संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|सतीखण्डः|

सतीखण्डः - अध्यायः ४२

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


 ॥ब्रह्मोवाच॥
श्रीब्रह्मेशप्रजेशेन सदैव मुनिना च वै॥
अनुनीतश्शंभुरासीत्प्रसन्नः परमेश्वरः ॥१॥
आश्वास्य देवान् विष्ण्वादीन्विहस्य करुणानिधिः ॥
उवाच परमेशानः कुर्वन् परमनुग्रहम् ॥२॥
श्रीमहादेव उवाच॥
शृणुतं सावधानेन मम वाक्यं सुरोत्तमौ॥
यथार्थं वच्मि वां तात वां क्रोधं सर्वदासहम् ॥३॥
नाघं तनौ तु बालानां वर्णमेवानुचिंतये॥
मम मायाभिभूतानां दंडस्तत्र धृतो मया ॥४॥
दक्षस्य यज्ञभंगोयं न कृतश्च मया क्वचित्॥
परं द्वेष्टि परेषां यदात्मनस्तद्भविष्यति ॥५॥
परेषां क्लेदनं कर्म न कार्यं तत्कदाचन॥
परं द्वेष्टि परेषां यदात्मनस्तद्भविष्यति ॥६॥
दक्षस्य यज्ञशीर्ष्णो हि भवत्वजमुखं शिरः॥
मित्रनेत्रेण संपश्येद्यज्ञभागं भगस्सुरः ॥७॥
पूषाभिधस्सुरस्तातौ दद्भिर्यज्ञसुपिष्टभुक्॥
याजमानैर्भग्नदंतस्सत्यमेतन्मयोदितम् ॥८॥
बस्तश्मश्रुर्भवेदेव भृगुर्मम विरोध कृत्॥
देवाः प्रकृतिसर्वांगा ये म उच्छेदनं ददुः॥९॥
बाहुभ्यामश्विनौ पूष्णो हस्ताभ्यां कृतवाहकौ॥
भवंत्वध्वर्यवश्चान्ये भवत्प्रीत्या मयोदितम् ॥१०॥
ब्रह्मोवाच॥
इत्युक्त्वा परमेशानो विरराम दयान्वितः॥
चराचरपतिर्देवः सम्राट् वेदानुसारकृत् ॥११॥
तदा सर्व सुराद्यास्ते श्रुत्वा शंकरभाषितम्॥
साधुसाध्विति संप्रोचुः परितुष्टाः सविष्ण्वजाः ॥१२॥
ततश्शंभुं समामंत्र्य मया विष्णुस्सुरर्षिभिः॥
भूयस्तद्देवयजनं ययौ च परया मुदा ॥१३॥
एवं तेषां प्रार्थनया विष्णुप्रभृतिभिस्सुरैः॥
ययौ कनखलं शंभुर्यज्ञवाटं प्रजापतेः ॥१४॥
रुद्रस्तदा ददर्शाथ वीरभद्रेण यत्कृतम्॥
प्रध्वंसं तं क्रतोस्तत्र देवर्षीणां विशेषतः ॥१५॥
स्वाहा स्वधा तथा पूषा तुष्टिर्धृतिः सरस्वती॥
तथान्ये ऋषयस्सर्वे पितरश्चाग्नयस्तथा ॥१६॥
येऽन्ये च बहवस्तत्र यक्षगंधवर्राक्षसाः॥
त्रोटिता लुंचिताश्चैव मृताः केचिद्रणाजिरे ॥१७॥
यज्ञं तथाविधं दृष्ट्वा समाहूय गणाधिपम्॥
वीरभद्रं महावीरमुवाच प्रहसन् प्रभुः ॥१८॥
वीरभद्र महाबाहो किं कृतं कर्म ते त्विदम्॥
महान्दंडो धृतस्तात देवर्ष्यादिषु सत्वरम् ॥१९॥
दक्षमानय शीघ्रं त्वं येनेदं कृतमीदृशम्॥
यज्ञो विलक्षणस्तात यस्येदं फलमीदृशम् ॥२०॥
 ॥ब्रह्मोवाच॥
एवमुक्तश्शंकरेण वीरभद्रस्त्वरान्वितः॥
कबंधमानयित्वाग्रे तस्य शंभोरथाक्षिपत् ॥२१॥
विशिरस्कं च तं दृष्ट्वा शंकरो लोकशंकरः॥
वीरभद्रमुवाचाग्रे विहसन्मुनिसत्तम ॥२२॥
शिरः कुत्रेति तेनोक्ते वीरभद्रोऽब्रवीत्प्रभुः॥
मया शिरो हुतं चाग्नौ तदानीमेव शंकर ॥२३॥
इति श्रुत्वा वचस्तस्य वीरभद्रस्य शंकरः॥
देवान् तथाज्ञपत्प्रीत्या यदुक्तं तत्पुरा प्रभुः ॥२४॥
विधाय कार्त्स्न्येन च तद्यदाह भगवान् भवः॥
मया विष्ण्वादयः सर्वे भृग्वादीनथ सत्वरम् ॥२५॥
अथ प्रजापतेस्तस्य सवनीयपशोश्शिरः॥
बस्तस्य संदधुश्शंभोः कायेनारं सुशासनात् ॥२६॥
संधीयमाने शिरसि शंभुसद्दृष्टिवीक्षितः॥
सद्यस्सुप्त इवोत्तस्थौ लब्धप्राणः प्रजापतिः ॥२७॥
उत्थितश्चाग्रतश्शंभुं ददर्श करुणानिधिम्॥
दक्षः प्रीतमतिः प्रीत्या संस्थितः सुप्रसन्नधीः ॥२८॥
पुरा हर महाद्वेषकलिलात्माभवद्धि सः॥
शिवावलोकनात्सद्यश्शरच्चन्द्र इवामलः ॥२९॥
भवं स्तोतुमना सोथ नाशक्नोदनुरागतः॥
उत्कंठाविकलत्वाच्च संपरेतां सुतां स्मरन् ॥३०॥
अथ दक्षः प्रसन्नात्मा शिवं लज्जासमन्वितः॥
तुष्टाव प्रणतो भूत्वा शंकरं लोकशंकरम् ॥३१॥
दक्ष उवाच॥
नमामि देव वरदं वरेण्यं महेश्वरं ज्ञाननिधिं सनातनम्॥
नमामि देवाधिपतीश्वरं हरं सदासुखाढ्यं जगदेकबांधवम् ॥३२॥
नमामि विश्वेश्वर विश्वरूपं पुरातनं ब्रह्मनिजात्मरूपम्॥
नमामि शर्वं भव भावभावं परात्परं शंकरमानतोमि ॥३३॥
देवदेव महादेव कृपां कुरु नमोस्तु ते॥
अपराधं क्षमस्वाद्य मम शंभो कृपानिधे ॥३४॥
अनुग्रहः कृतस्ते हि दंडव्याजेन शंकर॥
खलोहं मूढधीर्देव ज्ञातं तत्त्वं मया न ते ॥३५॥
अद्य ज्ञातं मया तत्त्वं सर्वोपरि भवान्मतः॥
विष्णुब्रह्मादिभिस्सेव्यो वेदवेद्यो महेश्वरः ॥३६॥
साधूनां कल्पवृक्षस्त्वं दुष्टानां दंडधृक्सदा॥
स्वतंत्रः परमात्मा हि भक्ताभीष्टवरप्रदः ॥३७॥
विद्यातपोव्रतधरानसृजः प्रथमं द्विजा॥
आत्मतत्त्वं समावेत्तुं मुखतः परमेश्वरः ॥३८॥
सर्वापद्भ्यः पालयिता गोपतिस्तु पशूनिव॥
गृहीतदंडो दुष्टांस्तान् मर्यादापरिपालकः ॥३९॥
मया दुरुक्तविशिखैः प्रविद्धः परमेश्वरः॥
अमरानतिदीनाशान् मदनुग्रहकारकः ॥४०॥
स भवान् भगवान् शंभो दीनबंधो परात्परः॥
स्वकृतेन महार्हेण संतुष्टो भक्तवत्सल ॥४१॥
 ॥ब्रह्मोवाच॥
इति स्तुत्वा महेशानं शंकरं लोकशंकरम्॥
प्रजापतिर्विनीतात्मा विरराम महाप्रभुम् ॥४२॥
अथ विष्णुः प्रसन्नात्मा तुष्टाव वृषभध्वजम्॥
बाष्पगद्गदया वाण्या सुप्रणम्य कृतांजलिः ॥४३॥
विष्णुवाच॥
महादेव महेशान लोकानुग्रहकारक॥
परब्रह्म परात्मा त्वं दीनबंधो दयानिधे ॥४४॥
सर्वव्यापी स्वैरवर्ती वेदवेद्ययशाः प्रभोः॥
अनुग्रहः कृतस्तेन कृताश्चासुकृता वयम्॥ ॥४५॥
दक्षोयं मम भक्तस्त्वां यन्निनिंद खलः पुरा॥
तत् क्षंतव्यं महेशाद्य निर्विकारो यतो भवान् ॥४६॥
कृतो मयापराधोपि तव शंकर मूढतः॥
त्वद्गणेन कृतं युद्धं वीरभद्रेण पक्षतः ॥४७॥
त्वं मे स्वामी परब्रह्म दासोहं ते सदाशिव॥
पोष्यश्चापि सदा ते हि सर्वेषां त्वं पिता यतः ॥४८॥
ब्रह्मोवाच॥
देवदेव महादेव करुणासागर प्रभो॥
स्वतंत्रः परमात्मा त्वं परमेशो द्वयोव्ययः ॥४९॥
मम पुत्रोपरि कृतो देवानुग्रह ईश्वर॥
स्वापमानमगणयन् दक्षयज्ञं समुद्धर ॥५०॥
प्रसन्नो भव देवेश सर्वशापान्निराकुरु॥
सबोधः प्रेरकस्त्वं मे त्वमेवं विनिवारकः ॥५१॥
इति स्तुत्वा महेशानं परमं च महामुने॥
कृतांजलिपुटो भूत्वा विनम्रीकृतमस्तकः॥ ॥५२॥
अथ शक्रादयो देवा लोकपालास्सुचेतसः॥
तुष्टुवुः शंकरं देवं प्रसन्नमुखपंकजम् ॥५३॥
ततः प्रसन्नमनसः सर्वे देवास्तथा परे॥
सिद्धर्षयः प्रजेशाश्च तुष्टुवुः शंकरं मुदा ॥५४॥
तथोपदेवनागाश्च सदस्या ब्राह्मणास्तथा॥
प्रणम्य परया भक्त्या तुष्टुवुश्च पृथक् पृथक् ॥५५॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे दक्षदुःखनिराकरणवर्णनं नाम द्विचत्वारिंशो ऽध्यायः ॥४२॥

N/A

References : N/A
Last Updated : October 07, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP