संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|सतीखण्डः|

सतीखण्डः - विषयानुक्रमणिका

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


अथ द्वितीया रुद्रसंहिताया द्वितीयः सतीखण्डः

अध्यायः १ - रुद्रब्रह्माणं संध्याख्यस्वसुतारूपदर्शनेन मोहितं दृष्ट्वा दक्षाद्यैस्तत्पुत्रैः सह तं निर्भत्स्य स्वस्थानं गतेऽमर्षितब्रह्मणो रुद्रमोहार्थप्रलयकरणम् । हठाच्छक्त्युत्पासनया रुद्रमोहाय स्वसुताद्दक्षात्सतीनामककन्योत्पादनं तया सह रुद्रस्य विवाहः । तया रममाणस्य रुद्रस्य दक्षेण विरोधस्तत्संबंधेन रुद्ररहितदक्षयज्ञारंभः तस्मिन रुद्रभागानवलोकात्सतीकोपेन यज्ञविध्वंसः, पुनः संधानं, ज्वालामुख्युत्पत्त्यादिवर्णनम्

अध्यायः २ - निर्गुणशिवस्य द्विरूपभवनं ततस्तस्य रुद्रादित्रिधाभवनम, श्रष्टुब्रह्मणः सकाशात् सुरासुरनरादिप्रजानां प्रजापतीनां चाविर्भावः, ,प्रसन्नमनस्कविधासकाशात्संमोहिनीसंध्योत्पत्त्युक्तिः, मदनोत्पत्तितत्स्वरूपैष्वर्यं दानादिवर्णनम् ।

अध्यायः ३ - ब्रह्मणः सकाशात्कामस्य नामकर्माद्यैश्वर्यप्राप्तौ तेन विधितत्पुत्रोपरि साक्षात्प्रयोगकरणात्पितृ सर्गोत्पत्तिमवलोक्य क्रुद्धस्य ब्रह्मण: शापप्राप्तिन्मोचनादिवर्णनम् ।

अध्यायः ४ - दक्षकन्यया रत्या सह मदनस्य विवाहवर्णनम् । रतिरूपवर्णनम् । शिवमायामोहेन कामशापविस्मरणात्स्वकन्याया योग्यवरप्राप्तिजन्यानंदादिवर्णनञ्च ।

अध्यायः ५ - संघ्यायास्तपस्तुष्ट शिवादनेकवरलाभः पूर्वरूपत्यागश्च, अन्यदपि तच्चरित्रवर्णनम् ।

अध्यायः ६ - संघ्याकृततपस्तुष्टशिवस्य संध्याकृतस्तोत्रवर्णनं, शिवप्रसादात्तस्या अनेकवरप्राप्तिः ।

अध्यायः ७ - संध्याया मेधातिथिसत्रगमनं तत्रालक्षितत्वेन शरीरत्यागात्सूर्यलोकगमनं, ततस्तस्य, अरुंधतीनामप्राप्तिवर्णनम्, वशिष्ठेन तस्या विवाहः, तयोः शक्त्यादिपुत्रोत्पत्तिः ।

अध्यायः ८ - रुद्रोपहासरुष्टनारदसंतोषार्थं रुद्रसंमोहनाय प्रेषितयोः कामरत्योर्वसंतादिसहचरसाधनेन कामस्य रुद्रलोकप्रयाणवर्णनम् ।

अध्यायः ९ - वसंतादिसामग्रीयुक्तस्यापि मदनस्य रुद्रमोहनाशक्तत्वेन विमनस्कत्ववर्णनं, पुनश्च विधेराज्ञया मारनामकगणैः सह यत्र यत्र शिवगमनं तत्र तत्र गच्छतो मदनस्य श्रमवैफल्यात्स्वलोकगति: ।

अध्यायः १० -अमोहितशिवकामस्वधामगतौ खिन्नविधेर्विष्णुस्तुतिः, शिवमहिमस्मृतिदानेन विष्णुकृतविधेर्बोधः, शक्तिरवतारग्रहणे तदश्चर्यायां दक्षस्य प्रवर्तनेन शक्तिप्राकटयाच्छिवविवाहादिसंभवोपायसूचनवर्णनम् ।

अध्यायः ११ - हर्युपदिष्टविधिस्तुत्याऽविर्भूय शिवा दक्षादुत्पद्य रुद्रे मोहयिष्यामीति विधये वरं ददौ ।

अध्यायः १२ - ब्रह्मप्रेरितशक्त्याराधनप्रवृत्तदक्षस्य बहुकालेन शक्तिदर्शनम्, मत्कन्यात्वेन रुद्र मोहयेति दक्षयाच्ञ्चोक्तिः ।

अध्यायः १३ - ब्रह्मनिदेशेन प्रजासर्गे प्रवृत्तस्य दक्षस्य ब्रह्मोक्त्या असिक्नीनामकपंचजनकन्यया विवाहः । मैथुनधर्मणोत्पादितानां दक्षपुत्राणां नारदस्य निवृत्ति मागोंपदेशेन वैराग्यप्राप्ति; तन्नारदकर्मासहिष्णोर्दक्षान्नारदस्य शापप्राप्त्यादिवर्णनम्।

अध्यायः १४ - दक्षस्य षष्ठिकन्यासर्गाणां वर्णनं, तासां विवाहादिवर्णनं च, ततो दक्षगृहे साक्षाच्छिवशक्तिप्रादुर्भावमहोत्सवर्णनं, शक्तिवालबालनाद्युक्तिश्च ।

अध्यायः १५ - ब्रह्मानारदाभ्यां सदृशवरप्राप्तिरूपवरोपलब्ध्यनंतरं मात्रनुज्ञया सत्या द्वादशमासात्मकशिवार्चनव्रताचरणं विष्ण्वादिसर्वदेवानां च तदवलोकनेनानंदवर्णनम् । सस्त्रीकयोर्विधिविष्ण्वोः शिवलोकगमनं तत्स्तोत्रकरणं च ।

अध्यायः १६ - स्वागमनप्रयोजनकथनानंतर युक्तस्त्रीस्वीकरणं विना सृष्टयसम्भवे इति ब्रह्महरिभ्योऽमुक्तसंगस्यापि शिवस्य तयोराग्रहाद्विवाहस्वीकारस्य वर्णनम् ।

अध्यायः १७ - दक्षकन्याया नंदाव्रतपूर्त्युत्तरं शिवस्य दर्शनं तन्मनोभिलषितप्राप्तिवर्णनं, ब्रह्मणा सह दक्षगृहे रथेन शिवस्यागमनादिवर्णनं च ।

अध्यायः १८ - विष्ण्वादिदेवैर्मरीच्यादि ऋषिगणैः सह शिवस्य सतीवरणार्थं दक्षगृहगमनं, शिवसती विवाह वर्णनं च ।

अध्यायः १९ -सतीशिवविवाहोत्सवे सतीरूपावलोकनेन ब्रह्मस्तद्विषयककामुकत्वर्णनं, अनुरोधाच्छिवस्य विधिहने प्रावृत्तिः, विष्णुप्रार्थनया च ब्रह्मवध निवृत्तिः ।

अध्यायः २० - सतीशिवविवाहोत्सवे ब्रह्मणो विरूपतावर्णनं, पुनश्च मर्त्यलोके च तद्रूपेणैव ब्रह्मणः पूज्यताप्राप्तिरूपवरलाभवर्णनम् ।

अध्यायः २१ - सतीशिवकैलासगमनं, तत्र चा लौकिकचेष्टया तयोर्विहरणम् ।

अध्यायः २२ - पर्जन्यकाले निलयनिर्माणाय सत्या प्रेरितस्य शिवस्य मत्स्थाने मेघानां गत्यभाव इत्युक्तिः । सतीच्छया हिमालये शिवयोः क्रीडाया वर्णनम् ।

अध्यायः २३ - विषयोपभोगाज्जातविरागाया: शिवाया लोकशिक्षणार्थ सभेदस्वरूपभक्तिभावकथनं तथा मोक्षाद्यनेकशास्त्रोद्देशकथनं च ।

अध्यायः २४ - लीलया पृथिव्यामटतो: सतीशिवयोर्वने विरहिणं रामं प्रणमन्तं शिवमवलोक्य शंकितायाः सत्या रामपरीक्षाया वर्णनम् ।

अध्यायः २५ - शिवसती वियोगकारणवर्णनम् ।

अध्यायः २६ - रामपरीक्षार्थं सीतारूपेण गतायाः सत्याः राममोहायोगात्पश्चात्तापः, विष्णवे शिवस्वाधिकारार्पणम्, सत्रे दक्षशिवयोर्विरोधकारणवर्णनं च |

अध्यायः २७ - दक्षप्रजापते रुद्रभागरहितयज्ञे देवादीनामागतिः तत्र रुद्रमदृष्ट्वा दधीचे यज्ञवाटान्निर्गमनम्, तत्पक्षपातिब्राह्मणनामपि निर्गमे शिवविधिनो यज्ञप्रवृत्तिरेवेति वर्णनम् ।

अध्यायः २८ - गंधमादने सखीजनसहितायाः सत्या रोहिण्या सह चंद्रस्य दक्षयज्ञगमनमवलोक्य स्वगमनेच्छाप्रकटनं बोधनेऽपि साग्रहायै शिवाज्ञाप्रदानम् ।

अध्यायः २९ - दक्षयज्ञे गतायाः सत्या दक्षादवमानः, सर्वदेवानां तत्कृततिरस्कारवर्णनं, दक्षाय सत्यया शिवमाहात्म्यकथनं च ।

अध्यायः ३० - सत्या योगात्स्वेच्छया तत्र देहत्यागे कृते भृगुणा शिवगणेषु पराभूतेष्वपि विघ्नदर्शनाद्देवादीनां साध्वसोत्पत्तिवर्णनम् ।

अध्यायः ३१ - दक्षयज्ञे देववाणीद्वारा दक्षकृतौ तिरस्कारदर्शनं भविष्यत्कथनं च ।

अध्यायः ३२ - भुगुपराजितस्वगणद्वारा सतीदेहत्यागादिवृत्तश्रवणात्क्रुद्धस्य शिवस्य जटाया वीरभद्रमहाकालीज्वरादीनां प्रादुर्भावः, तेभ्यो दक्षतत्पक्षीयाणां संहाराय शिवाज्ञेति वर्णनम् ।

अध्यायः ३३ - शिवाज्ञया दक्षयक्षसंहारार्थचलितयोः कालीवीरभद्रयोः सेनासमारोहस्य वर्णनम् ।

अध्यायः ३४ - कैलासाच्छिवगणैः सह दक्षनाशाय निर्गते वीरभद्रयज्ञवाटस्थानां देवादीनामुत्पातदर्शनाद्भयोत्पत्ति:, देववाण्या शिवनिंदकस्य दक्षस्य महाभयसूचने विष्णुप्रार्थनेत्युक्तिः ।

अध्यायः ३५ - विष्णुं प्रति दक्षस्य तद्विज्ञप्तिः, शिवनिंदकस्य रक्षणे केषामपि सामर्थ्यं नेति तात्पर्यगर्भितहरेरुक्तिः, एतत्कर्मणा तव वीरभद्रान्मृत्युरस्मदादीनां च मृत्युसमशासनं भविष्यतीति च तदुक्तिः, शिवसामर्थ्यमप्यवर्णितेन ।

अध्यायः ३६ - शिवमायामोहितैर्लोकपालवीरभद्रस्य संग्राम:, तस्मिंश्च तेषां सर्वेषां पराभवः, ततो विष्णुवीरभद्रयोः संवादोत्तरं संग्रामोन्मुखत्वादिकथनम्

अध्यायः ३७ - विष्ण्वादिदेवैवींरभद्रादिशिवगणानां सह दारुणसंग्रामस्य वर्णनं, तया चेदं सर्वं सतीकृतं मत्वा पराभूतानां देवानां स्वस्वस्थानगमनम्, जयशालिवीरभद्रकृतदेवर्षिगणानां दन्तत्रोटनश्मश्रुलुञ्चनाद्युपद्रवो यज्ञविध्वसनं च, ततो दक्षस्य दीक्षितस्यापि वीरभद्रकृतशिरश्छेदादिवर्णनम्।

अध्यायः ३८ - शिवप्रभावज्ञविष्णोः शिवं विना देवैः सह दक्षस्यगमने कारणकथनप्रसंगेन दधीचर्षिक्षुवराज्ञोः • स्वस्वश्रैष्ठ्यविषयकविवाद कथनं, क्षुवयोः सकाशाद्दधीचेः पराभवः, मृत्युंजयप्रभावाद्दधीचेरमरत्वप्राप्तिः, तस्मात्परभूतस्य क्षुवयोर्हरेराराधनादिवर्णनम् ।

अध्यायः ३९ - दधीचं प्रति द्विजरूपेण क्षुवथुक्षत्रियकार्यार्थं विष्णोर्गमनम् दधीचविष्ण्वोः क्षुवनिमित्तको महान्कलहः, दधीचस्य शवाद्विष्णोः पराभवः, दधीच सकाशा वै: सह विष्णो, शापप्राप्तिवर्णनम् ।

अध्यायः ४० - दक्षप्रजापतिनिधनजदुःखेन खिन्नस्यब्रह्मण देवैः सह वैकुंठगमनं, दक्षसंजीवनयज्ञसंधानाय देवैः सह कैलासे विष्णोगमनं कैलासवर्णनं च ।

अध्यायः ४१ - सतीविरहिणोऽपि शिवस्य विष्णुकृतस्वापराधख्यापनप्रदर्शिका स्तुतिः ।

अध्यायः ४२ - स्तुत्या प्रसन्नस्य शिवस्य यज्ञसाधनोपायकथनम् |

अध्यायः ४३ - वीरभद्रदग्धशिरसः प्रजापतेर्वस्तशिर: संधानाज्जीवनोपायकथनं, यज्ञानुसंधानप्रकारः, सतीखंडश्रवणपठनफलावाप्तिकथनं च । |

इति द्वितीयाया रुद्रसंहिताया द्वितीय सतीखंड: ।

N/A

References : N/A
Last Updated : October 05, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP