संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|सतीखण्डः|

सतीखण्डः - अध्यायः ३७

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


 ॥ब्रह्मोवाच॥
वीरभद्रोथ युद्धे वै विष्णुना स महाबलः॥
संस्मृत्य शंकरं चित्ते सर्वापद्विनिवारणम् ॥१॥
आरुह्य स्यंदनं दिव्यं सर्ववैरिविमर्दनः॥
गृहीत्वा परमास्त्राणि सिंहनादं जगर्ज ह ॥२॥
विष्णुश्चापि महाघोषं पांचजन्या भिधन्निजम्॥
दध्मौ बली महाशंखं स्वकीयान् हर्षयन्निव ॥३॥
तच्छ्रुत्वा शंखनिर्ह्रादं देवा ये च पलायिताः॥
रणं हित्वा गताः पूर्वं ते द्रुतं पुनराययुः ॥४॥
वीरभद्र गणैस्तेषां लोकपालास्सवासवाः॥
युद्धञ्चक्रुस्तथा सिंहनादं कृत्वा बलान्विताः ॥५॥
गणानां लोकपालानां द्वन्द्वयुद्धं भयावहम्॥
अभवत्तत्र तुमुलं गर्जतां सिंहनादतः ॥६॥
नन्दिना युयुधे शक्रोऽनलो वै वैष्णवास्तथा॥
कुबेरोपि हि कूष्माण्डपतिश्च युयुधे बली ॥७॥
तदेन्द्रेण हतो नन्दी वज्रेण शतपर्वणा ॥८॥
नन्दिना च हतश्शक्रस्त्रिशूलेन स्तनांतरे॥९॥
बलिनौ द्वावपि प्रीत्या युयुधाते परस्परम्॥
नानाघातांश्च कुर्वंतौ नन्दिशक्रौ जिगीषया ॥१०॥
शक्त्या जघान चाश्मानं शुचिः परमकोपनः॥
सोपि शूलेन तं वेगाच्छितधारेण पावकम् ॥११॥
यमेन सह संग्रामं महालोको गणाग्रणीः॥
चकार तुमुलं वीरो महादेवं स्मरन्मुदा ॥१२॥
नैर्ऋतेन समागम्य चंडश्च बलवत्तरः॥
युयुधे परमास्त्रैश्च नैर्ऋतिं निबिडं वयन् ॥१३॥
वरुणेन समं वीरो मुंडश्चैव महाबलः॥
युयुधे परया शक्त्या त्रिलोकीं विस्मयन्निव ॥१४॥
वायुना च हतो भृंगी स्वास्त्रेण परमोजसा॥
भृंगिणा च हतो वायुस्त्रिशूलेन प्रतापिना ॥१५॥
कुबेरेणैव संगम्य कूष्मांडपतिरादरात्॥
युयुधे बलवान् वीरो ध्यात्वा हृदि महेश्वरम् ॥१६॥
योगिनीचक्रसंयुक्तो भैरवीनायको महान्॥
विदीर्य्य देवानखिलान्पपौ शोणितमद्भुतम् ॥१७॥
क्षेत्रपालास्तथा तत्र बुभुक्षुः सुरपुंगवान्॥
काली चापि विदार्यैव तान्पपौ रुधिरं बहु ॥१८॥
अथ विष्णुर्महातेजा युयुधे तैश्च शत्रुहा॥
चक्रं चिक्षेप वेगेन दहन्निव दिशो दश ॥१९॥
क्षेत्रपालस्समायांतं चक्रमालोक्य वेगतः॥
तत्रागत्यागतो वीरश्चाग्रसत्सहसा बली ॥२०॥
चक्रं ग्रसितमालोक्य विष्णुः परपुरंजयः॥
मुखं तस्य परामृज्य तमुद्गालितवानरिम् ॥२१॥
स्वचक्रमादाय महानुभावश्चुकोप चातीव भवैकभर्त्ता॥
महाबली तैर्युयुधे प्रवीरैस्सक्रुद्धनानायुधधारकोस्त्रैः ॥२२॥
चक्रे महारणं विष्णुस्तैस्सार्द्धं युयुधे मुदा॥
नानायुधानि संक्षिप्य तुमुलं भीमविक्रमम् ॥२३॥
अथ ते भैरवाद्याश्च युयुधुस्तेन भूरिशः॥
नानास्त्राणि विमुंचंतस्संकुद्धाः परमोजसा ॥२४॥
इत्थं तेषां रणं दृष्ट्वा हरिणातुलतेजसा॥
विनिवृत्य समागम्य तान्स्वयं युयुधे बली ॥२५॥
अथ विष्णुर्महातेजाश्चक्रमुद्यम्य मूर्च्छितः॥
युयुधे भगवांस्तेन वीरभद्रेण माधवः ॥२६॥
तयोः समभवद्युद्धं सुघोरं रोमहर्षणम्॥
महावीराधिपत्योस्तु नानास्त्रधरयोर्मुने ॥२७॥
विष्णोर्योगबलात्तस्य देवदेव सुदारुणाः॥
शङ्खचक्रगदाहस्ता असंख्याताश्च जज्ञिरे ॥२८॥
ते चापि युयुधुस्तेन वीरभद्रेण भाषता॥
विष्णुवत् बलवंतो हि नानायुधधरा गणाः ॥२९॥
तान्सर्वानपि वीरोसौ नारायणसमप्रभान्॥
भस्मीचकार शूलेन हत्वा स्मृत्वा शिवं प्रभुम् ॥३०॥
ततश्चोरसि तं विष्णुं लीलयैव रणाजिरे॥
जघान वीरभद्रो हि त्रिशूलेन महाबली ॥३१॥
तेन घातेन सहसा विहतः पुरुषोत्तमः॥
पपात च तदा भूमौ विसंज्ञोभून्मुने हरिः ॥३२॥
ततो यज्ञोद्भुतं तेजः प्रलयानलसन्निभम्॥
त्रैलोक्यदाहकं तीव्रं वीराणामपि भीकरम् ॥३३॥
क्रोधरक्तेक्षणः श्रीमान् पुनरुत्थाय स प्रभुः॥
प्रहर्तुं चक्रमुद्यम्य ह्यतिष्ठत्पुरुषर्षभः ॥३४॥
तस्य चक्रं महारौद्रं काला दित्यसमप्रभम्॥
व्यष्टंभयददीनात्मा वीरभद्रश्शिवः प्रभुः ॥३५॥
मुने शंभोः प्रभावात्तु मायेशस्य महाप्रभोः॥
न चचाल हरेश्चक्रं करस्थं स्तंभितं ध्रुवम् ॥३६॥
अथ विष्णुर्गणेशेन वीरभद्रेण भाषता॥
अतिष्ठत्स्तंभितस्तेन शृंगवानिव निश्चलः ॥३७॥
ततो विष्णुः स्तंभितो हि वीरभद्रेण नारद॥
यज्वोपमंत्रणमना नीरस्तंभनकारकम् ॥३८॥
ततस्स्तंभननिर्मुक्तः शार्ङ्गधन्वा रमेश्वरः॥
शार्ङ्गं जग्राह स क्रुद्धः स्वधनुस्सशरं मुने ॥३९॥
त्रिभिश्च धर्षितो बाणैस्तेन शार्ङ्गं धनुर्हरेः॥
वीरभद्रेण तत्तात त्रिधाभूत्तत्क्षणान्मुने ॥४०॥
अथ विष्णुर्मया वाण्या बोधितस्तं महागणम्॥
असह्यवर्चसं ज्ञात्वा ह्यंतर्धातुं मनो दधे ॥४१॥
ज्ञात्वा च तत्सर्वमिदं भविष्यं सतीकृतं दुष्प्रसहं परेषाम्॥
गताः स्वलोकं स्वगणान्वितास्तु स्मृत्वा शिवं सर्वपतिं स्वतंत्रम् ॥४२॥
सत्यलोकगतश्चाहं पुत्र शोकेन पीडितः॥
अचिंतयं सुदुःखार्तो मया किं कार्यमद्य वै ॥४३॥
विष्णौ मयि गते चैव देवाश्च मुनिभिस्सह॥
विनिर्जिता गणैस्सर्वे ये ते यज्ञोपजीविनः ॥४४॥
समुपद्रवमालक्ष्य विध्वस्तं च महामखम्॥
मृगस्वरूपो यज्ञो हि महाभीतोऽपि दुद्रुवे ॥४५॥
तं तदा मृगरूपेण धावंतं गगनं प्रति॥
वीरभद्रस्समादाय विशिरस्कमथाकरोत् ॥४६॥
ततः प्रजापतिं धर्मं कश्यपं च प्रगृह्य सः॥
अरिष्टनेमिनं वीरो बहुपत्रमुनीश्वरम् ॥४७॥
मुनिमांगिरसं चैव कृशाश्वं च महागणः॥
जघान मूर्ध्नि पादेन दत्तं च मुनिपुंगवम् ॥४८॥
सरस्वत्याश्च नासाग्रं देवमास्तु तथैव च॥
चिच्छेद करजाग्रेण वीर भद्रः प्रतापवान् ॥४९॥
ततोन्यानपि देवादीन् विदार्य पृथिवीतले॥
पातयामास सोयं वै क्रोधाक्रांतातिलोचनः ॥५०॥
वीरभद्रो विदार्य्यापि देवान्मुख्यान्मुनीनपि॥
नाभूच्छांतो द्रुतक्रोधः फणिराडिव मंडितः ॥५१॥
वीरभद्रोद्धृतारातिः केसरीव वनद्विपान्॥
दिशो विलोकयामास कः कुत्रास्तीत्यनुक्षणम् ॥५२॥
व्यपोथयद्भृगुं यावन्मणिभद्रः प्रतापवान्॥
पदाक्रम्योरसि तदाऽकार्षीत्तच्छ्मश्रुलुंचनम् ॥५३॥
चंडश्चोत्पाटयामास पूष्णो दंतान् प्रवेगतः॥
शप्यमाने हरे पूर्वं योऽहसद्दर्शयन्दतः ॥५४॥
नन्दी भगस्य नेत्रे हि पातितस्य रुषा भुवि॥
उज्जहार स दक्षोक्ष्णा यश्शपंतमसूसुचत् ॥५५॥
विडंबिता स्वधा तत्र सा स्वाहा दक्षिणा तथा॥
मंत्रास्तंत्रास्तथा चान्ये तत्रस्था गणनायकैः ॥५६॥
ववृषुस्ते पुरीषाणि वितानाऽग्नौ रुषा गणाः॥
अनिर्वाच्यं तदा चक्रुर्गणा वीरास्तमध्वरम् ॥५७॥
अंतर्वेद्यंतरगतं निलीनं तद्भयाद्बलात्॥
आनिनाय समाज्ञाय वीरभद्रेः स्वभूश्चुतम्५८॥
कपोलेऽस्य गृहीत्वा तु खड्गेनोपहृतं शिरः॥
अभेद्यमभवत्तस्य तच्च योगप्रभावतः ॥५९॥
अभेद्यं तच्छिरो मत्वा शस्त्रास्त्रैश्च तु सर्वशः॥
करेण त्रोटयामास पद्भ्यामाक्रम्य चोरसि ॥६०॥
तच्छिरस्तस्य दुष्टस्य दक्षस्य हरवैरिणः॥
अग्निकुंडे प्रचिक्षेप वीरभद्रो गणाग्रणीः ॥६१॥
रेजे तदा वीरभद्रस्त्रिशूलं भ्रामयन्करे॥
क्रुद्धा रणाक्षसंवर्ताः प्रज्वाल्य पर्वतोपमाः (?) ॥६२॥
अनायासेन हत्वैतान् वीरभद्रस्ततोऽग्निना॥
ज्वालयामास सक्रोधो दीप्ताग्निश्शलभानिव ॥६३॥
वीरभद्रस्ततो दग्धान्दृष्ट्वा दक्षपुरोगमान्॥
अट्टाट्टहासमकरोत्पूरयंश्च जगत्त्रयम् ॥६४॥
वीरश्रिया वृतस्तत्र ततो नन्दनसंभवा॥
पुष्पवृष्टिरभूद्दिव्या वीरभद्रे गणान्विते ॥६५॥
ववुर्गंधवहाश्शीतास्सुगन्धास्सुखदाः शनैः॥
देवदुंदुभयो नेदुस्सममेव ततः परम् ॥६६॥
कैलासं स ययौ वीरः कृतकार्य्यस्ततः परम्॥
विनाशितदृढध्वांतो भानुमानिव सत्वरम् ॥६७॥
कृतकार्यं वीरभद्रं दृष्ट्वा संतुष्टमा नसः॥
शंभुर्वीरगणाध्यक्षं चकार परमेश्वरः ॥६८॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसहितायां द्वितीये सतीखंडे यज्ञविध्वं सवर्णनो नाम सप्तत्रिंशोऽध्यायः ॥३७॥

N/A

References : N/A
Last Updated : October 07, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP