संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|सतीखण्डः|

सतीखण्डः - अध्यायः ३६

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ब्रह्मोवाच॥
इन्द्रोऽपि प्रहसन् विष्णुमात्मवादरतं तदा॥
वज्रपाणिस्सुरैस्सार्द्धं योद्धुकामोऽभवत्तदा ॥१॥
तदेन्द्रो गजमारूढो बस्तारूढोऽनलस्तथा॥
यमो महिषमारूढो निर्ऋतिः प्रेतमेव च ॥२॥
पाशी च मकरारूढो मृगारूढो स्सदागतिः॥
कुबेरः पुष्पकारूढस्संनद्धोभूदतंद्रितः ॥३॥
तथान्ये सुरसंघाश्च यक्षचारणगुह्यकाः॥
आरुह्य वाहनान्येव स्वानि स्वानि प्रतापिनः ॥४॥
तेषामुद्योगमालोक्य दक्षश्चासृङ्मुखस्तथा॥
तदंतिकं समागत्य सकलत्रोऽभ्यभाषत ॥५॥
दक्षउवाच॥
युष्मद्बलेनैव मया यज्ञः प्रारंभितो महान्॥
सत्कर्मसिद्धये यूयं प्रमाणास्स्युर्महाप्रभाः ॥६॥
ब्रह्मोवाच॥
तच्छ्रुत्वा दक्षवचनं सर्वे देवास्सवासवाः॥
निर्ययुस्त्वरितं तत्र युद्धं कर्तुं समुद्यताः ॥७॥
अथ देवगणाः सर्वे युयुधुस्ते बलान्विताः॥
शक्रादयो लोकपाला मोहिताः शिवमायया ॥८॥
देवानां च गणानां च तदासीत्समरो महान्॥
तीक्ष्णतोमरनाराचैर्युयुधुस्ते परस्परम्॥९॥
नेदुश्शंखाश्च भेर्य्यश्च तस्मिन् रणमहोत्सवे॥
महादुंदुभयो नेदुः पटहा डिंडिमादयः ॥१०॥
तेन शब्देन महता श्लाघ्मानास्तदा सुराः॥
लोकपालैश्च सहिता जघ्नुस्ताञ्छिवकिंकरान् ॥११॥
इन्द्राद्यैर्लोकपालैश्च गणाश्शंभो पराङ्मुखाः॥
कृत्ताश्च मुनिशार्दूल भृगोर्मंत्रबलेन च ॥१२॥
उच्चाटनं कृतं तेषां भृगुणा यज्वना तदा॥
यजनार्थं च देवानां तुष्ट्यर्थं दीक्षितस्य च ॥१३॥
पराजितान्स्वकान्दृष्ट्वा वीरभद्रो रुषान्वितः॥
भूतप्रेतपिशाचांश्च कृत्वा तानेव पृष्ठतः ॥१४॥
वृषभस्थान् पुरस्कृत्य स्वयं चैव महाबलः॥
महात्रिशूलमादाय पातयामास निर्जरान् ॥१५॥
देवान्यक्षान् साध्यगणान् गुह्यकान् चारणानपि॥
शूलघातैश्च सर्वे गणा वेगात् प्रजघ्निरे ॥१६॥
केचिद्द्विधा कृताः खड्गैर्मुद्गरैश्च विपोथिताः॥
अन्यैश्शस्त्रैरपि सुरा गणैर्भिन्नास्तदाऽभवन् ॥१७॥
एवं पराजितास्सर्वे पलायनपरायणाः॥
परस्परं परित्यज्य गता देवास्त्रिविष्टपम् ॥१८॥
केवलं लोकपालास्ते शक्राद्यास्तस्थुरुत्सुकाः॥
संग्रामे दारुणे तस्मिन् धृत्वा धैर्यं महाबलाः ॥१९॥
सर्वे मिलित्वा शक्राद्या देवास्तत्र रणाजिरे॥
बृहस्पतिं च पप्रच्छुर्विनयावनतास्तदा ॥२०॥
लोकपाला ऊचुः॥
 गुरो बृहस्पते तात महाप्राज्ञ दयानिधे॥
शीघ्रं वद पृच्छतो नः कुतोऽ स्माकं जयो भवेत् ॥२१॥
ब्रह्मोवाच॥
इत्याकर्ण्य वचस्तेषां स्मृत्वा शंभुं प्रयत्नवान्॥
बृहस्पतिरुवाचेदं महेन्द्रं ज्ञानदुर्बलम् ॥२२॥
बृहस्पतिरुवाच॥
यदुक्तं विष्णुना पूर्वं तत्सर्वं जातमद्य वै॥
तदेव विवृणोमीन्द्र सावधानतया शृणु ॥२३॥
अस्ति यक्षेश्वरः कश्चित् फलदः सर्वकर्मणाम्॥
कर्तारं भजते सोपि न स्वकर्त्तुः प्रभुर्हि सः ॥२४॥
अमंत्रौषधयस्सर्वे नाभिचारा न लौकिकाः॥
न कर्माणि न वेदाश्च न मीमांसाद्वयं तथा ॥२५॥
अन्यान्यपि च शास्त्राणि नानावेदयुतानि च॥
ज्ञातुं नेशं संभवंति वदंत्येवं पुरातनाः ॥२६॥
न स्वज्ञेयो महेशानस्सर्ववेदायुतेन सः॥
भक्तेरनन्यशरणैर्नान्यथेति महाश्रुतिः ॥२७॥
शांत्या च परया दृष्ट्या सर्वथा निर्विकारया॥
तदनुग्रहतो नूनं ज्ञातव्यो हि सदाशिवः ॥२८॥
परं तु संवदिष्यामि कार्याकार्य विवक्षितौ॥
सिध्यंशं च सुरेशान तं शृणु त्वं हिताय वै ॥२९॥
त्वमिंद्र बालिशो भूत्वा लोकपालैः सदाद्य वै॥
आगतो दक्ष यज्ञं हि किं करिष्यसि विक्रमम् ॥३०॥
एते रुद्रसहायाश्च गणाः परमकोपनाः॥
आगता यज्ञविघ्नार्थं तं करिष्यंत्यसंशयम ॥३१॥
सर्वथा न ह्युपायोत्र केषांचिदपि तत्त्वतः॥
यज्ञविघ्नविनाशार्थ सत्यं सत्यं ब्रवीम्यहम् ॥३२॥
ब्रह्मोवाच॥
एवं बृहस्पतेर्वाक्यं श्रुत्वा ते हि दिवौकसः॥
चिंतामापेदिरे सर्वे लोकपालास्सवासवाः ॥३३॥
ततोब्रवीद्वीरभद्रो महावीरगणैर्वृतः॥
इन्द्रादीन् लोकपालांस्तान् स्मृत्वा मनसि शंकरम् ॥३४॥
वीरभद्र उवाच॥
सर्वे यूयं बालिशत्वादवदानार्थमागताः॥
अवदानं प्रयच्छामि आगच्छत ममांतिकम् ॥३५॥
हे शक्र हे शुचे भानो हे शशिन् हे धनाधिप॥
हे पाशपाणे हे वायो निर्ऋते यम शेष हे ॥३६॥
हे सुरासुरसंघाहीहैत यूयं हे विचक्षणाः॥
अवदानानि दास्यामि आतृप्त्याद्यासतां वराः ॥३७॥
 ॥ब्रह्मोवाच॥
एवमुक्त्वा सितैर्बाणैर्जघानाथ रुषान्वितः॥
निखिलांस्तान् सुरान् सद्यो वीरभद्रो गणाग्रणीः॥
तैर्बाणैर्निहतास्सर्वे वासवाद्याः सुरेश्वराः ॥३८॥
पलायनपरा भूत्वा जग्मुस्ते च दिशो दश॥
गतेषु लोकपालेषु विद्रुतेषु सुरेषु च॥
यज्ञवाटोपकंठं हि वीरभद्रोगमद्गणैः ॥३९॥
तदा ते ऋषयस्सर्वे सुभीता हि रमेश्वरम्॥
विज्ञप्तुकामास्सहसा शीघ्रमूचुर्नता भृशम् ॥४०॥
ऋषय ऊचुः॥
देवदेव रमानाथ सर्वेश्वर महाप्रभो॥
रक्ष यज्ञं हि दक्षस्य यज्ञोसि त्वं न संशयः ॥४१॥
यज्ञकर्मा यज्ञरूपो यज्ञांगो यज्ञरक्षकः॥
रक्ष यज्ञमतो रक्ष त्वत्तोन्यो न हि रक्षकः ॥४२॥
 ॥ब्रह्मोवाच॥
इत्याकर्ण्य वचस्तेषामृषीणां वचनं हरिः॥
योद्धुकामो भयाद्विष्णुर्वीरभद्रेण तेन वै ॥४३॥
चतुर्भुजस्सुसनद्धो चक्रायुधधरः करैः॥
महाबलोमरगणैर्यज्ञवाटात्स निर्ययौ ॥४४॥
वीरभद्रः शूलपाणिर्नानागणसमन्वितः॥
ददर्श विष्णुं संनद्धं योद्धुकामं महाप्रभुम् ॥४५॥
तं दृष्ट्वा वीरभद्रोभूद्भ्रुकुटीकुटिलाननः॥
कृतांत इव पापिष्ठं मृगेन्द्र इव वारणम् ॥४६॥
तथाविधं हरिं दृष्ट्वा वीरभद्रो रिमर्दनः॥
अवदत्त्वरितः क्रुद्धो गणैर्वीरैस्समावृतः ॥४७॥
वीरभद्र उवाच॥
रेरे हरे महादेव शपथोल्लंघनं त्वया॥
कथमद्य कृतं चित्ते गर्वः किमभवत्तव ॥४८॥
तव श्रीरुद्रशपथोल्लंघने शक्तिरस्ति किम्॥
को वा त्वमसिको वा ते रक्ष कोस्ति जगत्त्रये ॥४९॥
अत्र त्वमागतः कस्माद्वयं तन्नैव विद्महे॥
दक्षस्य यज्ञपातात्त्वं कथं जातोसि तद्वद ॥५०॥
दाक्षायण्याकृतं यच्च तन्न दृष्टं किमु त्वया॥
प्रोक्तं यच्च दधीचेन श्रुतं तन्न किमु त्वया ॥५१॥
त्वञ्चापि दक्षयज्ञेस्मिन्नवदानार्थमागतः॥
अवदानं प्रयच्छामि तव चापि महाभुज ॥५२॥
वक्षो विदारयिष्यामि त्रिशूलेन हरे तव॥
कस्तवास्ति समायातो रक्षकोद्य ममांतिकम् ॥५३॥
पातयिष्यामि भूपृष्ठे ज्वालयिष्यामि वह्निना॥
दग्धं भवंतमधुना पेषयिष्यामि सत्वरम् ॥५४॥
रेरे हरे दुराचार महेश विमुखाधम॥
श्रीमहारुद्रमाहात्म्यं किन्न जानासि पावनम् ॥५५॥
तथापि त्वं महाबाहो योद्धुकामोग्रतः स्थितः॥
नेष्यामि पुनरावृत्तिं यदि तिष्ठेस्त्वमात्मना ॥५६॥
ब्रह्मोवाच ॥
तस्य तद्वचनं श्रुत्वा वीरभद्रस्य बुद्धिमान्॥
उवाच विहसन् प्रीत्या विष्णुस्त्र सुरेश्वरः ॥५७॥
विष्णुरुवाच॥
शृणु त्वं वीरभद्राद्य प्रवक्ष्यामि त्वदग्रतः॥
न रुद्रविमुखं मां त्वं वद शंकरसेवकम् ॥५८॥
अनेन प्रार्थितः पूर्वं यज्ञार्थं च पुनः पुनः॥
दक्षेणाविदितार्थेन कर्मनिष्ठेन मौढ्यतः ॥५९॥
अहं भक्तपराधीनस्तथा सोपि महेश्वरः॥
दक्षो भक्तो हि मे तात तस्मादत्रागतो मखे ॥६०॥
शृणु प्रतिज्ञां मे वीर रुद्रकोपसमुद्भव॥
रुद्रतेजस्स्वरूपो हि सुप्रतापालयंप्रभो ॥६१॥
अहं निवारयामि त्वां त्वं च मां विनिवारय॥
तद्भविष्यति यद्भावि करिष्येऽहं पराक्रमम् ॥६२॥
 ॥ब्रह्मोवाच॥
इत्युक्तवति गोविन्दे प्रहस्य स महाभुजः॥
अवदत्सुप्रसन्नोस्मि त्वां ज्ञात्वास्मत्प्रभोः प्रियम् ॥६३॥
ततो विहस्य सुप्रीतो वीरभद्रो गणाग्रणीः॥
प्रश्रयावनतोवादीद्विष्णुं देवं हि तत्त्वतः ॥६४॥
 ॥वीरभद्र उवाच॥
तव भावपरीक्षार्थमित्युक्तं मे महाप्रभो॥
इदानीं तत्त्वतो वच्मि शृणु त्वं सावधानतः ॥६५॥
यथा शिवस्तथा त्वं हि यथा त्वं च तथा शिवः॥
इति वेदा वर्णयंति शिवशासनतो हरे ॥६६॥
शिवाज्ञया वयं सर्वे सेवकाः शंकरस्य वै॥
तथापि च रमानाथ प्रवादोचितमादरात् ॥६७॥
 ॥ब्रह्मोवाच॥
तच्छ्रुत्वा वचनं तस्य वीरभद्रस्य सोऽच्युतः॥
प्रहस्य चेदं प्रोवाच वीरभद्रमिदं वचः ॥६८॥
 ॥विष्णुरुवाच॥
युद्धं कुरु महावीर मया सार्द्धमशंकितः॥
तवास्त्रैः पूर्यमाणोहं गमिष्यामि स्वमाश्रमम् ॥६९॥
 ॥ब्रह्मोवाच॥
इत्युक्त्वा हि विरम्यासौ सन्नद्धोभूद्रणाय च॥
स्वगणैर्वीरभद्रोपि सन्नद्धोथ महाबलः ॥७०॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे विष्णुवीरभद्रसम्वादो नाम षट्त्रिंशोऽध्यायः ॥३६॥

N/A

References : N/A
Last Updated : October 07, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP