संस्कृत सूची|संस्कृत साहित्य|सूक्तः| हिरण्यशृङ्गं वरुणं प्रपद्... सूक्तः हिरण्यशृङ्गं वरुणं प्रपद्... भूमि-र्धेनुर्धरिणी लोकधार... सहस्रपरमा देवी शतमूला शता... मेधासूक्तम् ऋग्वेद-संहिताः ( मण्डलम् ... ॐ प्रातरग्निं प्रातरिन्द्... यो ब्रह्मा ब्रह्मण उज्जहा... ॐ ॥ जातवेदसे सुनवाम सोममर... ॐ॥ हिरण्यवर्णां हरिणीं स... ॐ भूमिर्भूम्नाद्यौर्वरिणा... ॐ विष्णोर्नुकं वीर्याणि प... तैत्तिरीयारण्यकम् प्रपाठक... तैत्तिरीयारण्यकम् तृतीय प... अघमर्षणसूक्तम् - हिरण्यशृङ्गं वरुणं प्रपद्... सूक्त चे चार भेद आहेत- देवता, ऋषि, छन्द आणि अर्थ. Tags : sooktavedवेदसूक्त अघमर्षणसूक्तम् (महानारायणोपनिषत्) Translation - भाषांतर हिरण्यशृङ्गं वरुणं प्रपद्ये तीर्थं मे देहि याचितः ।यन्मया भुक्त-मसाधूनां पापेभ्यश्च प्रतिग्रहः ।यन्मे मनसा वाचा कर्मणा वा दुष्कृतं कृतम् । तन्न इन्द्रो वरुणो बृहस्पतिस्सविता च पुनन्तु पुनःपुनः । नमोऽग्नयेऽप्सुमते नम इन्द्राय नमो वरुणाय नमो वारुण्यै नमोऽद्भ्यः॥यदपां क्रूरं यदमेध्यं यदशान्तं तदपगच्छतात् ।अत्याशनादतीपाना-द्यच्च उग्रात् प्रतिग्रहात् । तन्नो वरुणो राजा पाणिनाह्यवमर्शतु । सोऽहमपापो विरजो निर्मुक्तो मुक्तकिल्बिषः ।नाकस्य प्रुष्ठ-मारुह्य गच्छे-द्ब्रह्मसलोकताम् । यश्चाप्सु वरुणस्सपुनात्वघमर्षणः । इमं मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोमँ सचता परुष्णिया । असिक्निया मरुद्वृधे वितस्तयाऽऽर्जीकीये शृणुह्या सुषोमया । ऋतं च सत्यं चाभीद्धा-त्तपसो-ऽध्यजायत । ततो रात्रिरजायत ।तत-स्समुद्रो अर्णवः॥समुद्रादर्णवा-दधि संवथ्सरो अजायत ।अहोरात्राणि विदधद्विश्वस्य मिषतो वशी ।सूर्याचन्द्रमसौ धाता यथापूर्व-मकल्पयत् । दिवं च पृथिवीं चान्तरिक्ष-मथो सुवः ।यत्पृथिव्याँ रजस्स्व मान्तरिक्षे विरोदसी ।इमाँ स्तदापो वरुणः पुनात्वघमर्षणःपुनन्तु वसवःपुनातु वरुणः पुनात्वघमर्षणः । एष भूतस्य मध्ये भुवनस्य गोप्ता ।एष पुण्यकृतां लोकानेष मृत्योर्हिरण्मयम् । द्यावापृथिव्योर् हिरण्मयँ सँ श्रितँ सुवः॥सन-स्सुव-स्सँशिशाधि ।आर्द्रं ज्वलति ज्योति-रहमस्मि । ज्योतिर्ज्वलति ब्रह्माऽहमस्मि । अहमेवाहं मां जुहोमि स्वाहा॥ अकार्यकार्यवकीर्णीस्तेनो भ्रूणहा गुरुतल्पगः । वरुणोऽपामघमर्षण-स्तस्मात्पापात्प्रमुच्यते ।रजोभूमि-स्तस्माँरोदयस्व प्रवदन्ति धीराः ।आक्रान्थ्समुद्रः प्रथमे विधर्मञ्जनयन् प्रजा भुवनस्य राजा ।वृषा पवित्रे अधिसानो अव्ये बृहथ्सोमो वावृधे सुवान इन्दुः॥ N/A References : N/A Last Updated : January 01, 2019 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP