संस्कृत सूची|संस्कृत साहित्य|सूक्तः| ॐ प्रातरग्निं प्रातरिन्द्... सूक्तः हिरण्यशृङ्गं वरुणं प्रपद्... भूमि-र्धेनुर्धरिणी लोकधार... सहस्रपरमा देवी शतमूला शता... मेधासूक्तम् ऋग्वेद-संहिताः ( मण्डलम् ... ॐ प्रातरग्निं प्रातरिन्द्... यो ब्रह्मा ब्रह्मण उज्जहा... ॐ ॥ जातवेदसे सुनवाम सोममर... ॐ॥ हिरण्यवर्णां हरिणीं स... ॐ भूमिर्भूम्नाद्यौर्वरिणा... ॐ विष्णोर्नुकं वीर्याणि प... तैत्तिरीयारण्यकम् प्रपाठक... तैत्तिरीयारण्यकम् तृतीय प... भाग्यसूक्तम् - ॐ प्रातरग्निं प्रातरिन्द्... सूक्त चे चार भेद आहेत- देवता, ऋषि, छन्द आणि अर्थ. Tags : sooktavedवेदसूक्त भाग्यसूक्तम् Translation - भाषांतर ॐ प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रा वरुणा प्रातरश्विना । प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातस्सोममुत रुद्रँ हुवेम ॥१॥प्रातर्जितं भगमुग्रँ हुवेम वयं पुत्रमदितेर्यो विधर्ता । आद्ध्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यंभगं भक्षीत्याह ॥२॥भग प्रणेतर्भगसत्यराधो भगेमां धियमुदवददन्नः । भगप्रणो जनय गोभि-रश्वैर्भगप्रनृभि-र्नृवन्तस्स्याम ॥३॥उतेदानीं भगवन्तस्यामोत प्रपित्व उत मध्ये अह्नाम् । उतोदिता मघवन् सूर्यस्य वयं देवानाँ सुमतौ स्याम ॥४॥भग एव भगवाँ अस्तु देवास्तेन वयं भगवन्तस्स्याम । तं त्वा भग सर्व इज्जोहवीमि सनो भग पुर एता भवेह ॥५॥समध्वरायोषसोऽनमन्त दधिक्रावेव शुचये पदाय । अर्वाचीनं वसुविदं भगन्नो रथमिवाश्वावाजिन आवहन्तु ॥६॥अश्वावतीर्गोमतीर्नउषासो वीरवतीस्सदमुच्छन्तु भद्राः । घृतं दुहाना विश्वतः प्रपीनायूयं पात स्वस्तिभिस्सदा नः ॥७॥यो माऽग्नेभागिनँ सन्तमथाभागं चिकीर्षति । अभागमग्ने तं कुरु मामग्ने भागिनं कुरु ॥८॥ॐ शान्तिः शान्तिः शान्तिः N/A References : N/A Last Updated : January 01, 2019 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP