संस्कृत सूची|संस्कृत साहित्य|सूक्तः| मेधासूक्तम् सूक्तः हिरण्यशृङ्गं वरुणं प्रपद्... भूमि-र्धेनुर्धरिणी लोकधार... सहस्रपरमा देवी शतमूला शता... मेधासूक्तम् ऋग्वेद-संहिताः ( मण्डलम् ... ॐ प्रातरग्निं प्रातरिन्द्... यो ब्रह्मा ब्रह्मण उज्जहा... ॐ ॥ जातवेदसे सुनवाम सोममर... ॐ॥ हिरण्यवर्णां हरिणीं स... ॐ भूमिर्भूम्नाद्यौर्वरिणा... ॐ विष्णोर्नुकं वीर्याणि प... तैत्तिरीयारण्यकम् प्रपाठक... तैत्तिरीयारण्यकम् तृतीय प... मेधासूक्तम् सूक्त चे चार भेद आहेत- देवता, ऋषि, छन्द आणि अर्थ. Tags : sooktavedवेदसूक्त मेधासूक्तम् Translation - भाषांतर ॐ यश्छन्दसामृषभो विश्वरूपः । छन्दोभ्यो ऽध्यमृताथ्संबभूव ।स मेन्द्रो मेधया स्पृणोतु । अमृतस्य देवधारणॊ भूयासम् । शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा । कर्णाभ्यां भूरिविश्रुवम् । ब्रह्मणः कोशोऽसि मेधया पिहितः । श्रुतं मे गोपाय ।ॐ शान्तिः शान्तिः शान्तिःॐ मेधा देवी जुषमाणा न आगा - द्विश्वाची भद्रा सुमनस्य माना ।त्वया जुष्टा नुदमाना दुरुक्तान्बृहद्वदेम विदथे सुवीराः ।त्वया जुष्ट ऋषिर्भवति देवि त्वया ब्रह्माऽऽगतश्रीरुत त्वया । त्वया जुष्ट-श्चित्रं विन्दते वसु सानो जुषस्व द्रविणो न मेधे ॥मेधा म इन्द्रो ददातु मेधां देवी सरस्वती ।मेधां मे अश्विनावुभावाधत्तांपुष्करस्रजा । अप्सरासु च या मेधा गन्धर्वेषु च यन्मनः । देवी मेधा सरस्वती सा मां मेधा सुरभिर्जुषताँ स्वाहा ॥आमामेधा सुरभिर्विश्वरूपा हिरण्य़वर्णा जगती जगम्या । ऊर्जस्वती पयसा पिन्वमाना सामां मेधा सुप्रतीका जुषन्ताम् ॥मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधातु मयि मेधां मयि प्रजां मयीन्द्र इन्द्रियं दधातु मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु॥(ॐ हंस हंसाय विद्महे परमहंसाय धीमहि । तन्नो हंसः प्रचोदयात् ॥)ॐ शान्तिः शान्तिः शान्तिः===शान्तिमन्त्राः शं नो वातः पवतां मातरिश्वा शं नस्तपतु सूर्यः । अहानि शं भवन्तु नश्शँ रात्रिः प्रतिधीयताम् । शमुषानो व्युच्छतु शमादित्य उदेतु नः । शिवा नश्शंतमा भवसुमृडीका सरस्वति ।माते व्योम सन्दृशि । इडायैवास्त्वसि वास्तु मद्वास्तुमन्तो भूयास्म मा वास्तो श्छिथ्स्मह्यवास्तुस्स भूयाद्योऽस्मान्द्वेष्टि यं च वयं द्विष्मः ।प्रतिष्ठासि प्रतिष्ठावन्तो भूयास्म मा प्रतिष्ठाया श्छिथ्स्मह्यप्रतिष्ठस्स भूयाद्योऽस्मा - न्द्वेष्टि यं च वयं द्विष्मः । आवातवाहि भेषजं विवातवाहि यद्रपः । त्वँ हि विश्वभेषजो देवानां दूत ईयसे ।द्वाविमौ वातौ वात आसिन्धॊरा परावतः ॥दक्षं मे अन्य आवातु परान्योवातु यद्रपः । यददोवातते गृहेऽमृतस्य निधिर् हितः । ततो नो देहि जीवसे ततो नो धॆहि भेषजम् । ततो न मह आवह वात आवातु भेषजम् ।शंभूर्मयोभूर्नोहृदेप्रण आयूँषि तारिषत् । इन्द्रस्य गृहोऽसि तं त्वा प्रपद्ये सगुस्साश्वः ।सह यन्मे अस्ति तेन । भूः प्रपद्ये भुवः प्रपद्ये सुवः प्रपद्ये भूर्भुवस्सुवः प्रपद्ये वायुं प्रपद्येनार्तां देवतां प्रपद्येऽश्मानमाखणं प्रपद्ये प्रजापतेर्ब्रह्मकोशं ब्रह्मप्रपद्य ऊँ प्रपद्ये ।अन्तरिक्षं म उर्वन्तरं बृहदग्नयः पर्वताश्च यया वातः स्वस्त्या स्वस्तिमान्तया स्वस्त्या स्वस्तिमानसानि ।प्राणापानौ मृत्योर्मापातं प्राणापानौ मा मा हासिष्टं मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधातु मयि मेधां मयि प्रजां मयीन्द्र इन्द्रियं दधातु मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु ॥द्युभिरक्तुभिः परिपातमस्मानरिष्टेभिरश्विना सौभगेभिः । तन्नो मित्रो वरुणोमामहन्तामदितिः सिन्धुः पृथिवी उतद्यौः । कयानश्चित्र आभुव दूती सदावृधस्सखा ।कया शचिष्ठया वृता । कस्त्वा सत्यो मदानां मँहिष्ठो मत्सदन्धसः । दृढा चिदारुजे वसु । अभीषुणस्सखीनामविता जरितॄणाम् ।शतं भवास्यूतिभिः । वयस्सुपर्णा उपसेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः । उपध्वान्तमूर्णुहि पूर्धिचक्षुर्मुमुग्ध्यस्मा न्निधयेव बद्धान् ।शं नो देवीरभिष्टय आपो भवन्तु पीतये । शंयोरभिस्रवन्तु नः॥ईशानावार्याणां क्षयन्तीश्चर्षणीनाम् । अपो याचामि भेषजम् । सुमित्रान आप ओषधयः सन्तु दुर्मित्रास्तस्मै भूयासुर्योऽस्मान्द्वेष्टि यं च वयं द्विष्मः ।आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । महे रणाय चक्षसे । यो वः शिवतमो रसस्तस्य भाजयते ह नः । उशतीरिव मातरः । तस्मा अरङ्गमामवो यस्य क्षयाय जिन्वथ । आपो जनयथा चनः ।पृथिवी शान्ता साग्निना शान्ता सामे शान्ता शुचँ शमयतु । अन्तरिक्षँ शान्तं तद्वायुना शान्तं तन्मे शान्तँ शुचँ शमयतु ।द्यौश्शान्ता सादित्येन शान्ता सा मे शान्ता शुचँ शमयतु ।पृथिवी शान्तिरन्तरिक्षँ शान्ति द्यौ श्शान्तिर्दिशश्शान्तिरवान्तरदिशाश्शान्तिरग्निश्शान्ति र्वायुश्शान्तिरादित्यश्शान्ति श्चन्द्रमाश्शान्ति र्नक्षत्राणि शान्तिरापश्शान्तिरोषधयश्शान्ति र्वनस्पतयश्शान्ति र्गौश्शान्ति रजा शान्तिरश्वश्शान्तिः पुरुषश्शान्ति र्ब्रह्म शान्तिर्ब्राह्मण श्शान्तिश्शान्तिरेव शान्तिश्शान्तिर्मे अस्तु शान्तिः ।तयाहँ शान्त्या सर्वशान्त्या मह्यं द्विपदे चतुष्पदे च शान्तिं करोमि शान्तिर्मे अस्तु शान्तिः ॥एह श्रीश्च ह्रीश्च धृतिश्च तपो मेधा प्रतिष्ठा श्रद्धा सत्यं धर्मश्चैतानि मोत्तिष्ठन्त-मनूत्तिष्ठन्तु मामाँ श्रीश्च ह्रीश्च धृतिश्च तपो मेधा प्रतिष्ठा श्रद्धा सत्यं धर्मश्चैतानिमा मा हासिषुःउदायुषा स्वायुषोदोषधीनाँ रसेनोत्पर्जन्यस्य शुष्मेणोदस्थाममृताँ अनु ।तच्चक्षुर्देवहितं पुरस्तच्छुक्रमुच्चरत् ।पश्येम शरदश्शतं जीवेम शरदश्शतं नन्दाम शरदश्शतं मोदाम शरदश्शतं भवाम शरदश्शतं शृणवाम शरदश्शतं प्रब्रवाम शरदश्शतमजीतास्स्याम शरदश्शतं ज्योक्च सूर्यं दृशे ।य उदगान्महतोऽर्णवाद्विभ्राजमानस्सरिरस्य मध्यात्समा वृषभो लोहिताक्षस्सूर्यो विपश्चिन्मनसा पुनातु ॥ब्रह्मणश्चोतन्यसि ब्रह्मण आणीस्थो ब्रह्मण आवपनमसि धारितेयं पृथिवी ब्रह्मणा मही धारितमनेन महदन्तरिक्षं दिवं दाधार पृथिवीँ सदेवां यदहं वेद तदहं धारयाणि मामद्वेदोऽधिविस्रसत् ।मेधामनीषे माविशताँ समीची भूतस्य भव्यस्यावरुध्यै सर्वमायुरयाणि सर्वमायुरयाणि ।आभिर्गीर्भिर्यदतोन ऊनमाप्यायय हरिवो वर्धमानः । यदास्तोतृभ्यो महि गोत्रा रुजासि भूयिष्ठभाजो अध ते स्याम । ब्रह्म प्रावादिष्म तन्नो मा हासीत्॥ॐ शान्तिः शान्तिः शान्तिःसं त्वा सिंचामि यजुषा प्रजामायुर्धनं च ॥ॐ शान्तिः शान्तिः शान्तिः N/A References : N/A Last Updated : January 01, 2019 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP