संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|सतीखण्डः|

सतीखण्डः - अध्यायः १३

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


नारद उवाच॥
ब्रह्मन्विधे महा प्राज्ञ वद नो वदतां वर॥
दक्षे गृहं गते प्रीत्या किमभूत्तदनंतरम् ॥१॥
ब्रह्मोवाच॥
दक्षः प्रजापतिर्गत्वा स्वाश्रमं हृष्टमानसः॥
सर्गं चकार बहुधा मानसं मम चाज्ञया ॥२॥
तमबृंहितमालोक्य प्रजासर्गं प्रजापतिः॥
दक्षो निवेदयामास ब्रह्मणे जनकाय मे ॥३॥
दक्ष उवाच॥
ब्रह्मंस्तात प्रजानाथ वर्द्धन्ते न प्रजाः प्रभो॥
मया विरचितास्सर्वास्तावत्यो हि स्थिताः खलु ॥४॥
किं करोमि प्रजानाथ वर्द्धेयुः कथमात्मना॥
तदुपायं समाचक्ष्व प्रजाः कुर्यां न संशयः ॥५॥
ब्रह्मोवाच॥
दक्ष प्रजापते तात शृणु मे परमं वचः॥
तत्कुरुष्व सुरश्रेष्ठ शिवस्ते शं करिष्यति ॥६॥
या च पञ्चजनस्यांग सुता रम्या प्रजापतेः॥
असिक्नी नाम पत्नीत्वे प्रजेश प्रतिगृह्यताम् ॥७॥
वामव्यवायधर्मस्त्वं प्रजासर्गमिमं पुनः॥
तद्विधायां च कामिन्यां भूरिशो भावयिष्यसि ॥८॥
ब्रह्मोवाच॥
ततस्समुत्पादयितुं प्रजा मैथुनधर्मतः॥
उपयेमे वीरणस्य निदेशान्मे सुतां ततः ॥९॥
अथ तस्यां स्वपत्न्यां च वीरिण्यां स प्रजापतिः॥
हर्यश्वसंज्ञानयुतं दक्षः पुत्रानजीजनत् ॥१०॥
अपृथग्धर्मशीलास्ते सर्व आसन् सुता मुने॥
पितृभक्तिरता नित्यं वेदमार्गपरायणाः ॥११॥
पितृप्रोक्ताः प्रजासर्गकरणार्थं ययुर्दिशम्॥
प्रतीचीं तपसे तात सर्वे दाक्षायणास्सुताः ॥१२॥
तत्र नारायणसरस्तीर्थं परमपावनम्॥
गमो यत्र संजातो दिव्यसिन्धुसमुद्रयोः ॥१३॥
तदुपस्पर्शनादेव प्रोत्पन्नमतयोऽ भवन्॥
धर्मे पारमहंसे च विनिर्द्धूतमलाशयाः ॥१४॥
प्रजाविवृद्धये ते वै तेपिर तत्र सत्तमाः॥
दाक्षायणा दृढात्मानः पित्रादेश सुयंत्रिताः ॥१५॥
त्वं च तान् नारद ज्ञात्वा तपतस्सृष्टि हेतवे॥
अगमस्तत्र भूरीणि हार्दमाज्ञाय मापतेः ॥१६॥
अदृष्ट्वा तं भुवस्सृष्टि कथं कर्तुं समुद्यताः॥
हर्यश्वा दक्षतनया इत्यवोचस्तमादरात् ॥१७॥
ब्रह्मोवाच॥
तन्निशम्याथ हर्यश्वास्ते त्वदुक्तमतंद्रिताः॥
औत्पत्तिकधियस्सर्वे स्वयं विममृशुर्भृशम् ॥१८॥
सुशास्त्रजनकादेशं यो न वेद निवर्तकम्॥
स कथं गुणविश्रंभी कर्तुं सर्गमुपक्रमेत् ॥१९॥
इति निश्चित्य ते पुत्रास्सुधियश्चैकचेतसः॥
प्रणम्य तं परिक्रम्यायुर्मार्गमनिवर्तकम् ॥२०॥
नारद त्वं मनश्शंभोर्लोंकानन्यचरो मुने॥
निर्विकारो महेशानमनोवृत्तिकरस्तदा ॥२१॥
काले गते बहुतरे मम पुत्रः प्रजापतिः॥
नाशं निशम्य पुत्राणां नारदादन्वतप्यत ॥२२॥
मुहुर्मुहुरुवाचेति सुप्रजात्वं शुचां पदम्॥
शुशोच बहुशो दक्षश्शिवमायाविमोहितः ॥२३॥
अहमागत्य सुप्रीत्या सांत्वयं दक्षमात्मजम्॥
शांतिभावं प्रदर्श्यैव देवं प्रबलमित्युत ॥२४॥
अथ दक्षः पंचजन्या मया स परिसांत्वितः॥
सबलाश्वाभिधान्् पुत्रान् सहस्रं चाप्यजीजनत् ॥२५॥
तेपि जग्मुस्तत्र सुताः पित्रादिष्टा दृढव्रताः॥
प्रजासर्गे अत्र सिद्धास्स्वपूर्वभ्रातरो ययुः ॥२६॥
तदुपस्पर्शनादेव नष्टाघा विमलाशयाः॥
तेपुर्महत्तपस्तत्र जपन्तो ब्रह्म सुव्रताः ॥२७॥
प्रजासर्गोद्यतांस्तान् वै ज्ञात्वा गत्वेति नारद॥
पूर्ववच्चागदो वाक्यं संस्मरन्नैश्वरीं गतिम् ॥२८॥
भ्रातृपंथानमादिश्य त्वं मुने मोघदर्शनः॥
अयाश्चोर्द्ध्वगतिं तेऽपि भ्रातृमार्गं ययुस्सुताः ॥२९॥
उत्पातान् बहुशोऽपश्यत्तदैव स प्रजापतिः॥
विस्मितोभूत्स मे पुत्रो दक्षो मनसि दुःखितः ॥३०॥
पूर्ववत्त्वत्कृतं दक्षश्शुश्राव चकितो भृशम्॥
पुत्रनाशं शुशोचाति पुत्रशोक विमूर्छितः ॥३१॥
चुक्रोध तुभ्यं दक्षोसौ दुष्टोयमिति चाब्रवीत्॥
आगतस्तत्र दैवात्त्वमनुग्रहकरस्तदा ॥३२॥
शोकाविष्टस्स दक्षो हि रोषविस्फुरिताधरः॥
उपलभ्य तमाहत्य धिग्धिक् प्रोच्य विगर्हयन् ॥३३॥
दक्ष उवाच॥
किं कृतं तेऽधमश्रेष्ठ साधूनां साधुलिंगतः॥
भिक्षोमार्गोऽर्भकानां वै दर्शितस्साधुकारि नो ॥३४॥
ऋणैस्त्रिभिरमुक्तानां लोकयोरुभयोः कृतः॥
विघातश्श्रेयसोऽमीषां निर्दयेन शठेन ते ॥३५॥
ऋणानि त्रीण्यपाकृत्य यो गृहात्प्रव्रजेत्पुमान्॥
मातरं पितरं त्यक्त्वा मोक्षमिच्छन्व्रजत्यधः ॥३६॥
निर्दयस्त्वं सुनिर्लज्जश्शिशुधीभिद्यशोऽपहा॥
हरेः पार्षदमध्ये हि वृथा चरसि मूढधीः ॥३७॥
मुहुर्मुहुरभद्रं त्वमचरो मेऽधमा ऽधम॥
विभवेद्भ्रमतस्तेऽतः पदं लोकेषु स्थिरम् ॥३८॥
शशापेति शुचा दक्षस्त्वां तदा साधुसंमतम्॥
बुबोध नेश्वरेच्छां स शिवमायाविमोहितः ॥३९॥
शापं प्रत्यग्रहीश्च त्वं स मुने निर्विकारधीः॥
एष एव ब्रह्मसाधो सहते सोपि च स्वयम् ॥४०॥
इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां द्वि० सतीखंडे दक्षसृष्टौ नारदशापो नाम त्रयोदशोऽध्यायः ॥१३॥

N/A

References : N/A
Last Updated : October 06, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP