संस्कृत सूची|संस्कृत साहित्य|सूक्तः| ऋग्वेद-संहिताः ( मण्डलम् ... सूक्तः हिरण्यशृङ्गं वरुणं प्रपद्... भूमि-र्धेनुर्धरिणी लोकधार... सहस्रपरमा देवी शतमूला शता... मेधासूक्तम् ऋग्वेद-संहिताः ( मण्डलम् ... ॐ प्रातरग्निं प्रातरिन्द्... यो ब्रह्मा ब्रह्मण उज्जहा... ॐ ॥ जातवेदसे सुनवाम सोममर... ॐ॥ हिरण्यवर्णां हरिणीं स... ॐ भूमिर्भूम्नाद्यौर्वरिणा... ॐ विष्णोर्नुकं वीर्याणि प... तैत्तिरीयारण्यकम् प्रपाठक... तैत्तिरीयारण्यकम् तृतीय प... देवीसूक्तम् - ऋग्वेद-संहिताः ( मण्डलम् ... सूक्त चे चार भेद आहेत- देवता, ऋषि, छन्द आणि अर्थ. Tags : devisooktavedदेवीवेदसूक्त देवीसूक्तम् Translation - भाषांतर ऋग्वेद-संहिताः( मण्डलम् – १० अष्टकम् – ८ सूक्तम्-१२५ )ॐ॥अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः ।अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥१॥ अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् ।अहं दधामि द्रविणं हविष्मते सुप्राव्ये ए यजमानाय सुन्वते ॥२॥ अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् ।तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यां वेशयन्तीम् ॥३॥ मया सोऽन्नमत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्युक्तम् ।अमन्तवोमान्त उपक्षियन्ति श्रुधिश्रुत श्रद्धिवंते वदामि ॥४॥ अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः ।यं कामये तं तमुग्रं कृणोमि तं तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥५॥ अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवेहन्त वा उ ।अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आविवेश ॥६॥ अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्व(अ)न्तः समुद्रे ।ततो वितिष्ठे भुवनानु विश्वोतामूं द्यां वर्ष्मणोपस्पृशामि ॥७॥ अहमेव वातऽइव प्रवाम्यारभमाणा भुवनानि विश्वा ।परो दिवा पर एना पृथिव्यै तावती महिना संबभूव ॥८॥ ॐ शान्तिः शान्तिः शान्तिः N/A References : N/A Last Updated : January 01, 2019 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP