संस्कृत सूची|संस्कृत साहित्य|सूक्तः| ॐ॥ हिरण्यवर्णां हरिणीं स... सूक्तः हिरण्यशृङ्गं वरुणं प्रपद्... भूमि-र्धेनुर्धरिणी लोकधार... सहस्रपरमा देवी शतमूला शता... मेधासूक्तम् ऋग्वेद-संहिताः ( मण्डलम् ... ॐ प्रातरग्निं प्रातरिन्द्... यो ब्रह्मा ब्रह्मण उज्जहा... ॐ ॥ जातवेदसे सुनवाम सोममर... ॐ॥ हिरण्यवर्णां हरिणीं स... ॐ भूमिर्भूम्नाद्यौर्वरिणा... ॐ विष्णोर्नुकं वीर्याणि प... तैत्तिरीयारण्यकम् प्रपाठक... तैत्तिरीयारण्यकम् तृतीय प... श्रीसूक्तम् - ॐ॥ हिरण्यवर्णां हरिणीं स... सूक्त चे चार भेद आहेत- देवता, ऋषि, छन्द आणि अर्थ. Tags : sooktavedवेदसूक्त श्रीसूक्तम् Translation - भाषांतर ॐ॥ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ तां म अवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥अश्वपूर्वां रथमध्यां हस्तिनाद-प्रबोधिनीम् । श्रियं देवीमुपह्वये श्रीर्मा देवीर्जुषताम् ॥ कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् । पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ।चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् । तां पद्मनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः । तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः । उपैतु मां देवसखः कीर्तिश्च मणिना सह । प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् । अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात् ॥गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरीँ सर्वभूतानां तामिहोपह्वये श्रियम् । मनसः काममाकूतिं वाचः सत्यमशीमहि । पशूनाँ रूपमन्नस्य मयि श्रीः श्रयतां यशः । कर्दमेन प्रजाभूता मयि संभव कर्दम । श्रियं वासय मे कुले मातरं पद्ममालिनीं ॥ आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे । निच देवीं मातरँ श्रियं वासय मे कुले । आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह । आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम् । सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह । तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान्विन्देयं पुरुषानहम् ॥पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षि । विश्वप्रिये विष्णुमनोनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ।ॐ महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि । तन्नो लक्ष्मीः प्रचोदयात् ॥ॐ शान्तिः शान्तिः शान्तिः N/A References : N/A Last Updated : January 01, 2019 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP