संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसप्रकाशसुधाकरः| द्वितीयोऽध्याय: । रसप्रकाशसुधाकरः रसप्रकासुधाकरान्तर्गविषयानुक्रमणिका । मन्गलाचरणम् प्रथमोध्याय:। द्वितीयोऽध्याय: । तृतीयोऽध्याय: । चतुर्थोऽध्याय: । पंचमोऽध्याय: । षठोऽध्याय : । सप्तमोऽध्याय: । अष्टमोऽध्याय: । नवमोऽध्याय: । नवमोऽध्याय: । दशमोऽध्याय: । एकादशोऽध्याय: । द्वादशोऽध्याय: । त्रयोदशोऽध्याय: । रसप्रकाशसुधाकरः - द्वितीयोऽध्याय: । श्रीयशोधरविरचितो रसप्रकाशसुधाकर:। Tags : aayurvedrasa prakashaआयुर्वेदरस प्रकाश द्वितीयोऽध्याय: Translation - भाषांतर अथेदानीं प्रवक्ष्यामि रसराजस्य बन्धनम् ।अनुभूतं मया किश्चिद्गुरुणां हि प्रसादत: ॥१॥रसबन्धभेदा: ।बन्धश्चतुर्विध: प्रोक्तो जलौका खोटपाटकौ ।तथा भस्मामिध: साक्षात्कथितोऽपि रसागमे ॥२॥तेषां सामान्यलक्षणम् ।पक्वबन्धो जलौका स्यात्पिष्टीस्तम्भस्तु खोटक: ।पाट: पर्पटिकाबन्धो भस्म भूतिसमो भवेत् ॥३॥रसबन्धनसाधनानि ।मूलिका च मणिश्चैव स्वर्णकं नागवड्गके ।चत्वार एते सूतस्य बन्धनस्याथ कारणम् ॥४॥रसबन्धभेदानामुत्तमादिकत्वम् ।उत्तमो मूलिकाबन्धो मणिबन्धस्तु मध्यम: ।अधमो तातुबन्धस्तु पूतिबन्धोऽधमाधम: ॥५॥द्रुतिबन्ध: पश्चमोऽसौ देहलोहकर: सदा ।अभ्रद्रुतिविशेषेण विज्ञेयोऽसौ भिषग्वरै: ॥६॥मूलिकाबन्धस्य प्रथम: प्रकार: ।क्रमप्राप्तमिदं वक्ष्ये मूलिसाबन्धनं रसे ।शुध्दो राक्षसवक्रश्च रसश्चाभ्रकजारित: ॥७॥इड्गुदीमूलनिरर्यासे मर्दित: पारदरुह्यम् ।तत उद्रुत्य वस्त्रेण बन्धनं कारयेद्बुध: ॥८॥काज्जिके खेदनं कुर्यान्नियतं सप्तवासरम् ।पाचितं चान्नमध्ये तु कर्तव्यं वत्सरावधि ॥९॥ततो धूर्तफले न्यस्तं खेदयेच्छतसंख्यया ।पाचितोऽसौ ततस्तैले धूर्ततैलसमायुते ॥१०॥बध्दस्तु तेन विधिना कठिनत्वं प्रजायते ।वड्गस्य स्तम्भनं सम्यक्करोत्येव न संशय: ॥११॥धारितो ऽसौ मुखे साक्षाद्वीर्यस्त्म्भकर: सदा ।मूलिकाबन्धनं ह्येकं कथितं पारदस्य वै ॥१२॥मूलिकाबन्धस्य द्वितीय: प्रकार: ।अथापर: प्रकारो हि बन्धनस्यापि पारदे ।नागार्जुनीमूलरसैर्मर्दयेद्दिनसप्तकम् ॥१३॥मुखचर्णसंभूतैर्निम्बकाष्ठेन पेषित: ।नवनीतसमस्तेन जायते पारदस्तत: ॥१४॥वस्त्रेण बन्धनं कृत्वा निवेश्य फलधूर्तके ।गोमयैर्वेष्टितं तच्च करीषाग्रौ विपाचयेत् ॥१५॥लावकाख्ये पुटे सम्यक् क्रमवृध्या शतं पुटेत् ।मासत्रयप्रमाणेन पाचयेदन्नमध्यत: ॥१६॥पश्चात्पुटशतं दद्याच्छगणेनाथ पूर्ववत् ।अनेनैव प्रकारेण बध्यते सूतक: सदा ॥१७॥द्दष्टप्रत्यययोगोऽयं कथित: साधकाय वै ।धारितोऽसौ मुखे सम्यग्वीर्यस्त्म्भकर: परम् ॥१८॥वन्गस्तम्भकरोऽप्येवं बध्द: सूतवरोऽप्यलम् ।मूलिकाबन्धस्य तृतीय: प्रकार: ।शुद्धं सुजारितभ्रं वै सूतकं ओ विमर्दयेत् ॥१९॥ अर्कमूलरसेनैव वासरैकं प्रयत्नात: ।वज्रमूषा तत: कार्या सुद्दढा मसृणीकृता ॥२०॥अर्कमूलभवेनैव कल्केन परिलेपिता मूषामध्ये रसं मुक्त्वा चान्धयेदन्यमूषया ॥२१॥यामार्धं ध्मापित: सम्यग्रसखोट: प्रजायते स्वाड्गशीतं परिज्ञाय रसखोटं समुध्दरेत ॥२२॥वर्षमात्रं धृतो वक्रे वलीपलितनाशन: ॥सर्वसिध्दिकरोऽप्येष मूलिकाध्द्पारद: ॥२३॥मूलिकानन्धनं सत्यं कृतं नागार्जुनादिभि: सर्वसिध्दिकरं श्रेष्ठं सर्वकार्यकरं सदा ॥२४॥मूलिकाबन्धस्य चतुर्थ प्रकार : शुध्दं रसवरं सम्यक् तथैवाम्बरभक्षितम् ।जलकुम्भीरसै: पश्चान्मर्दयेद्दिनसप्तकम् ॥२५॥तस्या: प्रकल्पयेन्मूषां सूतकं तत्र नि:क्षिपेत् अन्यस्यामन्धमूषायां सूतमूषां निरुन्धयेत ॥२६॥पुटं तत्र प्रदातव्यमेकेनारण्यकेन च ।पुटान्येवं प्रदेयानि चोत्पलैकप्रवर्धीनि ॥२७॥ अनेनैव प्रकारेण पुटानि त्रिणि दापयेत् ।बन्धमाप्तोति सूतेन्द्र: सत्यं गुरुवचो यथा ॥२८॥मूलिकाबन्धस्य पश्चम् प्रकार: ।चूर्णीकृतानि सततं धूर्तबीजानि यत्नत: ।सूतराजसमान्येवमूर्ध्वयत्रेण पातयेत् ॥२९॥एकविंशतिवाराणि तत: खल्वे निधापयेत ।इड्गुदीपत्रनिर्यासे मर्दयेद्दिनसप्तकम् ॥३०॥भृड्गुराजर्सेनैव विषखर्परकेन च ।पाठारसेन संमर्द्य लज्जालुस्वरसेन वै ॥३१॥त्र्यहं त्र्यहं च संमर्द्य बन्धमायाति निश्चितम् ।दोलायत्रेण संस्वेद्य सप्ताहं धूर्तजे रसे ॥३२॥विषमूषोदरे धृत्वा मांसे सूकरसंभवे ।भर्जयेद्भुर्ततैलेन सप्ताहाज्जय्ते मुखम् ॥३३॥कठिनो वज्रसद्दशो जायते नात्र संशय: ।क्षीरं शोषयते नित्यं कौतुकार्थे न संशय: ॥३४॥वीर्यं बड्गं स्तम्भयति सत्यं सत्यं न संशय: ।प्रकारा: कथिता: पश्च सूतराजस्य बन्धने ॥३५॥मणिबन्धस्य (वज्रबन्धस्य) प्रथम प्रकार: ।वज्रबंन्धं द्वितीयं तु क्रमेणैव यथातथम् ।रसशस्त्राणि बहुधा नीरीक्ष्य प्रवदाम्यहम् ॥३६॥वज्रसत्वं तथा सूतं समांशं कारयेद्भुध: ।रसपादसमं हेम त्रयमेकत्र मर्दयेत् ॥३७॥बन्ध्याकर्कोटिकामूलरसेनैवाऽथ भावयेत् तथा धूर्तरसेनापि चित्रकस्य रसेन वै ॥३८॥कांबोजीरसकेनैव तथा नाडिरसेन वै ।आसां नियामिकानां च रसं वस्त्रेण गालयेत् ॥३९॥सूर्यतपे दिनैकैकं क्रमेणानेन मर्दयेत् ।अन्धमूषागतं गोलं मुद्रयेद्दृढमुद्रया ॥४०॥लोहसंपुटके पश्चान्निक्षिप्तं मुद्रेतं द्दढम् ।घटिकाद्वयमानेन ध्मापितं भस्त्रया खलु ॥४१॥स्वाड्गशीतलकं ज्ञात्वा गृह्यीयात्तां च मूषिकाम् ।उट्खन्योत्खन्य यत्नेन सूतभस्म समाहरेत ॥४२॥काचटड्कण्योगेन ध्मापितं तं च गोलकम् ।वेधते शतवेधेन सूतको नात्र संशय: ॥४३॥वक्रस्थो निधनं हन्याद्देहलोहकरो भवेत् ।वज्रबन्धस्य द्वितीय: प्रकार: ।वज्रभस्म तथा सूतं समं कृत्वा तु मर्दयेत ॥४४॥त्रिनेमिकावज्रवल्लीसहदेव्यो रसेन च ।स्त्रुहीक्षीरेण सप्ताहं सूर्यधर्मे सुतीत्रके ॥४५॥रसगोलं सुवृत्तं तु शुष्कं चैवाथ लेपयेत् ।काकमाचीरसेनैव लाड्ग्लीस्वरसेन हि ॥४६॥गोअजिह्यिकारसेनैव सप्तवारं प्रलेपयेत् वज्रमूषागतं गोलं मुद्रयेद्दृढमुद्रया ॥४७॥लोहसंपुटमूषायामन्धितं मध्यसंस्थितम् ।सप्तमृत्कर्पटै: सम्यग्लेपितं सुद्दृढं कुरु ॥४८॥ध्मापितं द्दढमड्गारैस्तत्रस्थं शीतलीकृतम् ।भित्वा मूषागतं सूतखोटं नक्षत्रसन्निभम् ॥४९॥सर्वकार्यकरं शुभ्रं रज्जितं वेधकृद्भवेत् ।अभ्रकद्रुतिबन्ध: ।अभ्रकद्रुतिभि: सार्धं सूतकं च विमर्दयेत् ॥५०॥समांशेन शिलापृष्ठे यामत्रयमनारतम् ।कस्तुरीघनसाराभ्यां कृष्णागरुसमन्वितम् ॥५१॥शर्करालशूनाभ्यां च रामठेन च संयुक्तम् ।पलाशबीजस्य तथा तत्प्रसूनस्य रसेन हि ॥५२॥तीक्ष्णांशुनापि मृदितं द्रुदिभि: सह सूतकम् ।मिलत्येव न संदेह: किमन्यैर्बहुभाषितै: ॥५३॥ततो गुजासेनैव श्चेतवृश्चीवकस्य च ।लाड्ग्ल्याश्च रसैस्तावद्यावद्भवति बन्धनम् ॥५४॥तत: प्रकाशमूषायां पश्चाड्गारैर्धमेत्क्षणम् ॥बन्धमायाति वेगेन यथा सूर्योदयेऽम्बुजम् ॥५५॥अभ्रद्रुतिसमायोगे रसेन्द्रो बध्यते खलु ।शिवभक्तो बभेत्साक्षात्सत्यवाक् संजितेन्द्रिय: ॥५६॥शिवयोर्मेलनं सम्यक् तस्य हस्ते भविष्यति ।रसागमेषु यत्प्रोक्तं बन्धनं पारदस्य च ॥५७॥कथितं तन्मया स्पष्टं नानुभूतं न चेष्टितम् हेमद्रुतिबन्ध: ।अथेदानीं प्रवक्ष्यामी सूतराजस्य बन्धनम् ॥५८॥हेमदुतिं रसेन्द्रेण मर्दयेत्सप्तवासरान् ।ज्वालामुखीरसेनैव धौत: पश्चाच काज्जिकै: ॥५९॥प्रत्यहं क्षालयेद्रात्रौ रसेनोक्तेन वै दिवा ।अन्धमूषागतं पश्चानमृदा कर्पटयोगत: ॥६०॥लेपयेत्सप्तवाराणि भूगर्ते गोलकं न्यसेत् ।द्वादशाड्गुलविस्तीर्णं द्वादशाड्गुलनिम्नकम् ॥६१॥खातप्रमाणं कथितं गुरुमर्गेण च स्फुटम् ।तत्रोपरि पुटं देयं गजाह्यं छगणेन च ॥६२॥यामद्वादशकेनैव बध्यते पारद: स्वयम् हेमद्रुतौ बध्दरसो देहलोहप्रसाधक: ॥६३॥सर्वसिध्दिकर: श्रीमान् जरादारिद्यनाशन: वज्रध्रुतिबन्ध: ।वज्राणां ब्रम्हजातीनां द्रुतिर्वल्लप्रमाणिका ॥६४॥तोलकं शुद्धसूतं च मर्दयेत्कन्यकारसे ।तावत्तं मर्दयेत्सम्यग्यावत् पिष्टी प्रजायते ॥६५॥कृत्वा मूषां समां शुध्दां दहनोपलनिर्मिताम् ।तन्मध्ये पिष्टिकां मूक्त्वा पिष्टीमानं विषं त्वहे: ॥६६॥पिधानं ताद्दशं कुर्यान्मुखं तेनाथ रुन्धयेत् ।कांस्यभाजनमध्ये तु स्थापयेन्मूषिकां शुभाम् ॥६७॥भाजनानि च चत्वारि चतुर्दिक्षु गतानि च ।चित्रं घर्मप्रसंगेन बन्धमायाति पारद: ॥६८॥यामात् खरातपे नित्यं शिवेनोक्तमतिस्फुटम् ।वज्रद्रुतिसमायओगात्सूतं बन्धनकं ब्रजेत ॥६९॥सर्वेषां सूतबन्धानां श्रेष्ठं सत्यं सदैव हि ।धातुबन्धस्य प्रथम प्रकार: ।धातेबन्धस्तृतीयोऽसौ स्वहस्तेन कृतो मया ॥७०॥तदहं कथयिष्यामि साधकार्थे यथातथम् ।भूर्जवत्सूक्ष्मत्राणि कारयेत् कनकस्य हि ॥७१॥तान्येव कोलमात्राणि पतमात्रं तु सूतकम् ।मर्दयेन्निम्बूकद्रावैर्दिनमेकमनारतम् ॥७२॥ततस्तद्गोलकं कृत्वा खर्परोपरि विन्यसेत् ।चुल्ल्यामारोपणं कार्यं धान्यम्लेन निषिश्चयेत् ॥७३॥पिष्टिस्तम्भस्तु कर्तव्यो नियतं त्रिदिनावधि ।ततो धूर्तरसेनैव खेदयेत्सप्तवासरान् ॥७४॥श्वेता पुनर्नवा चिश्चा सहदेवी च नीलिका ।तथा धूर्तवधू चैव लाड्गली सुरदालिका ॥७५॥सूतबन्धकरा: श्रेष्ठा: प्रोक्ता नागार्जुनादिभि: ।एतेषां स्वरसै: पड्कैर्लेपयेत्सूतगोलकम् ॥७६॥त्रिगुणैर्भूर्जपत्रैस्तु वेष्टयेत्तदनन्तरम् ।वस्त्रेण पोटलीं बध्वा खेदयेन्निम्बुकद्रवै: ॥७७॥यामत्रयं प्रयत्नेन धौत: पश्चाद्गवां जलै: ।ततो धूर्तफलान्त:स्थं पाचयेद्बुहुभि: पुटै: ॥७८॥लावकाख्यै: सुमतिमान् शोभन: सूर्यकान्तवत् ।जायते नात्र सन्देहो बध्द: शिवसमो भवेत् ॥७९॥धातुबन्धस्य द्वितीय प्रकार: ।अष्टमांशेन रुप्येन सूतकं हि प्रमर्दयेत् ।चाड्गेरीस्वर्सेनैव पिष्टिकां कार्येध्दुध: ॥८०॥खोटं बध्वा तु विपचेद्धुर्ततैले त्रिवासरान् ।तथा च कड्न्गुणीतैले करवीरजटोद्भवे ॥८१॥जातीफलोद्भवेनापि वत्सनागोद्भवेन च ।भृड्ग्युद्भेन च तथा समुद्रशोषकस्य वै ॥८२॥देवदारुभवेनापि पाचयेन्मतिमान् भिषक् ।पश्चात्सुतीक्ष्णमदिरा दातव्या च तुषाग्निना ॥८३॥दिनानि सप्त संख्यानि मुखमुत्पद्यते ध्रुवम् ।शुक्रस्तम्भकर: साक्षात्क्षीरं पिबति नान्यथा ॥८४॥धातुबन्धस्य तृतीय प्रकार: ।लोहपात्रे सुविस्तीर्णे तुत्थकस्यालवालकम् ।कृत्वा सुशोधितं सूतं तस्मिन्नि:क्षिप्य मात्रया ॥८५॥तुत्थचूर्णेन संछाद्य पूरयेन्निम्बुकद्रवै: ।पिधानेन मुखं रुद्वा लोहपात्रस्य यत्नत: ॥८६॥निवाते निर्जने देशे त्रिदिनं स्थापयेत्तत: ।उष्णकाज्जिकयोगेन क्षालयेद्बुहुशो भिषक् ॥८७॥नवनीतसमो वर्ण: सूतकस्यापि द्दश्यते ।रसखोटं ततो बद्वा खेदयेत्काज्जिकैस्त्र्यहम् ॥८८॥अश्मचूर्णस्य कणिकामध्ये खोटं निधाय च ।जलसेक: प्रकर्तव्य: शीतीभूतं समुध्दरेत् ॥८९॥अनेनैव प्रकारेण त्रिवारं पाचयेद्भुतम् ।कठिनत्व प्रयात्येव सत्यं गुरुवचो यथा ॥९०॥ततो धूर्तफलानां हि सहस्त्रेणापि पाचयेत् ।मुखमुत्पद्यते सम्यग्वीर्यस्तम्भकरोऽप्यलम् ॥९१॥धातुबन्धस्य चतुर्थ प्रकार: (पूतिबन्ध: ।)वड्नतीक्ष्णे समे कृत्वा ध्मापयेद्धज्रमूषया ।बड्गमुत्तारयेत्सम्यक् तीव्राड्गारै: प्रयत्नत: ॥९२॥अनेनैव प्रकारेण त्रिगुणं वाहयेत्रपु ।वीजं शाणप्रमाणं हि सूतं पलवितं भवेत् ॥९३॥मर्दयेत्कनकद्रावैर्दिनमेकं विशोषयेत् ।गोलस्य स्वेदणं कार्यमहोभि: सप्तभिस्तथा ॥९४॥त्रिफलाक्काथमध्ये तु त्रियामं खेदयेत्सुधी: ।कुमार्या: स्वरसेनैव भृड्गराजरसेन हि ॥९५॥भृड्गीरसेन च तथा त्रिदिनं स्वेद्यमेव हि ।एकैकेनौषधेनैवं काचकूप्यां निवेशयेत् ॥९६॥खटीपटुशिवाभक्टं पिष्टा वक्रं निरुन्धयेत् ।खातं त्रिहस्तमात्रं स्याल्लद्दिपूर्णं तु कारयेत् ॥९७॥मध्ये तु काचघटिकां सुरापूर्णां निवेशयेत् ।भूमिस्थां मासयुग्मेन पश्चादेनां समुध्दरेत् ॥९८॥बध्दं सूतवरं ग्राह्यं शुभ्रचन्द्रप्रभानिभम् ।मुखस्थं कुरुते सम्यकद्दढवज्रसमं वपु : ॥९९॥कामिनीनां शतं गच्छेदूलीपलितवर्जित: ।देवीशास्त्रानुसारेण धातुबध्दरसोऽप्ययम् ॥१००॥प्रकाशितो मया सम्यडात्र कार्या विचारणा ।धातुबन्धस्य पश्चम: प्रकार: ।रसेन्द्रं कान्तलोअहं च तीक्ष्ण्लोहं तथैव च ॥१०१॥अभ्रसत्वं तथा पायसत्वं हेमसमन्वितम् ।समांशानि च स्र्वाणि मर्दयेन्निम्बूकद्रवै: ॥१०२॥निशीश्च्येद्दिनैकं तु पश्चाद्रोलं तु कारयेत् ।पक्वमूषा प्रकर्तंव्या गोलं गर्भे निवेशयेत ॥१०३॥गोजिह्या काकमाची च निर्गुण्डी दुग्धिका तथा ।कुमारी मेघनादा च मधुसैन्धवसंयुता ॥१०४॥एतासां स्वर्सेनैव स्वेदयेब्दुहुशो भिषक् ।यावद्दृढत्वमायाति तावत्स्वेद्यं तु गोलकम् ॥१०५॥वक्रे धृतं जरामृत्युं निहन्ति च न संशय: ।सर्वरोगान्निहन्त्याशू वय: स्तम्भयते ध्रुवम् ॥१०६॥कर्णे कण्ठे तथ हस्ते धारिते मस्तकेऽपि वा ।अभिचारादिदोषाश्च न भवन्ते कदाचन ॥१०७॥अध्यायोपसंहार: ।चतुर्विधान्येव तु बन्धनानि श्रीसूतराजस्य मयोदितानि ।कुर्वन्ति ये तत्वविदो भिषग्वरा राज्ञां गृहेतेऽपि भवन्ति पूज्या: ॥१०८॥इति परमरहस्यं सूतराजस्य चोक्तं रसनिगममहाब्धेर्लब्धमेतत्सुरत्नम् ।सकलगुणवरिष्ठा वादिन: कौतुकज्ञा निजह्युदि च सुकण्ठे धारयिष्यन्ति तज्ज्ञा: ॥१०९॥ N/A References : N/A Last Updated : September 09, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP