवक्ष्यामि शृणु संक्षेपलक्षणम् ॥४३॥विघ्नेशमग्निदेशे च मातृहर्म्यं च दक्षिणेचामुण्डा नैरृते भागे मिश्रादेवी तु पश्चिमे ॥४४॥लक्ष्मी च वायव्ये स्थाप्य भद्र काली च सौम्यगाऐशान्यां कालरात्री च सर्वकार्यार्थसाधिनी ॥४५॥एवं तु स्थापयेद्देव्यः सर्वसिद्धकरःशुभाजिनविहारम्अथजिन विहार कथयाम्यहम्विहारं यादृशं प्रोक्त तादृशं कथयाम्यहम् ॥४६॥मध्ये स्थाप्यं बुधजीन् श्रीमान् अग्रे चित्रेण भूषिताताराहर्म्यं समोपेत यक्षवृंदगणान्वितम् ॥४७॥एक भौम द्विभौमं वा त्रिभुयो कास्योरयेचित्रशाला समोपेतं उपवर्णसंकुलम् ॥४८॥विहार एवमेवं च श्रीमुचान्य जिनालयम्रिष्टनेम्ययतः कृत्वा ऋषभं च नियोजयेत्चतुर्विंशती देवानि एकमेकं प्रतिष्ठयेत् ॥५०॥यक्षैर्गणधरैर्दिव्यैः देवतैश्च विशेषतःनानारूपकसंयुक्ता जगती कारयेत् शुभा ॥५१॥प्रासादे मण्डपं कुर्यात् त्रिकं च तदनन्तरम्अग्रं वलाणकं कार्यं द्विभूमं च त्रिणीस्तथा ॥५२॥सप्त दश देवकुलीः स्थाप्या वामदक्षिणतःत्रिकस्य पार्श्वयोश्चैव नवपृष्ट ष्टयोगयेन ॥५३॥द्विपच्चाश तथा कार्या प्रदक्षिण क्रमेण तुजिनस्याग्रे प्रदातव्यं समोवसरणं तथा ॥५४॥अपूर्ण ५५इति श्री विश्वकर्माकृत्तायां वास्तुशास्त्रे वास्तुविद्यायां जगती लक्षणाधिकारे क्रमांक तृतीयोऽध्यायः ३ N/A References : N/A Last Updated : March 29, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP