संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसप्रकाशसुधाकरः| द्वादशोऽध्याय: । रसप्रकाशसुधाकरः रसप्रकासुधाकरान्तर्गविषयानुक्रमणिका । मन्गलाचरणम् प्रथमोध्याय:। द्वितीयोऽध्याय: । तृतीयोऽध्याय: । चतुर्थोऽध्याय: । पंचमोऽध्याय: । षठोऽध्याय : । सप्तमोऽध्याय: । अष्टमोऽध्याय: । नवमोऽध्याय: । नवमोऽध्याय: । दशमोऽध्याय: । एकादशोऽध्याय: । द्वादशोऽध्याय: । त्रयोदशोऽध्याय: । रसप्रकाशसुधाकरः - द्वादशोऽध्याय: । श्रीयशोधरविरचितो रसप्रकाशसुधाकर:। Tags : aayurvedrasa prakashaआयुर्वेदरस प्रकाश द्वादशोऽध्याय: । Translation - भाषांतर वाजीकरी वटिका ।आत्मगुप्ताफलं शुष्कं निस्तुषं चाष्टपालिकम् ।माषस्याष्टपलं तव्दज्जलेन परिपेषितम् ॥१॥आर्द्रत्वे चातिरुचिरं शिलापट्टॆन पेषयेत् ।कुडुंमं केशरं चैव जातीपत्रं शतावरी ॥२॥गोक्षुरेक्षुरवीजानि लवडं मरिचं कणा ।शृडांटकं कर्षमितं कुर्यादेवं पृथक् पृथक् ॥३॥सूक्ष्मचूर्ण विधायाथ पूर्वपिष्टे निधापयेत् ।वटकान् कारयेत्पश्चात् कर्षमात्रान् विपाचयेत् ॥४॥घृतप्रस्थत्रयेणैव सुतलय्य निमज्जयेत् ।माक्षिके घृतमाने वै मुखं रुन्ध्याद्दिनत्रयम् ॥५॥मध्वाज्यमिश्रितं भक्षेदेकैकं वटकं प्रगे ।सप्तकानि च पश्चैवमाहारं मधुरं भजेत् ॥६॥दुग्धौदनं तथा रात्रौ क्षारमम्लं च वर्जयेत् रेत: क्षयी नपुंसोऽपि गच्छेच्च प्रमदाशतम् ॥७॥अपुत्र: पुत्रमाप्रोति षण्ढोऽपि पुरुषायते ।दृष्टप्रत्यययोगोऽयं सत्यमेतदुदीरितम् ॥८॥शतावरीं क्षीरविदारिकां च प्रस्थार्धमानां पृथगेव कुर्यात ।रसं तथा शाल्मलिमध्यमूलात् प्रस्थं सितार्धाढकमत्र देयम् ॥९॥सुपाचितं वै मृदुवह्विना तथा दर्वीप्रलेपोऽपि हि जायते यथा ।त्वक्पत्रकैला: सह केशरेण पलप्रमाणा हि ततो विदध्यात् ॥१०॥लेहे सुशीते मधु बिल्वमात्रं प्रात: प्रभक्षेदिह कर्षमात्रम् ।शृडांटकस्यापि पलं विधेयं वाराहिकन्दश्च पलप्रमाण: ॥११॥चूर्णीकृतं गालितमेव वस्त्राद्रॄष्टं तथाज्येन सितासमेतम् ।लवडंकृष्णागरुकेशराणां पलं प्रदद्याद्दशभागदुग्धम् ॥१२॥लेहं सुजातं खलु भक्षयेत कर्षप्रमाणं नितरां प्रगे वै ।कामस्य बोधं कुरुते हि शीघ्रं नारीं रमेव्दै चटकायतेऽसौ ॥१३॥शतावरीगोक्षुरदर्भमूलं शृडांटकं नागबलात्मगुप्ते ।संचूर्ण्य सर्व पृथगेव पालिकं क्षीरेण पाच्यं दशभागकेन ॥१४॥सिता प्रदेया दशपालिका च पाकं विदध्यादपि चाग्रियोगत: ।मधुप्लुतं भक्षितमर्धयामात्कामप्रदीप्तिं कुरुते सदैव ॥१५॥वीर्यस्य वृध्दिं हि तथाऽग्रिवृध्दिं बलप्रवृध्दिं सहसैव कुर्यात् ।माषाणामाप्तगुप्ताया बीजानामाढकं नवम् ।जीवकर्षभकौ जीवां मेदां वृध्दिं शतावरीम् ।मधुकं चाश्वगन्धां च साधयेत्प्रसृतोन्मितान् ॥१७॥रसे तस्मिन घृतप्रस्थं गव्यं दशगुणं पय: ।विदारीस्वरसप्रस्थं प्रस्थमिक्षुरसस्य च ॥१८॥दत्त्वा मृव्दग्रिना साध्यं सिध्दं सर्पिर्निधापयेत् ।शर्करायास्तुगाक्षीर्या: क्षौद्रस्य च पृथक् पृथक् ।भागांश्चतुष्पलान् तत्र पिप्पल्याश्चावपेत् पलम् ॥१९॥यदीच्छेदक्षयं शुक्रं शेफसश्चोत्तमं बलम् ॥२०॥इति श्रीपद्यनाभसूनुश्रीयशोधरविरचिते रसप्रकाशसुधाकरे वाजीकरणात्मको व्दादशोऽध्याय: । N/A References : N/A Last Updated : January 31, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP