संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|सतीखण्डः|

सतीखण्डः - अध्यायः ३८

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


 ॥सूत उवाच ॥
इत्याकर्ण्य वचस्तस्य विधेरमितधीमतः॥
पप्रच्छ नारदः प्रीत्या विस्मितस्तं द्विजोत्तमः ॥१॥
 ॥नारद उवाच ॥
शिवं विहाय दक्षस्य सुरैर्यज्ञं हरिर्गतः॥
हेतुना केन तद् ब्रूहि यत्रावज्ञाऽ भवत्ततः ॥२॥
जानाति किं स शंभुं नो हरिः प्रलयविक्रमम्॥
रणं कथं च कृतवान् तद्गणैरबुधो यथा ॥३॥
एष मे संशयो भूयांस्तं छिंधि करुणानिधे॥
चरितं ब्रूहि शंभोस्तु चित्तोत्साहकरं प्रभो ॥४॥
ब्रह्मोवाच॥
द्विजवर्य शृणु प्रीत्या चरितं शशिमौलिनः॥
यत्पृच्छते कुर्वतश्च सर्वसंशयहारकम् ॥५॥
दधीचस्य मुनेः शापाद्भ्रष्टज्ञानो हरिः पुरा॥
सामरो दक्षयज्ञं वै गतः क्षुवसहायकृत् ॥६॥
 ॥नारद उवाच॥
किमर्थं शप्तवान्विष्णुं दधीचो मुनिसत्तमः॥
कोपाकारः कृतस्तस्य हरिणा तत्सहायिना ॥७॥
ब्रह्मोवाच॥
समुत्पन्नो महातेजा राजा क्षुव इति स्मृतः॥
अभून्मित्रं दधीचस्य मुनीन्द्रस्य महाप्रभोः ॥८॥
चिरात्तपःप्रसंगाद्वै वादः क्षुवदधीचयोः॥
महानर्थकरः ख्यातस्त्रिलोकेष्वभवत्पुरा॥९॥
तत्र त्रिवर्णतः श्रेष्ठो विप्र एव न संशयः॥
इति प्राह दधीचो हि शिवभक्तस्तु वेदवित् ॥१०॥
तच्छ्रुत्वा वचनं तस्य दधीचस्य महामुने॥
क्षुवः प्राहेति नृपतिः श्रीमदेन विमोहितः ॥११॥
क्षुव उवाच॥
अष्टानां लोकपालानां वपुर्धारयते नृपः॥
तस्मान्नृपो वरिष्ठो हि वर्णाश्रमपतिः प्रभुः ॥१२॥
सर्वदेवमयो- राजा श्रुति प्राहेति तत्परा॥
महती देवता या सा सोहमेव ततो मुने ॥१३॥
तस्माद्विप्राद्वरो राजा च्यवनेय विचार्यताम्॥
नावमंतव्य एवातः पूज्योऽहं सर्वथा त्वया ॥१४॥
ब्रह्मोवाच॥
श्रुत्वा तथा मतं तस्य क्षुवस्य मुनिसत्तमः॥
श्रुतिस्मृतिविरुद्धं तं चुकोपातीव भार्गवः ॥१५॥
अथ क्रुद्धो महातेजा गौरवाच्चात्मनो मुने॥
अताडयत्क्षुवं मूर्ध्नि दधीचो वाममुष्टितः ॥१६॥
वज्रेण तं च चिच्छेद दधीचं ताडितः क्षुवः॥
जगर्जातीव संक्रुद्धो ब्रह्मांडाधिपतिः कुधीः ॥१७॥
पपात भूमौ निहतो तेन वज्रेण भार्गवः॥
शुक्रं सस्मार क्षुवकृद्भार्गवस्य कुलंधरः ॥१८॥
शुक्रोथ संधयामास ताडितं च क्षुवेन तु॥
योगी दधीचस्य तदा देहमागत्य सद्रुतम् ॥१९॥
संधाय पूर्ववद्देहं दधीचस्याह भार्गवः॥
शिवभक्ताग्रणीर्भृत्यं जयविद्याप्रवर्तकः ॥२०॥
शुक्र उवाच॥
दधीच तात संपूज्य शिवं सर्वेश्वरं प्रभुम्॥
महामृत्युंजयं मंत्रं श्रौतमग्र्यं वदामि ते ॥२१॥
त्र्यम्बकं यजामहे त्रैलोक्यं पितरं प्रभुम्॥
त्रिमंडलस्य पितरं त्रिगुणस्य महेश्वरम् ॥२२॥
त्रितत्त्वस्य त्रिवह्नेश्च त्रिधाभूतस्य सर्वतः॥
त्रिदिवस्य त्रिबाहोश्च त्रिधाभूतस्य सर्वतः॥ ॥२३॥
त्रिदेवस्य महादेवस्सुगंधि पुष्टिवर्द्धनम्॥
सर्वभूतेषु सर्वत्र त्रिगुणेषु कृतौ यथा ॥२४॥
इन्द्रियेषु तथान्येषु देवेषु च गणेषु च॥
पुष्पे सुगंधिवत्सूरस्सुगंधिममरेश्वरः ॥२५॥
पुष्टिश्च प्रकृतेर्यस्मात्पुरुषाद्वै द्विजोत्तम॥
महदादिविशेषांतविकल्पश्चापि सुव्रत॥ ॥२६॥
विष्णोः पितामहस्यापि मुनीनां च महामुने॥
इन्द्रियस्य च देवानां तस्माद्वै पुष्टिवर्द्धनः ॥२७॥
तं देवममृतं रुद्रं कर्मणा तपसापि वा॥
स्वाध्यायेन च योगेन ध्यानेन च प्रजापते ॥२८॥
सत्येनान्येन सूक्ष्माग्रान्मृत्युपाशाद्भवः स्वयम्॥
वंधमोक्षकरो यस्मादुर्वारुकमिव प्रभुः ॥२९॥
मृतसंजीवनीमन्त्रो मम सर्वोत्तमः स्मृतः॥
एवं जपपरः प्रीत्या नियमेन शिवं स्मरन् ॥३०॥
जप्त्वा हुत्वाभिमंत्र्यैव जलं पिब दिवानिशम्॥
शिवस्य सन्निधौ ध्यात्वा नास्ति मृत्युभयं क्वचित् ॥३१॥
कृत्वा न्यासादिकं सर्वं संपूज्य विधिवच्छिवम्॥
संविधायेदं निर्व्यग्रश्शंकरं भक्तवत्सलम् ॥३२॥
ध्यानमस्य प्रवक्ष्यामि यथा ध्यात्वा जपन्मनुम्॥
सिद्ध मन्त्रो भवेद्धीमान् यावच्छंभुप्रभावतः ॥३३॥
हस्तांभोजयुगस्थकुंभयुगलादुद्धृत्यतोयं शिरस्सिंचंतं करयोर्युगेन दधतं स्वांकेभकुंभौ करौ॥
अक्षस्रङ्मृगहस्तमंबुजगतं मूर्द्धस्थचन्द्रस्रवत्पीयूषार्द्रतनुं भजे सगिरिजं त्र्यक्षं च मृत्युंजयम् ॥३४॥
ब्रह्मोवाच॥
उपदिश्येति शुक्रः स्वं दधीचिं मुनिसत्तमम्॥
स्वस्थानमगमत्तात संस्मरञ् शंकरं प्रभुम् ॥३५॥
तस्य तद्वचनं श्रुत्वा दधीचो हि महामुनिः॥
वनं जगाम तपसे महाप्रीत्या शिवं स्मरन् ॥३६॥
तत्र गत्वा विधानेन महामृत्युंजयाभिधम्॥
तं मनुं प्रजपन् प्रीत्या तपस्तेपे शिवं स्मरन् ॥३७॥
तन्मनुं सुचिरं जप्त्वा तपसाराध्य शंकरम्॥
शिवं संतोषयामास महामृत्युंजयं हि सः ॥३८॥
अथ शंभुः प्रसन्नात्मा तज्जपाद्भक्तवत्सलः॥
आविर्बभूव पुरतस्तस्य प्रीत्या महामुने ॥३९॥
तं दृष्ट्वा स्वप्रभुं शंभुं स मुमोद मुनीश्वरः॥
प्रणम्य विधिवद्भक्त्या तुष्टाव सुकृतांजलिः ॥४०॥
अथ प्रीत्या शिवस्तात प्रसन्नश्च्यावनिं मुने॥
वरं ब्रूहीति स प्राह सुप्रसन्नेन चेतसा ॥४१॥
तच्छुत्वा शंभुवचनं दधीचो भक्तसत्तमः॥
सांजलिर्नतकः प्राह शंकरं भक्तवत्सलम् ॥४२॥
दधीच उवाच॥
देवदेव महादेव मह्यं देहि वरत्रयम्॥
वज्रास्थित्वादवध्यत्वमदीनत्वं हि सर्वतः ॥४३॥
ब्रह्मोवाच॥
तदुक्तवचनं श्रुत्वा प्रसन्नः परमेश्वरः॥
वरत्रयं ददौ तस्मै दधीचाय तथास्त्विति ॥४४॥
वरत्रयं शिवात्प्राप्य सानंदश्च महामुनिः॥
क्षुवस्थानं जगामाशु वेदमार्गे प्रतिष्ठितः ॥४५॥
ब्रह्मोवाच॥
प्राप्यावध्यत्वमुग्रात्स वज्रास्थित्वमदीनताम्॥
अताडयच्च राजेन्द्रं पादमूलेन मूर्द्धनि ॥४६॥
क्षुवो दधीचं वज्रेण जघानोरस्यथो नृपः॥
क्रोधं कृत्वा विशेषेण विष्णुगौरवगर्वितः ॥४७॥
नाभून्नाशाय तद्वज्रं दधीचस्य महात्मनः॥
प्रभावात्परमेशस्य धातृपुत्रो विसिस्मिये ॥४८॥
दृष्ट्वाप्यवध्यत्वमदीनतां च वज्रस्य चात्यंतपरप्रभावम्॥
क्षुवो दधीचस्य मुनीश्वरस्य विसिस्मिये चेतसि धातृपुत्रः ॥४९॥
आराधयामास हरिं मुकुन्दमिन्द्रानुजं काननमाशु गत्वा॥
प्रपन्नपालश्च पराजितो हि दधीचमृत्युंजयसेवकेन ॥५०॥
पूजया तस्य सन्तुष्टो भगवान् मधुसूदनः॥
प्रददौ दर्शनं तस्मै दिव्यं वै गरुडध्वजः ॥५१॥
दिव्येन दर्शनेनैव दृष्ट्वा देवं जनार्दनम्॥
तुष्टाव वाग्भिरिष्टाभिः प्रणम्य गरुडध्वजम् ॥५२॥
सम्पूज्य चैवं त्रिदशेश्वराद्यैः स्तुतं देवमजेयमीशम्॥
विज्ञापयामास निरीक्ष्य भक्त्या जनार्दनाय प्रणिपत्य मूर्ध्ना ॥५३॥
राजोवाच॥
भगवन् ब्राह्मणः कश्चिद्दधीच इति विश्रुतः॥
धर्मवेत्ता विनीतात्मा सखा मम पुराभवत् ॥५४॥
अवध्यस्सर्वदा सर्वैश्शंकरस्य प्रभावतः॥
तमाराध्य महादेवं मृत्युंजयमनामयम् ॥५५॥
सावज्ञं वामपादेन मम मूर्ध्नि सदस्यपि॥
ताडयामास वेगेन स दधीचो महातपाः ॥५६॥
उवाच तं च गर्वेण न बिभेमीति सर्वतः॥
मृत्युंजयाप्त सुवरो गर्वितो ह्यतुलं हरिः ॥५७॥
 ॥ब्रह्मोवाच॥
अथ ज्ञात्वा दधीचस्य ह्यवध्यत्वं महात्मनः॥
सस्मारास्य महेशस्य प्रभावमतुलं हरिः ॥५८॥
एवं स्मृत्वा हरिः प्राह क्षुवं विधिसुतं द्रुतम्॥
विप्राणां नास्ति राजेन्द्र भयमण्वपि कुत्रचित् ॥५९॥
विशेषाद्रुद्रभक्तानां भयं नास्ति च भूपते॥
दुःखं करोति विप्रस्य शापार्थं ससुरस्य मे ॥६०॥
भविता तस्य शापेन दक्षयज्ञे सुरेश्वरात्॥
विनाशो मम राजेन्द्र पुनरुत्थानमेव च ॥६१॥
तस्मात्समेत्य राजेन्द्र सर्वयज्ञो न भूयते॥
करोमि यत्नं राजेन्द्र दधीचविजयाय ते ॥६२॥
श्रुत्वा वाक्यं क्षुवः प्राह तथास्त्विति हरेर्नृपः॥
तस्थौ तत्रैव तत्प्रीत्या तत्कामोत्सुकमानसः ॥६३॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीयसतीखंडे क्षुवदधीचवादवर्णनं नामाष्टत्रिंशोऽध्यायः ॥३८॥

N/A

References : N/A
Last Updated : October 07, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP