संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|सतीखण्डः|

सतीखण्डः - अध्यायः १४

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ब्रह्मोवाच ॥
एतस्मिन्नन्तरे देवमुने लोकपितामह॥
तत्रागममहं प्रीत्या ज्ञात्वा तच्चरितं द्रुतम् ॥१॥
असांत्वयमहं दक्षं पूर्ववत्सुविचक्षणः॥
अकार्षं तेन सुस्नेहं तव सुप्रीतिमावहन् ॥२॥
स्वात्मजं मुनिवर्यं त्वां सुप्रीत्या देववल्लभम्॥
समाश्वास्य समादाय प्रत्यपद्ये स्वधाम ह ॥३॥
ततः प्रजापतिर्दक्षोऽनुनीतो मे निजस्त्रियाम्॥
जनयामास दुहितॄस्सुभगाः षष्टिसंमिताः ॥४॥
तासां विवाहकृतवान्धर्मादिभिरतंद्रितः॥
तदेव शृणु सुप्रीत्या प्रवदामि मुनीश्वर ॥५॥
ददौ दश सुता दक्षो धर्माय विधिवन्मुने॥
त्रयोदश कश्यपाय मुनये त्रिनवेंदवे ॥६॥
भूतांगिरः कृशाश्वेभ्यो द्वेद्वे पुत्री प्रदत्तवान्॥
तार्क्ष्याय चापरः कन्या प्रसूतिप्रसवैर्यतः ॥७॥
त्रिलोकाः पूरितास्तन्नो वर्ण्यते व्यासतो भयात् ॥८॥
केचिद्वदंति तां ज्येष्ठां मध्यमां चापरे शिवाम्॥
सर्वानन्तरजां केचित्कल्पभेदात्त्रयं च सत॥९॥
अनंतरं सुतोत्पत्तेः सपत्नीकः प्रजापतिः॥
दक्षो दधौ सुप्रीत्मा तां मनसा जगदम्बिकाम् ॥१०॥
अतः प्रेम्णा च तुष्टाव गिरा गद्गदया हि सः॥
भूयोभूयो नमस्कृत्य सांजलिर्विनयान्वितः ॥११॥
सन्तुष्टा सा तदा देवी विचारं मनसीति च॥
चक्रेऽवतारं वीरिण्यां कुर्यां पणविपूर्तये ॥१२॥
अथ सोवास मनसि दक्षस्य जगदम्बिका॥
विललास तदातीव स दक्षो मुनिसत्तम ॥१३॥
सुमुहूर्तेनाथ दक्षोऽपि स्वपत्न्यां निदधे मुदा॥
दक्षपत्न्यास्तदा चित्ते शिवोवास दयान्विता ॥१४॥
आविर्बभूवुश्चिह्नानि दोहदस्याखिलानि वै ॥१५॥
विरेजे वीरिणी तात हृष्टचित्ताधिका च सा॥
शिवावासप्रभावात्तु महामंगल रूपिणी ॥१६॥
कुलस्य संपदश्चैव श्रुतेश्चित्तसमुन्नतेः॥
व्यधत्त सुक्रिया दक्षः प्रीत्या पुंसवनादिकाः ॥१७॥
उत्सवोतीव संजातस्तदा तेषु च कर्मसु॥
वित्तं ददौ द्विजातिभ्यो यथाकामं प्रजापतिः ॥१८॥
अथ तस्मिन्नवसरे सर्वे हर्यादयस्सुराः॥
ज्ञात्वा गर्भगतां देवीं वीरिण्यास्ते मुदं ययुः ॥१९॥
तत्रागत्य च सर्वे ते तुष्टुवुर्जगदम्बिकाम्॥
लोकोपकारकरिणीं प्रणम्य च मुहुर्मुहुः ॥२०॥
कृत्वा ततस्ते बहुधा प्रशंसां हृष्टमानसाः॥
दक्षप्रजापतेश्चैव वीरिण्यास्स्वगृहं ययुः ॥२१॥
गतेषु नवमासेषु कारयित्वा च लौकिकीम्॥
गतिं शिवा च पूर्णे सा दशमे मासि नारद ॥२२॥
आविर्बभूव पुरतो मातुस्सद्यस्तदा मुने॥
मुहूर्ते सुखदे चन्द्रग्रहतारानुकूलके ॥२३॥
तस्यां तु जातमात्रायां सुप्रीतोऽसौ प्रजापतिः॥
सैव देवीति तां मेने दृष्ट्वा तां तेजसोल्बणाम् ॥२४॥
तदाभूत्पुष्पसद्वृष्टिर्मेघाश्च ववृषुर्जलम्॥
दिशश्शांता द्रुतं तस्यां जातायां च मुनीश्वर ॥२५॥
अवादयंत त्रिदशाश्शुभवाद्यानि खे गताः॥
जज्ज्वलुश्चाग्नयश्शांताः सर्वमासीत्सुमंगलम् ॥२६॥
वीरिणोसंभवां दृष्ट्वा दक्षस्तां जगदम्बिकाम्॥
नमस्कृत्य करौ बद्ध्वा बहु तुष्टाव भक्तितः ॥२७॥
दक्ष उवाच॥
महेशानि नमस्तुभ्यं जगदम्बे सनातनि॥
कृपां कुरु महादेवि सत्ये सत्यस्वरूपिणि ॥२८॥
शिवा शांता महामाया योगनिद्रा जगन्मयी॥
या प्रोच्यते वेदविद्भिर्नमामि त्वां हितावहाम् ॥२९॥
यया धाता जगत्सृष्टौ नियुक्तस्तां पुराकरोत्॥
तां त्वां नमामि परमां जगद्धात्रीं महेश्वरीम् ॥३०॥
यया विष्णुर्जगत्स्थित्यै नियुक्तस्तां सदाकरोत्॥
तां त्वां नमामि परमां जगद्धात्रीं महेश्वरीम् ॥३१॥
यया रुद्रो जगन्नाशे नियुक्तस्तां सदाकरोत्॥
तां त्वां नमामि परमां जगद्धात्रीं महेश्वरीम् ॥३२॥
रजस्सत्त्वतमोरूपां सर्वकार्यकरीं सदा॥
त्रिदेवजननीं देवीं त्वां नमामि च तां शिवाम् ॥३३॥
यस्त्वां विचिंतयेद्देवीं विद्याविद्यात्मिकां पराम्॥
तस्य भुक्तिश्च मुक्तिश्च सदा करतले स्थिता ॥३४॥
यस्त्वां प्रत्यक्षतो देवि शिवां पश्यति पावनीम्॥
तस्यावश्यं भवेन्मुक्तिर्विद्याविद्याप्रकाशिका ॥३५॥
ये स्तुवंति जगन्मातर्भवानीमंबिकेति च॥
जगन्मयीति दुर्गेति सर्वं तेषां भविष्यति ॥३६॥
ब्रह्मोवाच॥
इति स्तुता जगन्माता शिवा दक्षेण धीमता॥
तथोवाच तदा दक्षं यथा माता शृणोति न ॥३७॥
सर्वं मुमोह तथ्यं च तथा दक्षः शृणोतु तत्॥
नान्यस्तथा शिवा प्राह नानोतिः परमेश्वरी ॥३८॥
देव्युवाच॥
अहमाराधिता पूर्वं सुतार्थं ते प्रजापते॥
ईप्सितं तव सिद्धं तु तपो धारय संप्रति ॥३९॥
ब्रह्मोवाच॥
एवमुक्त्वा तदा देवी दक्षं च निजमायया॥
आस्थाय शैशवं भावं जनन्यंते रुरोद सा ॥४०॥
अथ तद्रोदनं श्रुत्वा स्त्रियो वाक्यं ससंभ्रमाः॥
आगतास्तत्र सुप्रीत्या दास्योपि च ससंभ्रमाः ॥४१॥
दृष्ट्वासिक्नीसुतारूपं ननन्दुस्सर्वयोषितः॥
सर्वे पौरजनाश्चापि चक्रुर्जयरवं तदा ॥४२॥
उत्सवश्च महानासीद्गानवाद्यपुरस्सरम्॥
दक्षोसिक्नी मुदं लेभे शुभं दृष्ट्वा सुताननम् ॥४३॥
दक्षः श्रुतिकुलाचारं चक्रे च विधिवत्तदा॥
दानं ददौ द्विजातिभ्योन्येभ्यश्च द्रविणं तथा ॥४४॥
बभूव सर्वतो गानं नर्तनं च यथोचितम्॥
नेदुर्वाद्यानि बहुशस्सुमंगलपुरस्सरम् ॥४५॥
अथ हर्यादयो देवास्सर्वे सानुचरास्तदा॥
मुनिवृन्दैः समागत्योत्सवं चक्रुर्यथाविधि ॥४६॥
दृष्ट्वा दक्षसुतामंबां जगतः परमेश्वरीम्॥
नेमुः सविनयास्सर्वे तुष्टुवुश्च शुभैस्तवैः ॥४७॥
ऊचुस्सर्वे प्रमुदिता गिरं जयजयात्मिकाम्॥
प्रशशंसुर्मुदा दक्षं वीरिणीं च विशेषतः ॥४८॥
तदोमेति नाम चक्रे तस्या दक्षस्तदाज्ञया॥
प्रशस्तायास्सर्वगुणसत्त्वादपि मुदान्वितः ॥४९॥
नामान्यन्यानि तस्यास्तु पश्चाज्जातानि लोकतः॥
महामंगलदान्येव दुःखघ्नानि विशेषतः ॥५०॥
दक्षस्तदा हरिं नत्वा मां सर्वानमरानपि॥
मुनीनपि करौ बद्ध्वा स्तुत्वा चानर्च भक्तितः ॥५१॥
अथ विष्ण्वादयस्सर्वे सुप्रशस्याजनंदनम्॥
प्रीत्या ययुस्वधामानि संस्मरन् सशिवं शिवम् ॥५२॥
अतस्तां च सुतां माता सुसंस्कृत्य यथोचितम्॥
शिशुपानेन विधिना तस्यै स्तन्यादिकं ददौ ॥५३॥
पालिता साथ वीरिण्या दक्षेण च महात्मना॥
ववृधे शुक्लपक्षस्य यथा शशिकलान्वहम् ॥५४॥
तस्यां तु सद्गुणास्सर्वे विविशुर्द्विजसत्तम॥
शैशवेपि यथा चन्द्रे कलास्सर्वा मनोहराः ॥५५॥
आचरन्निजभावेन सखीमध्यगता यदा॥
तदा लिलेख भर्गस्य प्रतिमामन्वहं मुहुः ॥५६॥
यदा जगौ सुगीतानि शिवा बाल्योचितानि सा॥
तदा स्थाणुं हरं रुद्रं सस्मार स्मरशासनम् ॥५७॥
ववृधेतीव दंपत्योः प्रत्यहं करुणातुला॥
तस्या बाल्येपि भक्तायास्तयोर्नित्यं मुहुर्मुहुः ॥५८॥
सर्वबालागुणा क्रांतां सदा स्वालयकारिणीम्॥
तोषयामास पितरौ नित्यंनित्यं मुहुर्मुहुः ॥५९॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां सती खण्डे सतीजन्म बाललीलावर्णनंनाम चतुर्दशोऽध्यायः ॥१४॥

N/A

References : N/A
Last Updated : October 06, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP